रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
द्वितीयः सर्गः ४३
द्वितीयः सर्गः ४३
चतुर्थी । मुमोच मुक्तवान् । जायापदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनु
सन्धेयम् । तथा हि श्रुतिः—‘पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम् । तस्यां
पुनर्नवो भूत्वा दशमे मासि जायते । तज्जाया जाया भवति यदस्यां जायते
पुनः” ।। इति । यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद्राजानहं गोरक्षणे प्रवृत्त
इति गम्यते । अस्मिन्सर्गे वृत्तमुपजातिः—“अनन्तरोदीरितलक्ष्मभाजो पादौ
यदीयावुपजातयस्ताः” इति ।
**भाषार्थ—**रात्रि के बीत जाने पर यश के धनी, प्रजापालक, राजा दिलीप
ने प्रातःकाल सुदक्षिणा द्वारा दी हुई गन्धमाला को ग्रहण करने वाली, दूध
पीकर बँधे हुए बछड़े वाली, महर्षि वसिष्ठ की नन्दिनी गो को वन में चराने के
लिए खोल दिया ॥ १ ॥
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृ तिरन्वगच्छत् ॥ २ ॥
**अन्वयः—**अपांसुलानां धुरि कीर्तनीया मनुष्येश्वरधर्मपत्नी तस्याः खुरन्यास-
पवित्रपांसुं मार्गं स्मृतिः श्रुतेः अर्थम् इव अन्वगच्छत् ।
तस्या इति । पांसवो दोषा आसां सन्तीति पांसुलाः स्वैरिण्यः । ‘स्वैरिणी
पांसुला’ इत्यमरः । ‘सिध्मादिभ्यश्च’ इति लच्प्रत्ययः । अपांसुलानां पति-
व्रतानां धुर्यग्रे कीर्तनीया परिगणनीया । मनुष्येश्वरधर्मपत्नी खुरन्यासैः पांसवो
पवित्राः यस्य तम् । ‘रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः’ इत्यमरः ।
तस्या धेनोर्मार्गम् । स्मृतिमन्वादिवाक्यं श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव अन्वग-
च्छदनुसृतवती च । यथा स्मृतिः श्रुविक्षुण्णमेवार्थमनुसरति तथा सोऽपि गोखुर-
क्षुण्णमेव मार्गमनुससारेत्यर्थः । धर्मपत्नीत्यत्राश्वघा सादिवत्तादर्थ्ये षष्ठीसमासः
प्रकृतिविकाराभावात् । पांसुलपथवृत्तावप्यपांसुलामिवि विरोधा लङ्कारो ध्वन्यते ।
**भाषार्थ—**पतिव्रताओं में अग्रगण्य, राजा दिलीपकी धर्मपत्नी सुदक्षिणा
उस नन्दिनी के खुरों के रखने से पवित्र धूलिवाले मागं में वेद के अर्थ के पीछे
स्मृति के सामान चली ॥ २ ॥
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥ ३ ॥
**अन्वयः—**दयालुः यशोभिः सुरभिः राजा तां दयितां निवर्त्य पयोधरीभूत-
चतुःसमुद्रां सौरभेयीं गोरूपधरां उर्वीम् इव जुगोप ।
निवर्त्येति । दयालुः कारुणिकः । ‘स्याद्दयाल़ुः कारुणिकः’ इत्यमरः । ‘स्पृहि-
गृहि-’इत्यादिनाऽऽलुच्प्रत्ययः । यशोभिः सुरभिर्मनोज्ञः । सुरभिः स्यान्मनोज्ञेऽपि’
४४ रघुवंशमहाकाव्ये
इति विश्वः । राजा तां दयितां निवर्त्य सौरभेयीं कामधेनुसुतां नन्दिनीम् । धरं-
तीति धराः । पचाद्यच् । पयसां धराः पयोधराः स्तनाः । 'स्त्रीस्तनाब्दौ' पयोधरौ'
इत्यमरः । अपयोधराः पयोधराः सम्पद्यमानाः पयोधरीभूताः । अभूततद्भावे
च्विः । 'कुगतिप्रादयः' इति समासः । पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम् ।
'अनेकमन्यपदार्थे' इत्यनेकपदार्थग्रहणसामर्थ्यात्त्रिषदो बहुव्रीहिः । गोरूपधरामूर्वी-
मिव जुगोप ररक्ष । भूरक्षणप्रयत्नेनैव ररक्षेति भावः । धेनुपक्षे—पयसा दुग्धे-
नाधारीभूताश्चत्वारः समुद्रा यस्याः सा तथोक्तम् । दुग्धतिरस्कृतसागरामित्यर्थः
भाषार्थ—दयालु एवं कीर्तियों से सुशोभित राजा दिलीप प्रियपत्नी सुद-
क्षिणा को लोटाकर अपने दूध से चारों समुद्रोंको तिरस्कृत करने वाली सुरभि
की पुत्री नन्दिनी को चारों समुद्रों को चार स्तनों के रूप में धारण करनेवाली
गोरूपी पृथ्वी के समान रक्षा की। ॥ ३ ॥
व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा, स्ववीर्यगुप्ता हि मनोः प्रसूति ॥ ४ ॥
अन्वयः—व्रताय धेनोः अनुचरेण तेन शेषः अपि अनुयायिवर्गः न्यषेधि तस्य
शरीरक्षा च अन्यतः न। हि मनोः प्रसूतिः स्ववीर्यगुप्ता ( भवति )।
व्रतायेति । व्रताय धेनोरनुचरेण न तु जीवनायेति भावः । तेन दिलीपेन
शेषोऽवशिष्टोऽप्यनुयायिवर्गोऽनुचरवर्गो न्यषेधि निवारितः शेषत्वं सुदक्षिणाऽपेक्षया।
कथं तह्र्यात्मरक्षणमत आह—न चेति । तस्य दिलीपस्य शरीरक्षा चान्यतः
पुरुषात्तरात्न। कुतः ? हि यस्मात्कारणान्मनीः प्रसूयत इति प्रसूतिः सन्ततिः
स्ववीर्यगुप्ता स्ववीर्येणैव रक्षिता । न हि स्वनिर्वाहकस्य परापेक्षेति भावः ।
भाषार्थ—व्रत के लिए नन्दिनी के पीछे चलने वाले राजा दिलीप ने शेष
नौकरों को भी लोटा दिया । उनके शरीर की रक्षा के लिए दूसरो की आव-
श्यकता न थी, क्योंकि मनु की संतान अपने पराक्रम से रक्षित होती है । ४ ।
आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दशनिवारणैश्च ।
अव्याहतैः स्वैरगतैः स तस्या सम्राट् समाराधनतत्परोऽभूत् ॥ ५ ॥
अन्वयः—सम्राट् स आस्वादवद्भिः तृणानां कवलैः कण्डूयनैः दंशनिवारणैः
अव्याहतैः स्वैरगतैः च तस्याः समाराधनतत्परः अभूत् ।
आस्वादवद्भिरिति । सम्राट् मण्डलेश्वरः 'येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः।
शास्ति यश्चाज्ञया राज्ञः स सम्राट्' इत्यमरः । स राजा आस्वादवद्भिः रसवद्भिः
स्वादयुक्तैरित्यर्थः। तृणानां कवलैर्ग्रासैः । 'ग्रासस्तु कवलः पुमान्' इत्यमरः । कण्डू