रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पञ्चमः सर्गः १३९
पञ्चमः सर्गः १३९
च' इति यत् । पूजार्घ्यं द्रव्यं निधाय श्रुतेन शास्त्रेण प्रकाशं प्रसिद्धम् । श्रूयत इति
श्रुतं वेदशास्त्रम् । अतिथिमभ्यागतं कौत्सम् । प्रत्युद्जगाम ।
भाषार्थ—असाधारणस्वभाव, यशस्वी और अतिथिसेवी रघु सुवर्ण पात्रों के
अभाव में मृत्पात्र में अर्घ्य रखकर वेदाध्ययन से देदीप्यमान कौत्स के सम्मुख हुए।
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।
विशाम्पतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच ॥ ३ ॥
अन्वयः—विधिज्ञः मानधनाग्रयायी कृत्यवित् विशांपतिः तपोधनम् आरात् विष्टरभाजम् तम् विधिवत् अर्चयित्वा कृताञ्जलिः ( सन् ) इति उवाच ।
तम्इति । विधिज्ञः शास्त्रज्ञः । अकरणे प्रत्यवायभीरुरित्यर्थः । मानधनानामग्रयाय्यग्रेसरः । अपयशोभीरुरित्यर्थः । कृत्यवित्कार्यज्ञः । आगमनप्रयोजनमवश्यं प्रष्टव्यमिति कृत्यवित् । विशाम्पतिर्मनुजेश्वरः । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । विष्टरभाजमासनगतम् । उपविष्टमित्यर्थः । 'विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्' इत्यमरः । 'वृक्षासनयोर्विष्टरः' इति निपातः । तं तपोधनं विधिवद्विध्यर्हम् । यथाशास्त्रमित्यर्थः । 'तदर्हम्' इति वतिप्रत्ययः । अर्चयित्वाऽऽरात्समीपे । 'आराद् दूरसमीपयोः' इत्यमरः । कृताञ्जलिः सन्निति वक्ष्यमाणप्रकारेणोवाच ।
भाषार्थ—शास्त्रज्ञ स्वात्माभिमानियों में श्रेष्ठ और कर्तव्यपरायण रघु आसन पर विराजमान् तपस्वी कौत्स का विधिवत् पूजन करके हाथ जोड़ते हुए यों बोले।
अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे ! कुशली गुरुस्ते ।
यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ॥ ४ ॥
अन्वयः—हे कुशाग्रबुद्धे ! मन्त्रकृताम् ऋषीणाम् अग्रणीः ते गुरुः कुशली अपि ? यतः त्वया अशेषम् ज्ञानम् लोकेन उष्णरश्मेः चैतन्यम् इव आप्तम् ।
अप्यग्रणोरिति । हे कुशाग्रबुद्धे ! सूक्ष्मबुद्धे ! 'कुशाग्रीयमतिः प्रोक्तः सूक्ष्मदर्शी च यः पुमान्' इति हलायुधः । मन्त्रकृतां मन्त्रस्रष्टॄणाम् । 'सुकर्मपाप०' इत्यादिनां क्विप् । ऋषीणामग्रणीः श्रेष्ठस्ते तव गुरुः कुशल्यपि क्षेमवान्किम् ? अपिः प्रश्ने । 'गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि' इत्यमरः । यतो यस्माद् गुरोः सकाशात्त्वयाऽशेषं ज्ञानम् । लोकेनोष्णरश्मेः । सूर्याच्चैतन्यं प्रबोध इव । आप्तं स्वीकृतम् ।
भाषार्थ—हे बुद्धिमान् कौत्सजी ! मन्त्रसाक्षात्कार्ता, ऋषियों में श्रेष्ठ आपके गुरु कुशलपूर्वक तो हैं न ? जिनसे आपने सम्पूर्ण ज्ञानराशि प्राप्त की है जैसे सूर्य से मनुष्य जागरण को प्राप्त करता है ॥ ४ ॥
१४०
रघुवंशमहाकाव्ये
कायेन वाचा मनसाऽपि शश्वत्सम्भृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥ ५ ॥
अन्वयः—कायेन वाचा मनसा अपि वासवधैर्यलोपि यत् शश्वत् सम्भृतम् महर्षेः त्रिविधम् तत् तपः अन्तरायै व्ययम् न आपाद्यते कच्चित् ?
कायेनेति । कायेनोपवासादिकृच्छ्रचान्द्रायणादिना, वाचा वेदपाठेन, मनसा गायत्रीजपादिनां, कायेन वाचा मनसाऽपि कारणेन वासवस्येन्द्रस्य धैर्यं लुम्पतीति वासवधैर्यलोपि । स्वपदापहारशङ्काजनकमित्यर्थः । यत्तपः शश्वदसकृत् । 'मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समा' इत्यमरः । सम्भृतं सञ्चितं महर्षेर्वरतन्तोस्त्रि-विधं वाङ्मनःकायजं तत्तपोऽन्तरायैर्विघ्नैरिन्द्रप्रेरिताप्सरःशापैर्व्ययं नाशं नापाद्य-ते कच्चिद् न नीयते ।
भाषार्थ—आपके गुरु जी ने अधिकारच्युत हो जाने की आशंका से इन्द्र के धैर्य को भी नष्ट कर देने वाला जो कायिक, वाचिक, मानसिक तप संचय किया है कहीं उस त्रिविध तप का विघ्नों से नाश तो नहीं कराया जाता ? ॥ ५ ॥
आधारबन्धप्रमुखैः प्रयत्नः संवर्धितानां सुतनिर्विशेषम् ।
कच्चिन्न वात्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥ ६ ॥
अन्वयः—आधारबन्धप्रमुखैः प्रयत्नः सुतनिर्विशेषम् संवर्धितानां श्रमच्छिदाम् वः आश्रमपादपानाम् वात्त्वादिः उपप्लवः न कच्चित् ? ।
आधारेति । आधारबन्धप्रमुखैरालवालनिर्माणदिभिः प्रयत्नैरुपायैः । सुतेभ्यो निर्गतो विशेषोऽतिशयो यस्मिन्कर्मणि तत्तथा संवर्धितानां श्रमच्छिदां व आश्रमपा-दपानां वात्यादिः । आदिशब्द्दाद्दावानलादिः । उपप्लवो बाधको न कच्चिन्ना-स्ति किम् ।
भाषार्थ—आलवाल, जलदानादि उपायोंसे पुत्रके समान सम्बर्धित, पथिकों के विश्रामक तपोवन के वृक्षों को झंझावातादि उपद्रवों से कोई बाधा तो नहीं होतीं ? ॥ ६ ॥
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगोणामनघा प्रसूतिः ॥ ७ ॥
अन्वयः—क्रियानिमित्तेषु अपि कुशेषु मुनिभिः वत्सलत्वात् अभग्नकामा तद-ङ्कशय्याच्युतनाभिनाला प्रसूतिः अनघा कच्चित् ।
क्रियेति । क्रियानिमित्तेष्वप्यनुष्ठानसाधनेष्वपि कुशेषु मुनिभिर्वत्सलत्वान्मृगस्ने-हादभग्नकामाऽप्रतिहतेच्छा । तेषां मुनीनामङ्क एव शय्यास्तासु च्युतानि नाभिना-लानि यस्याः सा तथोक्ता मृगीणां प्रसूतिः सन्ततिरनघाऽव्यवसना कच्चित् । अनपायिनी किम् ।
पञ्चमः सर्गः १४१
**भाषार्थ—**अनुष्ठान के लिए रखे गए कुशों को भी खाने को इच्छुक जिन हरिणों के शावकोंको स्नेहवश मुनि लोग नहीं रोकते, मुनियों की गोद में नाभि-नाल के गिराने वाले वे नवजात हरिणों के बच्चे कुशल से तो हैं ? ॥७॥
निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितॄणाम् ।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ ८ ॥
**अन्वयः—**यैः नियमाभिषेकः निर्वर्त्यते, येभ्यः पितॄणाम् निवापाञ्जलयः, उञ्छषष्ठाङ्कितानि वः तानि तीर्थजलानि शिवानि कच्चित् ।
निर्वर्त्यत इति । यैस्तीर्थजलैर्नियमाभिषेको नित्यस्नानादिर्निवर्त्यते निष्पाद्यते । येभ्यो जलेभ्यः उद्धृत्येति शेषः । पितॄणामग्निष्वात्तादीनां निवापाञ्जलयस्तर्पणाञ्जलयः । निर्वर्त्यन्ते । उञ्छानां प्रकीर्णोद्धृतधान्यानां षष्ठैः षष्ठभागैः पालकत्वाद्रा जगाहै रङ्कितानि सैकतानि पुलिनानि येषां तानि तथोक्तानि वो युष्माकं तानि तीर्थजलानि शिवानि भद्राणि कच्चित् । अनुप्लवानि किमित्यर्थः ।
**भाषार्थ—**जिन तीर्थजलों से नित्यस्नानादि क्रियायें निष्पन्न होती हैं और पितरों का तर्पण किया जाता है, देय षष्ठांश राजभाग उञ्छ से सुशोभित वे तीर्थजल उपद्रवरहित तो हैं न ? ॥८॥
नीवारपाकादि कडङ्गरीयैरामृश्यतेः जानपदैर्न कच्चित् ।
कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ॥ ६ ॥
**अन्वयः—**कालोपपन्नातिथिकल्प्यभागम् वन्यम् शरीरस्थितिसाधनम् वः नीवारपाकादि जानपदैः कडङ्गरीयैः न आमृश्यते कच्चित् ।
नीवारेति । कालेषु योग्यकालेषूपपन्नानामागतानामतिथीनां कल्प्या भागा य॑स्य तत्तथोक्तम् । वने भवं वन्यम् शरीरस्थितेर्जीवितस्य साधनं वो युष्माकम् । पच्यत इति पाकः फलम् । धान्यमिति यावत् । नीवारपाकादि । जनपदेभ्य आगतैर्जानपदैः । कडङ्गरं बुसमर्हन्तीति कडङ्गरीयाः तैर्गोमहिषादिभिर्नामृश्यते कच्चित् न भक्ष्यते किमित्यर्थः ।
**भाषार्थ—**बलि वैश्वदेव के बाद उचित समय पर उपस्थित अतिथियों के भाग वाले, आप लोगों के जीवन के आधार, वनों में उत्पन्न नीवार आदि धान्य को ग्रामीण घास भूसा खाने वाले पशु तो नहीं खा जाते ? ॥ ९ ॥
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ १० ॥
१४२ | रघुवंशमहाकाव्ये
**अन्वयः—**त्वम् प्रसन्ने न सता महर्षिणा सम्यक् विनीय गृहाय अनुमतः अपि हि ते सर्वोपकारक्षमम् द्वितीयम् आश्रमं संक्रमितुम् अयम् कालः अस्ति ।
अपीति । किञ्च त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वां विद्यामुपदिश्येत्यर्थः । गृहस्थाश्रमं प्रवेष्टुम् । अनुमतोऽप्यनुज्ञातः किम् । यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्यवानप्रस्थयतीनामुपकारे क्षमं शक्तम् । द्वितीयमाश्रमं गार्हस्थ्य सङ्क्रमितुं प्राप्तुमयं कालः । विद्याग्रहणानन्तर्यात्तस्येति भावः ।
**भाषार्थ—**क्या प्रसन्नता से वरतन्तु ने भली भांति शिक्षा देकर गृहस्थाश्रम में प्रवेश के लिए आपको आज्ञा दे दी है ? क्योंकि आपकी यह अवस्था गृहस्थाश्रम में प्रवेश के योग्य है ॥ १० ॥
तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।
अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम् ॥ ११ ॥
**अन्वयः—**अर्हतः तव अभिगमेन मे मनः न तृप्तम्, किन्तु नियोगक्रियया उत्सुकम् शासितुः आज्ञया अपि आत्मना वा माम् सम्भावयितुम् वनात् प्राप्तोऽसि ?
तवेति । अर्हतः पूज्यस्य प्रशंस्यस्य । तवाभिगमनागमनमात्रेण मे मनो न तृप्तं न तुष्टम् । किन्तु नियोगक्रिययाऽऽज्ञाकरणेनोत्सुकं सोत्कण्ठम् । शासितुर्गुरोराज्ञयाप्यात्मना स्वतो वा । मां सम्भावयितुं वनात्प्राप्तोऽसि ।
**भाषार्थ—**आपके आगमन मात्र से मेरा मन सन्तुष्ट नहीं हो सकता है किन्तु आपकी आज्ञा सुनने को बड़ी उत्कण्ठा है । क्या आप गुरु की आज्ञा से या स्वेच्छा से मुझे कृतार्थ करने आये हैं ? ॥ ११ ॥
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य ।
स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमित्यवोचद्वरतन्तुशिष्यः ॥ १२ ॥
**अन्वयः—**अर्घ्यपात्रानुमितव्ययस्य रघोः इति उदाराम् अपि गाम् निशम्य वरतन्तुशिष्यः स्वार्थोपपत्तिम् प्रति दुर्बलाशः सन् तम् इति अवोचत् ।
इतीति । अर्घ्यपात्रेण मृन्मयेनानुमितो व्ययः सर्वस्वत्यागो यस्य तस्य रघोरित्युक्तप्रकारामोदार्ययुक्तामपि गां वाचम् । 'मनोनियोगक्रिययोत्सुकं मे' इत्येवंरूपाम् । निशम्य श्रुत्वा वरतन्तुशिष्यः कौत्सः स्वार्थोपपत्ति स्वकार्यसिद्धि प्रति दुर्बलाशः सन्मृण्मयपात्रदर्शनाच्छिथिलमनोरथः संस्तं रघुमिति वक्ष्यमाणप्रकारेणावोचत् ।
**भाषार्थ—**मिट्टी के अर्घ्यपात्र से ही विश्वजित् यज्ञ में समस्त सम्पत्ति का व्यय व्यक्त करने वाले रघु की यह उदार वाणी सुन, कौत्स ऋषि अपनी कार्य-सिद्धि में निराश होते हुए बोले ॥१२॥