सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

नवमः सर्गः

नवमः सर्गः
२१३

ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् ।
पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥ ३६ ॥

अन्वयः-अङ्गनाः ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेशरं स्मरसखं मधुं पतिषु रसखण्डनवर्जितम् निर्विविशुः ।

ललितेति । अङ्गना ललितविभ्रमबन्धविचक्षणं मधुरविलासघटनापटुतरं सुरभिणा मनोहरेण गन्धेन पराजितकेसरं निर्जितवकुलपुष्पम् । 'अथ केसरे बकुलः' इत्यमरः । स्मरस्य सखायं स्मरसखं स्मरोद्दीपकमित्यर्थः मधुं मद्यम् । 'मधुं मद्ये पुष्परसे' इत्यमरः । "अर्धर्चा पुंसि च" इति पुंल्लिगता । उक्तं च-'मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ॥' इति । पतिषु विषये रसखण्डनवर्जितमनुरागभङ्गरहितं यथा तथा निर्विविशुः । परस्परानुरागपूर्वकं पतिभिः सह पपुरित्यर्थः ।

भाषार्थ-विलास के उत्पादन में कुशल अपनी सुगन्ध से मौलेसरी को भी मात करने वाले कामवर्द्धक मद्य, को स्त्रियों ने अपने पतियों के विषय में अखण्डित प्रेम के साथ पान किया ॥ ३६ ॥

शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः ।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहङ्गमाः ॥ ३७ ॥

अन्वयः-विकचतामरसाः मदकलोदकलोलविहङ्गमाः गृहदीर्घिकाः स्मितचारुतराननाः श्लथशिञ्जितमेखलाः स्त्रियः इव शुशुभिरे ।

शुशुभिरे इति । विकचतामरसा विकसितकमलाः । मदेन कला अव्यक्तमधुरं ध्वनन्त उदकलोलविहङ्गमा जलप्रियपक्षिणो हंसादयो यासु ता मदकलोदकलोलविहङ्गमाः । गृहेषु दीर्घिका वाप्यः स्मितेन चारुतराण्याननानि यासां ताः "ईषद्विकसितैर्गण्डैः कटाक्षैःसौष्ठवोचितैः ।। अलक्षितं द्विजद्वारे सूत्तमानां स्मितं भवेत् ॥" इति नाट्यलोचने । श्लथाः शिञ्जिता मुखरा मेखला यासां ताः । शिञ्जितेति कर्तरि क्तः । स्त्रिय इव शुशुभिरे ।

भाषार्थ-घरों के अन्दर बनी हुई बावलियों में जो कमल खिले हुए थे और मधुर शब्द करते हुए हंसादि जल पक्षी तैर रहे थे, उनसे वे ऐसी सुन्दर जान पड़ती थी मानों उनमें मुस्कराती हुई सुन्दर मुखवाली और ढीली होने के कारण बहती हुई करधनी वाली स्त्रियां जल-बिहार रही हों ॥ ३७ ॥

उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
सदृशमिष्टसमागमनिर्वृतिं वनितायाऽनितया रजनीवधूः ॥ ३८ ॥

२९४रघुवंशमहाकाव्ये

अन्वयः—मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः रजनीवधूः इष्टसमागम-निवृंत्तिम् अनितया वनितया सदृशं तनुताम् उपययौ ।

उपययाविति । मधुना मधुसमयेन खण्डिता ह्रासं गमिता । क्षीयन्ते खलूत्तरायणे रात्रयः खण्डिताख्या च नायिका ध्वन्यते हिमकरोदयेन पाण्डुर्मुखस्य प्रदोषस्य वक्त्रस्य च छविर्यस्याः सा। रजन्येत्र वधूः इष्टसमागमनिवृंत्तिं प्रियसङ्गमसुखमनि तयाऽप्राप्त्या । 'इण्गतौ' इति धातोः कर्तरि क्तः । वनियता सदृशं तुल्यं तनुतां न्यूनतां काश्यं चोपययौ ।

भाषार्थ—जिस प्रकार अपने प्रियतम से समागम न होने के कारण खण्डिता नायिका दुर्बल होती जाती हैं उसी प्रकार रात्रि रूपी नायिका भी बसन्त ऋतु के आने से छोटी होती गई और उसका मुखचन्द्र भी पीला पड़ता गया ॥ ३८ ॥

अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः ।
कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥ ३९ ॥

अन्वयः—हिमकरः अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः अंशुभिः मकरोर्जितकेतनं कुसुमचापम् अतेजयत् ।

अपैति । हिमकरश्चन्द्रः अपतुषारतयाऽपगतनीहारतया विशदप्रभैर्निर्मलकान्तिभिः सुरतसङ्गपरिश्रमादिभिः सुरतसङ्गस्वेदहारिभिरंशुभिः किरणै ''चन्दनं मृदुनालानि हरन्ति सुरतश्रमम्'' इति रतिरहस्यम् । मकरोर्जितकेतनं मकरेणोर्जितं केतनं ध्वजो यस्य तम् । लब्धावकाशत्वादुच्छ्रितध्वजमित्यर्थः । कुसुमचापं काममतेजयदशातयत् । 'तिज निशाने' इति धातोण्यन्तल्लिलङ् । सहकारिलाभात्कामोऽपि तीक्ष्णोऽभूदित्यर्थः ।

भाषार्थ—पाला के दूर हो जाने से चन्द्रमा निर्मल हो गया, उसने अपने सुरतश्रम को नष्ट करनेवाली किरणों से कामदेव के पुष्पों के धनुष को और भी तेज कर दिया ॥ ३९ ॥

हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् ।
युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥ ४० ॥

अन्वयः—हुतहुताशनदीप्ति यत् कुसुमं वनाश्रियः कनकाभरणस्य प्रतिनिधिः अभूत् दलकेशरपेशलं प्रियैः आहितं तत् युवतयः अलके दधुः ।

हुतेति । हुतहुताशनदीप्या ज्यादिप्रज्वलिताग्निप्रभं यत्कुसुमं कर्णिकारमित्यर्थः । वनश्रियः र पवनलक्ष्म्याः कनकाभरणस्य प्रतिनिधिः। अभूदिति शेषः । दलेषु केसरेषु

नवमः सर्गः २९५

च पेशलं सुकुमारपत्रकिञ्जल्कमित्यर्थः । आहितं प्रियैरिति शेषः । तत्कुसुमं युवतयोंऽलके कुन्तले दधुः ।

भाषार्थ— प्रज्वलित अग्नि के समान कान्तिवाले जो पुष्प वनलक्ष्मी के कानों के कर्णफूल जैसे लगते थे, अपने प्रियतमों द्वारा लाये गये सुन्दर पंखुड़ी और परागवाले उन फूलों को स्त्रियों ने बालों में धारण किया ॥ ४० ॥

अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥ ४१ ॥

अन्वयः— अञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिः अलिभिः अङ्कितः तिलकः वनस्थलीं तिलकः प्रमदाम् इव न शोभयति स्म इति न खलु ।

अलिभिरिति । अञ्जनबिन्दुमनोहरैः कज्जलकर्णसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः अलिभिरङ्कितश्चिह्नितस्तिलकः श्रीमान्नाम वृक्षः । ‘तिलकः क्षुरकः श्रीमान्’ इत्यमरः । वनस्थलीं तिलको विशेषकः । ‘तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च नहि स्त्रियाम्’ इत्यमरः । प्रमदामिव न शोभयति स्मेति न खलु अपि त्वशोभयदेवेत्यर्थः । “लट्स्मे” इति स्मशब्दयोगाद्भूतार्थे लट् । तिलकेष्वञ्जनबिन्दवः शोभार्थं क्रियन्ते ।

भाषार्थ— कज्जल बिन्दु के समान, पुष्प समूह पर बैठते हुए भ्रमरों से चिह्नित तिलक वृक्ष वनस्थली को ललाट में टीका किये हुए स्त्री की तरह सुशोभित नहीं किया था ऐसा नहीं किन्तु सुशोभित किया ही था ॥ ४१ ॥

अमदयन्मधुगन्धसनाथया किसलयाधरसङ्गतया मनः ।
कुसुमसम्भृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ ४२ ॥

अन्वयः— तरुचारुविलासिनी नवमल्लिका मधुरागसनाथया किसलयाधरसंगतया कुसुमसम्भृतया स्मितरुचा पश्यतां मनः अमदयत् ।

अमदयदिति । तरुचारुविलासिनी तरोः पुंसश्च चारुविलासिनी नवमल्लिका सप्तलाख्या लता । ‘सप्तला नवमल्लिका’ इत्यमरः । मधुनो मकरन्दस्य मद्यस्य च गन्धेन सनाथया गन्धप्रधानेत्यर्थः । किसलयमेवाधरस्तत्र सङ्गतया प्रसृतरागयेत्यर्थः । कुसुमैः सम्भृतया सम्पादिताया कुसुमरूपयेत्यर्थः । स्मितरुचा हासकान्त्या मनः पश्यतामिति शेषः । अमदयत् ।

भाषार्थ— जैसे कोई विलासिनी स्त्री अपने मद्यगन्धयुक्त हास्य से दर्शकों को मदोन्मत्त करती है वैसे ही नवमल्लिका लता भी अपने मकरन्द रूपी गन्ध से भरी

२९६ रघुवंशमहाकाव्ये

लाल पत्तारूपी के ओठों पर फूलों की मुस्कान लेकर देखने वालों के मन् को मतवाला बनाए डालती थी ॥ ४२ ॥

  अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवांकुरैः ।
  परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥ ४३ ॥

  अन्वयः—विलासिनः अरुणरागनिषेधिभिः अंशुकैः श्रवणलब्धपदैः यवाङ्कुरैः च परभृताविरुतैः च इत्येतैः स्मरबलैः अबलैकरसाः कृताः ।

  अरुणेति । विलासिनो विलसनशीलाः पुरुषाः । “वौ कषलसकत्वस्त्रम्भः” इत्यनेन घिनुण्प्रत्ययः । अरुणास्यानूरो रागमारुण्यं निषेधन्ति तिरस्कुर्वन्तीत्यरुणरागनिषेधिनस्तैः कुसुम्भादिरञ्जनात्तत्सदृशैरित्यर्थः । तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति । “तस्यैवानुकरोतीति शब्दाः सादृश्यवाचकाः ।” इति दण्डी । अंशुकैरम्बरैः श्रवणेषु कर्णेषु लब्धपदैः निवेशितैरित्यर्थः । यवाङ्कुरैश्च परभृताविरुतैः कोकिलाकूजितैश्च इत्येतैः स्मरबलैः कामसैन्यैः अबलास्वेक एव रसो रागो येषां तेऽबलैकरसाः स्त्रीपरतन्त्राः कृताः ।

  भाषार्थ—प्रातःकाल की लालिमा से भी अधिक लाल वस्त्रों ने, कर्ण भूषण बनाये गये यव के अंकुरों ने और कुहकनेवाली कोयलों की सेना लेकर चलने वाले कामदेव ने ऐसा जाल बिछाया कि सभी विलासी पुरुष, युवती स्त्रियों के प्रेम में सुध बुध खो बैठे ॥ ४३ ॥

  उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी ।
  सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ४४ ॥

  अन्वयः—शुचिभिः कणैः उपचितावयवा अलिकदम्बकयोगम् उपेयुषी तिलकजा मञ्जरी अलकजालकमौक्तिकैः सदृशकान्तिः अलक्ष्यत् ।

  उपचितेति । शुचिभिः शुभ्रैः कणै रजोभिरुपचितावयवा पुष्टावयवा अलिकदम्बकयोगमुपेयुषी प्राप्ता तिलकजा तिलकवृक्षोत्था मञ्जरी अलकेषु यज्जालकमाभरणविशेषस्तस्मिन् । मौक्तिकैः सदृशकान्तिः अलक्ष्यत । भृङ्गसङ्गिनी शुभ्रा तिलकमञ्जरी नीलालकसक्ता जालमिवालक्ष्यतेति वाक्यार्थः ।

  भाषार्थ—लोगों ने श्वेत परागों से भरे हुए अवयव वाली और भ्रमर समूह से व्याप्त तिलक वृक्ष की मञ्जरी को ऐसा देखा मानो किसी स्त्री ने अपने सिर पर मोतियों की जाली पहन लिया हो ॥ ४४ ॥

  ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः ।
  कुसुमकेसररेणुमलिब्रजाः सपवनोपवनोत्थितमन्वयुः ॥ ४५ ॥