रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
त्रयोदशः सर्गः ४४५
त्रयोदशः सर्गः ४४५
वाचंयमेति—एष सुतीक्ष्णः वाचं यच्छति नियमयतीति वाचंयमो मौनव्रती । “वाचि यमो व्रते” इति खच्प्रत्ययः । “वाचंयमपुरन्दरो च” इति मुम् । तस्य भावस्तत्त्वान्मम प्रणति किञ्चिन्मूर्द्धनः कम्पेन प्रतिगृह्य विमानेन व्यवधानं तिरोधानं तस्मान्मुक्ताम् । “अपैतापोढमुक्तपतितापत्रस्तरल्पशः” इत्यनेन पञ्चमीसमासः । दृष्टि पुनः सहस्रार्चिषि सूर्ये संनिधत्ते सम्यङ् निघत्त इत्यर्थः । अन्यथाऽकर्मकत्वप्रसङ्गात् ।
भाषार्थ—ये मौन रहते हैं इसलिए इन्होंने केवल सिर हिलाकर मेरे प्रणाम को स्वीकार किया है। मेरे विमान को बीच में आने से जो इनकी दृष्टि सूर्य से अलग हो गई थी वह पुनः इन्होंने सूर्य में लगा ली ॥ ४४ ॥
अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः ।
चिराय संतर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ॥ ४५ ॥
अन्वयः—शरण्यं पावनम् अदः तपोवनम् आहिताग्नेः शरभङ्गनाम्नः यः चिराय अग्निं समिद्भिः सन्तर्प्य मन्त्रपूतां तनुम् अपि अहौषीत् ।
अद इति । शरणे रक्षणे साधुः शरण्यम् । पावयतीति पावनम् । अदो दृश्यमानं तपोवनमाहिताग्नेः शरभङ्गनाम्नो मुनेः संबन्धि । यः शरभङ्गश्चिराय चिरमग्निं समिद्भिः सन्तर्प्य तर्पयित्वा ततो मन्त्रैः पूतां शुद्धां तनुमप्यहौषीदहुतवान् । जुहोतेर्लङ् ।
भाषार्थ—यह सामने शरणागतों की रक्षा करने वाले अग्निहोत्री शरभङ्ग ऋषि का तपोवन है, जिन्होंने बहुत दिनों तक अग्नि को समिधा से तृप्त करके अन्त में मन्त्रों से पवित्र अपने शरीर को भी उसमें हवन कर दिया था ॥ ४५ ॥
छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु ।
तस्यातिथीनामधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥ ४६ ॥
अन्वयः—अधुना तस्य अतिथीनां सपर्या छाया विनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेषु अमीषु पादपेषु सुपुत्रेषु इव स्थिता ।
छायेति । अधुनाऽस्मिन्काले तस्य शरभङ्गस्य संबन्धिन्यतिथीनां सपर्याऽतिथिपूजा । ‘पूजा नमत्यापचितिः सपर्यार्चार्हणाः समाः’ इत्यमरः । छायाभिर्विनीतोऽध्वरिश्रमो यैस्तेषु भूयिष्ठानि बहुतमानि संभाव्यानि श्लाघ्यानि येषां तेष्वमीषु पादपेष्वाश्रमवृक्षेषु सुपुत्रेष्विव स्थिता तत्पुत्रैरिव पादपैरनुष्ठीयत इत्यर्थः ।
भाषार्थ—जिस प्रकार सुपुत्र अपने पिता के धर्म का पालन करते हैं उसी प्रकार अतिथि सेवा का कार्य शरभंग ऋषि के बदले ये आश्रम के वृक्ष करते हैं जिनकी सघन छाया में बैठकर पथिक अपनी थकावट दूर करते हैं और जिनमें बड़े मीठे-मीठे फल भी लगते हैं—अर्थात् अतिथियों के आने पर शरभंग मुनि के
४४६ . रघुवंशमहाकाव्ये
पुत्रों के समान ये वृक्ष छाया एवं मधुर फलों से अतिथियों का सत्कार करते हैं ॥ ४६ ॥
धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः ।
बध्नाति मे बन्धुरगात्रि ! चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः ॥ ४७ ॥
अन्वयः—धारास्वनोद्गारिदरीमुखः शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः असौ चित्रकूटः, हे बन्धुरगात्रि ! दृप्तः ककुद्मान् इव मे चक्षुः बध्नाति ।
धारेति । धारा निर्झरधाराः यद्वा धारया सातत्येन स्वनोद्गारिदर्येव मुखं यस्य सः । शृंगं शिखरं विषाणं च तस्याग्रे लग्नोऽम्बुद एव वप्रपङ्को वप्रक्रीडासक्तपङ्को यस्य सः । असौ चित्रकूटो । हे बन्धुरगात्रि ! उन्नतानतांगि ! बन्धुरं तून्नतानतम्’ इत्यमरः । दृप्तः ककुद्वान्वृषभ इव मे चक्षुर्बध्नात्यन्यत्रासक्तं करोति ।
भाषार्थ—हे सुन्दर शरीरवाली सीते ! यह चित्रकूट पर्वत मस्त सांड़ के समान मुझे बड़ा ही सुहावना लग रहा है, मानों इसकी गुफा ही इसका मुख है, इससे निकलनेवाली जल की धारा का शब्द ही इसका डकार है, इसके शिखर ही इसके सींग हैं और उस पर छाये हुए बादल ही मानो उसमें लगा हुआ कीचड़ है ॥ ४७ ॥
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी ।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ ४८ ॥
अन्वयः—प्रसन्नस्तिमितप्रवाहा विदूरान्तरभावतन्वी मन्दाकिनी एषा नगोपकण्ठे भूमेः कण्ठगता मुक्तावलीव इव भाति ।
ऐषेति । प्रसन्नो निर्मलः, स्तिमितो निःस्पन्दः, प्रवाहो यस्याः सा विदूरस्यान्तरस्य मध्यवर्त्यवकाशस्य भावात्तन्वी दूरदेशवर्तित्वात्तनुत्वेनावभासमाना मन्दकिनी नाम काचिच्चित्रकूटनिकटगैषा . सरिन्नगोपकण्ठे भूमेः कण्ठगता मुक्तावलीव भाति । अत्र नगरस्य शिरस्त्वं तदुपकण्ठस्य कण्ठत्वं च गम्यते ।
भाषार्थ—यह लो, मन्दाकिनी नदी आ गई । इसका जल कैसा स्वच्छ और धीरे-धीरे वह रहा है दूर होने के कारण वह इतनी पतली दिखाई दे रही है मानो पृथ्वी रूपी नायिका के गले में मोतियों की माला पड़ी हुई हो ॥ ४८ ॥
अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य ।
यवाङ्कुरापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ॥ ४९ ॥
अन्वयः—अनुगिरं सुजातः ( स ) तमालोऽयं ( दृश्यते ) यस्य सुगन्धि प्रवालं आदाय मया ते यवांकुरापाण्डुकपोलशोभि अवतंसः परिकल्पितः ।