सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

तृतीयः सर्गः ६६

तृतीयः सर्गः ६६

मतः' इति विश्वः । नवाम्बुदानानीकस्य वृन्दस्य मुहुर्त्तं क्षणमात्रं लाञ्छने
चिह्नभूते धनुषि । दिव्ये धनुषीत्यर्थः । अमोघमवन्ध्यं सायकं बाणं समधत्त
संहितवान् ।

**भाषार्थ—**रघु के स्तम्भरूपी बाण से हृदय पर आघात खाकर इन्द्र ने भी
नये मेघों के समान वर्ण वाले धनुष पर अव्यर्थ बाण को चढ़ाया ॥ ५३ ॥

दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः ।
पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥ ५४ ॥

**अन्वयः—**भीमासुरशोणितोचितः सः आशुगः दिलीपसूनोः बृहत् भुजान्तरं
प्रविश्य, अनास्वादितपूर्वं मनुष्यशोणितं कुतूहलेन इव पपौ ।

दिलीप इति । भीमानां भयङ्कराणामसुराणां शोणिते रुधिर उचितः परि-
चितः स इन्द्रमुक्त आशुगः सायको दिलीपसूनोः रघोर्बृहद्विशालं भुजान्तरं वक्षः
प्रविश्य । अनास्वादितपूर्वं पूर्वमनास्वादितम् । सुप्सुपेति समासः । मनुष्यशोणितं
कुतूहलेनेव पपौ ।

**भाषार्थ—**भयंकर दैत्यों के रुधिर से परिचित उस बाण ने रघु के विशाल
हृदय में घुस कर, पहिले न चखे हुए मनुष्य के खून को कौतुक से पीया ॥५४॥

हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ ।
भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥ ५५ ॥

**अन्वयः—**कुमारविक्रमः कुमारः अपि सुरद्विपास्फालनकर्कशाङ्गुलौ शची-
पत्रविशेषकाङ्किते हरेः भुजे स्वनामचिह्नं सायकं निचखान ।

हरेरिति । कुमारस्य स्कन्दस्य विक्रम इव विक्रमो यस्य स तथोक्तः ।
'सप्तम्युपमानपूर्वपदस्य—' इत्यादिना समासः । कुमारोऽपि रघुरपि सुरद्विपस्यै-
रावतस्यास्फालनेन कर्कशा अङ्गुलयो यस्य स तस्मिन् । शच्याः पत्रविशेषकैर-
ङ्किते शचीपत्रविशेषकाङ्किते हरेरिन्द्रस्य-भुजे स्वनामचिह्नं स्वनामाङ्कितं सायकं
निचखान निखातवान् । निष्कण्टकराज्यमाप्तस्यायं महानभिभव इति भावः ।

**भाषार्थ—**स्कन्दतुल्य पराक्रमी रघु ने भी ऐरावत के चलाने से कर्कश
अङ्गुलियों वाली, इन्द्राणी के तिलक विशेष से भूषित इन्द्र की भुजा पर
अपने नाम के निशान वाला बाण मारा ॥ ५५ ॥

जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ॥ ५६ ॥

१०० रघुवंशमहाकाव्ये

अन्वयः—अन्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजं जहार, सः सुरश्रियः प्रसह्य-केशव्यपरोपणात् इव, तस्मै भृशं चुकोप ।

जहारेति । अन्येन मयूरपत्रिणा मयूरपत्रवता शरेण शक्रस्येन्द्रस्य महाशनिध्वजं महान्तमशनिरूपं ध्वजं जहार चिच्छेद च । स शक्रः । सुरश्रियः प्रसह्य बलात्कृत्य केशानां व्यपरोणादवतारणाच्छेदनादिव । तस्मै रघुवे भृशमत्यर्थं चुकोप । तं हन्तुमियेयेत्यर्थः । 'क्रुधद्रुहेर्ष्या—' इत्यनेन सम्प्रदानाच्चतुर्थी ।

भाषार्थ—दूसरे मोरपंख वाले बाण से इन्द्र की बड़ी वज्रध्वजा को काट दिया। इन्द्र, देवताओं की लक्ष्मी के जबर्दस्ती केश कट जाने के समान, उस रघु पर बहुत कुपित हुए ॥ ५६ ॥

तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः ।
बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्रिभिः ॥ ५७ ॥

अन्वयः—जयैषिणोः तयोः गरुत्मदाशीविषभीमदर्शनैः अधोमुखैः ऊर्ध्वमुखैः च पत्रिभिः उपान्तस्थितसिद्धसैनिकं तुमुलं युद्धं बभूव ।

तयोरिति । जयैषिणोरन्योन्यजयकाङ्क्षिणोस्तयोरिन्द्ररध्वोः । गरुत्मन्तः पक्षवन्तः । 'गरुत्पक्षच्छदाः पत्रम्' इत्यमरः । आशीविषाः आशिषि दंष्ट्रायां विषं येषां ते आशीविषाः सर्पाः । पृषोदरादित्वात्साधुः । 'स्त्री त्वाशीर्हिताशंसाऽहिदंष्ट्रयोः' इत्यमरः । इव भीमदर्शनाः । सपक्षाः सर्पा इव द्रष्टॄणां भयावहा इत्यर्थः । तैरधोमुखैरूर्ध्वमुखैश्च । धन्विनोरुपर्यधोदेशावस्थितत्वादिति भावः । पत्रिभिर्बाणैरुपान्तस्थितास्तटस्थाः सिद्धा देवा इन्द्रस्य सैनिकाश्च रघोर्यस्मिंस्तत्तथोक्तं तुमुलं संकुलं युद्धं बभूव ।

भाषार्थ—विजयેચ્છु उन दोनों के पंख वाले सांपों के समान देखने में भयानक ( इन्द्र के ) अधोमुख और ( रघु के ) ऊर्ध्वमुख बाणों से देवता और सैनिकों के देखते-देखते घमासान युद्ध हुआ ॥ ५७ ॥

अतिप्रबन्धप्रहितास्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः ।
शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवान्द्भिभरम्बुद ॥ ५८ ॥

अन्वयः—वासवः अतिप्रबन्धप्रहितास्रवृष्टिभिः दुष्प्रसहस्य तेजसः आश्रयं तम् अम्बुदः अद्भिः स्वतः च्युतं वह्नि इव निर्वापयितुं न शशाक ।

अतिप्रबन्धेति । वासवेोऽतिप्रबन्धेनातिसातत्येन प्रहिताभिः प्रयुक्ताभिरस्रवृष्टिभिर्दुष्प्रसहस्य दुःखेन प्रसहात इति दुष्प्रसहं तस्य । दुःखेनाप्यसह्यस्येत्यर्थः । तेजसः प्रतापस्याश्रयं तं रघुम् । अम्बुदोऽद्भिः स्वतश्च्युतं निर्गतं वह्निमिव । निर्वापयितुं न शशाक । रघोरपि लोकपालात्मकस्येन्द्रांशसम्भवादिति भावः ।