सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

द्वादशः सर्गः ३९७.

द्वादशः सर्गः ३९७.

इति धातोर्लङ् । "अस्यतिवक्तिख्यातिभ्योऽङ्" इत्यप्रत्ययः । "अस्यतेस्थुक्"
इति थुगागमः । स काक एकनेत्रस्य व्ययेन दानेन तस्मादस्त्रादात्मानं मुमुचे
मुक्तवान् । मुचे कर्तरि लिट् । 'धेनुं मुमोच' इतिवत्प्रयोगः ।

भाषार्थ—झट सीता ने रामको जगाया और राम ने तत्काल उसपर सींक
का बाण छोड़ दिया, जिससे बचने के लिए वह कौआ इधर-उधर बहुत चक्कर
लगाया, किन्तु जब तक उसने अपनी एक आंख नहीं दे दी, तब तक उसका
छुटकारा नहीं हुआ अर्थात् राम ने बाण से उसकी एक आँख नष्ट कर दी ॥२३॥

रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः ।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलों जहौ ॥ २४ ॥

अन्वयः--रामः तु आसन्नदेशत्वात् पुनः भरतागमनं आशङ्क्य उत्सुकसारङ्गां
चित्रकूटस्थलीं जहौ ।

राम इति। रामस्त्वासन्नदेशत्वाद्वैतोः पुनर्भंरतागमनमाशङ्क्योत्सुकसारङ्गा-
मुत्कण्ठितहरिणां चित्रकूटस्थलीं जहौ तत्याज । आसन्नश्चासौ देशश्चेति विग्रहः ।

भाषार्थ--कुछ दिनों में ही राम ने इस डर से चित्रकूट का वह आश्रम
जहाँ के लोग उनसे इतने हिल मिल गये थे कि सदा उन्हें देखते ही रहते थे
छोड़ दिया, कि अयोध्या पास में ही है, ऐसा न हो कि भरत पुनः यहाँ पहुँच
जाय ॥ २४ ॥

प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।
दक्षिणां दिशमृक्षेषु वार्षकेष्विव भास्करः ॥ २५ ॥

अन्वयः--आतिथेयेषु ऋषिकुलेषु वार्षकेषु ऋक्षेषु भास्करः इव दक्षिणां
दिशं प्रययौ ।

प्रययाविति । स रामः अतिथिषु साधून्यातिथेयानि । “पथ्यतिथिवसति-
स्वपतेर्ढञ्” इति ढञ्प्रत्ययः । तेष्वृषिकुलेष्वृष्याश्रमेषु । ‘कुलं कुल्ये गणे देहे गेहे
जनपदेऽन्वये’ इति हेमः । वर्षासु भवानि वार्षिकाणि । “वर्षाभ्यष्ठक्” इति
ठक्प्रत्ययः । तेष्वृक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव वसन्दक्षिणां दिशं प्रययौ ।

भाषार्थ--जिस प्रकार वर्षाकाल के आर्द्रा आदि दश नक्षत्रों में ठहरते
हुए सूर्य दक्षिणायन हो जाते हैं उसी प्रकार अतिथि सत्कार करनेवाले ऋषियों
के आश्रमों में ठहरते हुए राम दक्षिण दिशा की ओर बढ़ गये ॥ २५ ॥

बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता ।
प्रतिषिद्धाऽपि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥ २६ ॥

३९८ रघुवंशमहाकाव्ये

अन्वयः—तं अनुगच्छन्ती विदेहाधिपतेः सुता कैकेय्या प्रतिषिद्धा अपि गुणोन्मुखी लक्ष्मीः इव बभौ।

बभाविति। तं राममनुगच्छन्ती अनुयान्ती विदेहाधिपतेः सुता सीता कैकेय्या प्रतिषिद्धा निवारिताऽपि गुणोन्मुखी गुणोत्सुका लक्ष्मी राजलक्ष्मीखिव बभौ ।

भाषार्थ—यद्यपि कैकेयी ने रामको राज्यलक्ष्मी से दूर कर दिया था फिर भी उनके पीछे-पीछे चलनेवाली जनकनन्दिनी सीता ऐसी जान पड़ती थी मानों राम के गुणों से उत्कण्ठित होकर राम के पीछे-पीछे राजलक्ष्मी चल रही है॥ २६ ॥

अनुसूयातिसृष्टेन पुण्यगन्धेन काननम् ।
सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम् ॥ २७ ॥

अन्वयः—सा अनुसूयातिसृष्टेन पुण्यगन्धेन अङ्गरागेण काननं पुष्पोच्चलितषट्पदं चकार ।

अनुसूयेति। सा सीताऽनुसूययाऽत्रिभार्ययाऽतिसृष्टेन दत्तेन पुण्यगन्धेनाङ्गरागेण काननं वनं पुष्पेभ्यः उच्चलिता निर्गताः षट्पदाः भ्रमरा यस्मिंस्तत्तथाभूतं चकार ।

भाषार्थ—जब राम अत्रि ऋषि के आश्रम पर पहुँचे तब उनकी धर्मपत्नी सती अनुसूयाजी ने सीता के शरीर में ऐसा सुगन्धित अंगराग लगा दिया कि उसकी पवित्र गन्ध पाकर भौंरे जंगली पुष्पों को छोड़कर उधर ही आने लगे ॥ २७ ॥

सन्ध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः ।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥ २८ ॥

अन्वयः—सन्ध्याभ्रकपिशः विराधः नाम राक्षसः ग्रहः इन्दोः इव तस्य मार्गम् आवृत्य अतिष्ठत् ।

सन्ध्येति। सन्ध्याभ्रकपिशो सन्ध्याभ्रवत्कपिशः पिङ्गो विराधो नाम राक्षसः ग्रहो राहुरिन्दोरिव तस्य रामस्य मार्गमध्वानमावृत्यावरुद्ध्यातिष्ठत् ।

भाषार्थ—जिस प्रकार चन्द्रमा का मार्ग राहु रोक लेता है उसी प्रकार सन्ध्याकाल के बादल के समान लाल वर्णवाला विराध नाम का राक्षस राम के मार्ग को रोक कर खड़ा हो गया ॥ २८ ॥

स जहार तयोर्मध्ये मैथिलीं लोकशोषणः ।
नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥ २९ ॥

अन्वयः—लोकशोषणः सः तयोः मैथिलीं नभो नभस्ययोः अन्तरे वृष्टिः इव जहार ।

स इति । लोकस्य शोषणः शोषकः जनसन्तापकारीत्यर्थः। स राक्षसतयो राम-

द्वादशः सर्गः ३९९

लक्ष्मणयोर्मध्ये मैथिलीं नभोनभस्ययोः श्रावणभाद्रपदयोरन्तरे मध्ये वृष्टिमवग्रहो वर्षप्रतिबन्ध इव जहार। 'वृष्टिवर्षं तन्निघातेऽवग्राहावग्रहो समौ' इत्यमरः।

**भाषार्थ—**जिस प्रकार कोई खोटा ग्रह श्रावण तथा भादों मास के बीच से वर्षा को गायब कर देता है उसी प्रकार संसार को सन्तप्त करनेवाले उस विराध राक्षस ने राम और लक्ष्मण के बीच से सीता को हर लिया॥ २९॥

तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम्।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः॥ ३०॥

**अन्वयः—**काकुत्स्थौ तं निष्पिष्य अशुचिना गन्धेन स्थलीं पुरा दूषयति इति वसुधायां निचख्नतुः।

तमिति। ककुत्स्थस्य गोत्रापत्ये पुमांसौ काकुत्स्थौ रामलक्ष्मणौ तं विराधं विनिष्पिष्य हत्वा अशुचिनाऽपवित्रेण गन्धेन स्थलीमाश्रमभुवं पुरा दूषयति दूषयिष्यतीति हेतोः। "यावत्पुरानिपातयोर्लट्" इति भविष्यदर्थे लट् वसुधायां निचख्नतुर्भूमो खनित्वा निक्षिप्तवन्तौ च।

**भाषार्थ—**राम और लक्ष्मण उसे तत्काल मारकर पृथ्वी में इसलिए गाड़ दिये कि कहीं इसके शरीर से दुर्गन्ध निकल कर इस प्रदेश को दूषित न कर दे॥ ३०॥

पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः।
अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव॥ ३१॥

**अन्वयः—**ततः रामः कुम्भजन्मनः शासनात् पञ्चवट्यां विन्ध्याद्रिः प्रकृतौ इव अनपोढस्थितिः तस्थौ।

पञ्चवट्यामिति। ततो रामः कुम्भजन्मनोऽगस्त्यस्य शासनात् पञ्चानां वटानां समाहारः पञ्चवटी। "तद्धितार्थोत्तरपदसमाहारे च" इति तत्पुरुषः। "संख्यापूर्वो द्विगुः" इति द्विगुसंज्ञायाम्। "द्विगोः" इति ङीप्। "द्विगुरेकवचनम्" इत्येकवचनम्। तस्यां पञ्चवट्यां विन्ध्याद्रिः प्रकृतौ वृद्धेः पूर्वावस्थायामिव अनपोढस्थितिरनतिक्रान्तमर्यादस्तस्थौ।

**भाषार्थ—**इसके बाद जिस प्रकार विन्ध्यपर्वत अगस्त्यजी की आज्ञा से अपनी प्रकृति में ही स्थित रहता है उसी प्रकार राम भी अगस्त्यजी के कहने से मर्यादा पूर्वक पञ्चवटी में रहने लगा॥ ३१॥

रावणावरजा तत्र राघवं मदनातुरा।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम्॥ ३२॥

४०० रघुवंशमहाकाव्ये

अन्वयः—तत्र मदनातुरा रावणावरजा राघवं निदाघार्ता व्याली मलयद्रुमम् इव अभिपेदे ।

रावणावरजेति। तत्र पञ्चवट्यां मदनातुरा रावणावरजा रावणानुजा शूर्पणखा । “पूर्वपदात्संज्ञायामगः” इति णत्वम् । राघवं निदाघार्ता व्याकुला व्याली भुजङ्गी मलयद्रुमं चन्दनद्रुममिव अभिपेदे प्राप ।

भाषार्थ—वहाँ जिस प्रकार धूप से व्याकुल होकर कोई सर्पिणी चन्दन के वृक्ष के पास पहुँच गई हो, उसी प्रकार काम से पीड़ित होकर रावण की छोटी बहन शूर्पणखा राम के पास जा पहुँची ॥ ३२ ॥

सा सीतासन्निधावेव तं वव्रे कथितान्वया ।
अत्यारूढो हि नारीणामकालज्ञो मनोभवः ॥ ३३ ॥

अन्वयः—सा सीता सन्निधौ एव कथितान्वया ( सती ) तं वव्रे । हि अत्यारूढः नारीणां मनोभवः अकालज्ञः ( भवति ) ।

सेति। सा शूर्पणखा सीतासन्निधावेव कथितान्वया कथितस्ववंशा सती तं रामं वव्रे वृतवती । तथाहि अत्यारूढोऽतिप्रवृद्धो नारीणां मनोभवः कामः कालज्ञोऽवसरज्ञो न भवतीत्यकालज्ञो अनवसरज्ञो हि ।

भाषार्थ—पहले तो उस शूर्पणखा ने अपने कुल का परिचय दिया । बाद सीता के सामने ही कहने लगी कि मैं आपको अपना पति बनाने आई हूँ । ठीक ही है जब स्त्रियाँ अधिक कामातुर हो जाती हैं तब उन्हें समय और असमय का ज्ञान नहीं रहता ॥ ३३ ॥

कलत्रवानहं बाले कनीयांसं भजस्व मे ।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ ३४ ॥

अन्वयः—वृषस्कन्धः रामः वृषस्यन्तीं तां 'हे बोले ! अहं कलत्रवान्, मे कनीयांसं भजस्व' इति शशास ।

कलत्रवानिति । वृष पुमान् । ‘वृषः स्याद्वासवे धर्म सौरभेये च शुक्ले । पुंराशिभेदयोः शृङ्गयां मूषकश्रेष्ठयोरपि ॥’ इति विश्वः । वृषं पुरुषमात्मार्थमिच्छतीति वृषस्यन्ती कामुकी । ‘वृषस्यन्ती तु कामुकी' इत्यमरः । 'सुप आत्मनः क्यच्' इति क्यच्प्रत्ययः । "अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि" इत्यसुगागमः । ततो लटः शत्रादेशः । “उगितश्च” इति ङीप् । श्लोकार्थस्तु—वृषस्कन्धो रामो वृषस्यन्तीं तां राक्षसीं—हे बाले ! अहं कलत्रवान्, मे कनीयांसं कनिष्ठं भजस्व—इति शशासाज्ञापितवान् ।

भाषार्थ—शूर्पणखा की बात सुनकर वृष के समान विशाल कन्धेवाले राम