सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

तृतीयः सर्गः ६१

तृतीयः सर्गः ६१

राज कन्याएँ उस उत्तम पति को पाकर दक्षप्रजापति पुत्रीवत् सुशोभित हुईं ॥३३॥
सम्प्रति यौवराज्ययोग्यतामाह—
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकन्धरः ।
वपुः प्रकर्षादजयद् गुरुं रघुस्तथाऽपि नीचैर्विनयाददृश्यत ॥ ३४ ॥
अन्वयः—युवा युगव्यायतबाहुः अंसलः कपाटवक्षाः परिणद्धकन्धरः रघुः वपुः प्रकर्षात् गुरुम् अजयत् । तथापि (स) विनयात् नीचैः अदृश्यत ।
युवेति । युवा युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः । यानाद्यङ्गे 'युगः पुंसि युगं युग्मे कृतादिषु' इत्यमरः । युगवद् व्यायतौ दीर्घौ बाहू यस्य सः । अंसावस्य स्त इत्यंसलो बलवान् मांसलश्चेति वृत्तिकारः । 'बलवान्मांसलोंऽसलः' इत्यमरः । 'वत्सांसाभ्यां कामबले' इति लच्प्रत्ययः । कपाटवक्षाः परिणद्धकन्धरो विशालग्रीवः । 'परिणाहो विशालता' इत्यमरः । रघुर्वपुषः प्रकर्षादाधिक्याद्यौवनकृताद् गुरुं पितरमजयत् । तथाऽपि विनयात् नम्रत्वे नीचैरल्पकोऽदृश्य । अनेनानौद्धत्यं च विवक्षितम् ।
भाषार्थ—युवा, जूआ की तरह लम्बी भुजावाले, बली किवाड़ के समान चौड़ी छाती वाले और चौड़े कन्धे वाले रघुने शरीर की उत्कृष्टता से पिता को जीत लिया, तो भी वे नम्रता से छोटे दिखाई पड़ते थे । ३४ ॥
सम्प्रति तस्य यौवराज्यमाह—
ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वी लघयिष्यता धुरम् ।
निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ॥ ३५ ॥
अन्वयः—ततः आत्मना चिरं धृतां नितान्तगुर्वी प्रजानां धुरं लघयिष्यता नृपेण 'असौ निसर्गसंस्कारविनीतः' इति युवराजशब्दभाक् चक्रे ।
तत इति । तत आत्मना चिरं धृतां नितान्तगुर्वीम् । 'वोतो गुणवचनात्' इति ङीष् । प्रजानां धुरं पालनप्रयासं लघयिष्यता लघुं करिष्यता । 'तत्करोति तदाचष्टे' इति लघुशब्दाण्णिच् ततो 'लृटः सद्वा' इति शतृप्रत्ययः । नृपेण दिलीपेनासौ रघुनिसर्गेण स्वभावेन, संस्कारेण शास्त्राभ्यासजनितवासनया च विनीतो नम्र इति हेतोः । युवराज इति शब्दं भजतीति तथोक्तः । 'भजो ण्विः' इति ण्विप्रत्ययः । चक्रे कृतः । “द्विविधो विनयः स्वाभाविकः कृत्रिमश्च" इति कोटिल्यः । तदुभयसम्पन्नत्वात्पुत्रं युवराजं चकारेत्यर्थः । अत्र कामन्दक - “विनयोपग्रहान्मूर्ये कुर्वीत्र नृपतिः सुतान् । अविनीतकुमारं हि कुलमाशु विशीर्यते ।। विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत् ।"

६२ रघुवंशमहाकाव्ये

**भाषार्थ—**तब स्वयं बहुत दिनों से धारण किए हुए महान् प्रजापालन के भार को हल्का करने की इच्छा करते हुए दिलीप ने 'यह रघु स्वभाव और शास्त्राभ्याससे नम्र है, ऐसा समझकर उसे युवराज पद से विभूषित किया ॥ ३५ ॥

नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् ।
अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥ ३६ ॥

**अन्वयः—**गुणाभिलाषिणी श्रीः नरेन्द्रमूलायतनात् अनन्तरं युवराजसंज्ञितं तदास्पदम् कमलात् (श्रीः) नवावतारम् उत्पलम् इव अंशेन अगच्छत् ।

नरेन्द्रति । गुणान्विनयादीन्सौरभ्यादींश्चाभिलषतीति गुणाभिलाषिणी राज्यलक्ष्मीः पद्माश्चया च नरेन्द्रो दिलीप एव मूलायतनं प्रधानस्थानं तस्मात् । अपादातात् । अनन्तरं सन्निहितम् । युवराज इति संज्ञाऽस्य सञ्जाता युवराजसंज्ञितम् । तारकादित्वादितच्प्रत्ययः । आत्मनः पदं स्थानमास्पदम् । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । स रघुरित्यास्पदं तदास्पदम् । कमलाच्चिरोत्पन्नात् नवावतारमचिरोत्पन्नमुत्पलमिव । अंशेनार्यगच्छत् । स्त्रियो हि यूनि रज्यन्त इति भावः ।

**भाषार्थ—**गुणों की इच्छा रखने वाली राजलक्ष्मी राजा रूपी मुख्य स्थान से समीपस्थ युवराज पदवी वाले रघु रूपी अपने स्थान को अंश से पुराने कमल से नये खिले हुए कमल के समान गयी ॥ ३६ ॥

विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव ।
बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥ ३७ ॥

**अन्वयः—**सारथिना वायुना विभावसुः इव, घनव्यपायेन गभस्तिमान् इव, कटप्रभेदेन करी इव, तेन पार्थिवः अतितरां सुदुःसहः बभूव ।

विभावसुरिति । सारथिना सहायभूतेन । एतद्विशेषणमुत्तरवाक्येष्वप्यनुकर्षणीयम् । वायुना विभावसुर्वह्निरिव । 'सूर्यवह्नी विभावसू' इत्यमरः । घनव्यपायेन शरत्समयेन सारथिना गभस्तिमान्सूर्य इव । कटो गण्डः । 'गण्डः कटो मदो दानम्' इत्यमरः । तस्य प्रभेदः स्फुटनम् । मदोदय इत्यर्थः । तेन करीव पार्थिवो दिलीपस्तेन रघुणाऽऽतितरामत्यन्तं सुदुःसहः सुष्ठ्वसह्यो वभूव ।

**भाषार्थ—**सहायक वायु से अग्निसमान, शरत्काल में सूर्य के समान, गण्डस्थल के मद से हाथी के समान राजा दिलीप अपने को अजेय समझने लगे ॥ ३७ ॥

नियुज्य तं होमतुरङ्गरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् ।
अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमप सः ॥ ३८ ॥

तृतीयः सर्गः [६३]

अन्वयः—शतक्रतूपमः स राजसुतैः अनुद्रुतं धनुर्धरं तं होमतुरङ्गरक्षणे नियुज्य एकेन अपूर्णं क्रतूनां शतम् अपविघ्नम् ( यथा स्यात् तथा ) आप ।

नियुज्येति । शतक्रतुरिन्द्र उपमा यस्य स शतक्रतूपमः स दिलीपः । "शतं वै तुल्या राजपुत्रा देवा आशापालाः" इत्यादि श्रुत्या । राजसुतैरनुद्रुतमनुगतं धनुर्धरं तं रघुं होमतुरङ्गाणां रक्षणे नियुज्य । एकेन क्रतुनाऽपूर्णमेकोनं क्रतूनामश्वमेधानां शतमपविघ्नमपगतविघ्नं यथा तथाऽऽप ।

भाषार्थ—इन्द्रतुल्य उस राजा दिलीप ने राजकुमारों के साथ धनुर्धारी उस युवराज को यज्ञ के घोड़े की रक्षा करने में नियुक्त कर एक कम सौ अर्थात् निन्यानवे यज्ञों को निर्विघ्न समाप्त किया ॥ ३८ ॥


ततः परं तेन मखाय यज्वना तुरङ्गमुत्सृष्टमनर्गलं पुनः ।
धनुभृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥ ३९ ॥

अन्वयः—ततः परं यज्वना तेन पुनः मखाय उत्सृष्टं अनर्गलं तुरङ्गं शक्रः गूढविग्रहः ( सन् ) धनुभृतां रक्षिणाम् अग्रतः एव जहार किल ।

तत इति । ततः परमेकोनशतक्रतुप्राप्त्यनन्तरं यज्वना विधिनेष्टवता तेन दिलीपेन पुनः पुनरपि मखाय मखं कर्तुम् । 'क्रियार्थोपपदस्य-' इत्यादिना चतुर्थी । उत्सृष्टं मुक्तमनर्गलमप्रतिबन्धनम् । अव्याहतस्वैरमतिमित्यर्थः । 'अपर्यावर्तयन्तोऽश्वमनुचरन्ति' इत्यापस्तम्बस्मरणात् । तुरङ्गं धनुभृतां रक्षिणां रक्षकाणामग्रत एव शक्रो गूढविग्रहः सन् । जहार किल । किलेत्यैतिह्ये ।

भाषार्थ—उसके बाद यज्ञ करने वाले उस राजा दिलीप के, फिर यज्ञ के लिए छोड़े गए अप्रतिहतगति घोड़े को इन्द्रने छिप कर धनुर्धारी रक्षकोंके सामने ही हरण कर लिया ॥ ३९ ॥


विषादलुप्तप्रतिपत्तिविस्मितं कुमारसैन्यं सपदि स्थितं च तत् ।
वशिष्ठधेनुश्च यदृच्छयाऽऽगता श्रुतप्रभावा ददृशेऽथ नन्दिनी ॥ ४० ॥

अन्वयः—तत् कुमारसैन्यं सपदि विषादलुप्तप्रतिपत्ति विस्मितम् ( सत् ) स्थितम् च । अथ च श्रुतप्रभावा यदृच्छया आगता । नन्दिनी (नाम) वसिष्ठधेनुर्ददृशे ।

विषादेति । तत्कुमारस्य सैन्यं सेना सपदि । विषाद इष्टनाशकृतो मनोभङ्गः । तदुक्तम्—"विषादश्चेतसो भङ्ग उपायाभावनाशयोः" इति । तेन लुप्ता प्रतिपत्तिः कर्त्तव्यज्ञानं यस्य तत्तथोक्तम् । विस्मितमश्वनाशस्याकस्मिकत्वादाश्चर्याविष्टं सत् । स्थितं तस्थौ । अथ श्रुतप्रभावा यदृच्छया स्वेच्छयाऽऽगता रघोः । स्वप्रसादलब्धत्वा-

६४ रघुवंशमहाकाव्ये

दनुजिघृक्षयेति भावः । नन्दिनी नाम वसिष्ठधेनुश्च ददृशे । द्वौ चकारावविलम्ब-
सूचको ।
भाषार्थ—एकाएक मनोरथ के भङ्ग होने से किंकर्त्तव्यविमूढ होकर वह
कुमार की सेना चकित होकर खड़ी रही । तब सुने हुए प्रभावशाली, अपनी
इच्छा से आई हुई नन्दिनी नामक वसिष्ठ की गो दिखाई पड़ी ॥ ४० ॥

तदङ्गनिष्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् ।
अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥ ४१ ॥

अन्वयः—सतां पुरस्कृतः दिलीपनन्दनः पुण्येन तदङ्गनिष्यन्दजलेन लोचने
प्रमृज्य अतीन्द्रियेषु भावेषु अपि उपपन्नदर्शनः बभूव ।

तदङ्गेति । सतां पुरस्कृतः पूजितो दिलीपनन्दनो रघुः पुण्येन तस्या नन्दिन्या
यदङ्गं तस्य निस्यन्दो द्रवः स एव जलम् । सूत्रमित्यर्थः । तेन लोचने प्रमृज्य शोध
यित्वा । अतीन्द्रियेष्विन्द्रियाण्यतिक्रान्तेषु । 'अत्यादयः क्रान्ताद्यर्थे द्वितीया' इति
समासः । द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधाद्विशेष्यनिघ्न-
त्वम् । भावेष्वपि वस्तुषूपपन्नदर्शनः सम्पन्नसाक्षात्कारशक्तिर्बभूव ।

भाषार्थ—सज्जनों से सम्मानित दिलीपकुमार रघु, उसके अङ्ग से निकले
पवित्र मूत्र से आँखों को धोकर, अतीन्द्रिय पदार्थों को भी देखने वाले हो गये ।

स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसम्भवः ।
पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ॥ ४२ ॥

अन्वयः—नरदेवसम्भवः स पुनः पुनः सूतनिषिद्धचापलं रथरश्मिसंयतं
अश्वं हरन्तं पर्वतपक्षशातनं देवं पूर्वतः ददर्श ।

स इति । नरदेवसम्भवः स रघुः पुनः पुनः सूतेन निषिद्धचापलं निवारितौ-
द्धत्यं रथस्य रश्मिभिः प्रग्रहैः । 'किरणप्रग्रहौ रश्मी' इत्यमरः । संयतं बद्धमश्वं
हरन्तं पर्वतपक्षाणां शातनं छेदकं देवमिन्द्रं पूर्वतः पूर्वस्यां दिशि ददर्श ।

भाषार्थ—राजा दिलीप के पुत्र उस रघु ने बार बार सारथि द्वारा रोके
गये चपलता वाले और रथकी रस्सी में बंधे हुए घोड़े को हर कर ले जाते हुए,
पहाड़ों के पंख काटने वाले इन्द्र को पूर्व दिशा में देखा ॥ ४२ ॥

शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः ।
अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥ ४३ ॥

अन्वयः—रघुः तं अनिमेषवृत्तिभिः अक्ष्णां शतैः च हरिभिः वाजिभिः तं
हरिं विदित्वा एनं गगनस्पृशा धीरेण स्वरेण ( एव ) निवर्तयन् इव इवोचत् ।