रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
चतुर्दशः सर्गः ४८७
चतुर्दशः सर्गः ४८७
स च श्लोकः पठ्यते—मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्च-
मिथुनादेकमवधीः काममोहितम् ॥ इति तिरश्चामपि दुःखं न सेहे किमुतान्येषामिति भावः।
भावार्थ—जिस महाकृपालु ऋषि का शोक व्याध के द्वारा मारे गये क्रौञ्च-
पक्षी को देखकर श्लोक बनकर निकल पड़ा था, वे उस समय कुश और लकड़ी
लेने के लिए आश्रम से चले हुए थे, रोने का शब्द सुनकर वे सीताजी की
ओर आये ॥ ७० ॥
तमश्रु नेत्रावरणं प्रमृज्य सीता विलापादद्विरता ववन्दे ।
तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुत्राशिषमित्युवाच ॥ ७१ ॥
अन्वयः—सीता विलापात् विरता ( सती ) नेत्रावरणं अश्रु प्रमृज्य तं
ववन्दे दोहदलिङ्गदर्शी मुनिः तस्यै सुपुत्राशिषं दाश्वान् इति उवाच ।
तमिति। सीता विलापादद्विरता सती नेत्रावरणं दृष्टिबन्धकमश्रु प्रमृज्य तं
मुनिं ववन्दे । दोहदलिङ्गदर्शी गर्भचिह्नदर्शी मुनिस्तस्यै सीतायै सुपुत्राशिषं तत्प्रा-
प्तिहेतुभूतां दाश्वान्दत्तवानिति वक्ष्यमाणप्रकारेणोवाच । “दाश्वान्त्साह्वांन्मीढ्वांश्च”
इति क्वस्वन्तो निपातः ।
भावार्थ—उन्हें देखकर सीताजी ने रोना बन्द कर दिया और नेत्र के
आवरण आँसू को पोछकर मुनि को प्रणाम किया। ऋषि ने गर्भ के चिह्न देखकर
उन्हें पुत्रवती होने का आशीर्वाद देकर कहा ॥ ७१ ॥
जाने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा ।
तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्ताऽसि वैदेहि ! पितुर्निकेतम् ॥ ७२ ॥
अन्वयः—त्वां मिथ्यापवादक्षुभितेन भर्त्रा विसृष्टां प्रणिधानतः जाने । हे
वैदेहि ! विषयान्तरस्थं पितुः निकेतं प्राप्ता असि तत् मा व्यथिष्ठाः ।
जाने इति। त्वां मिथ्यापवादेन क्षुभितेन भर्त्रा विसृष्टां त्यक्तां प्रणिधानतः
समाधिदृष्ट्या जाने । वे वैदेहि ! विषयान्तरस्थं देशान्तरस्थं पितुर्जनकस्यैव निकेतं
गृहं प्राप्ताऽसि । तत्तस्मान्मा व्यथिष्ठा मा शोचीः । व्यथेर्लुङ् । “न माङ्योगे”
इत्यडागमप्रतिषेधः । भत्र्रोपेक्षितानां पितृगृहवास एवोचित इति भावः ।
भावार्थ—बेटी ! योगबल से मैंने जान लिया है कि तुम्हारे पति ने झूठी
लोक निन्दा के भय से तुम्हें त्याग दिया है । हे जनककुमारी ! यहाँ भी तुम दूर
देश में स्थित अपने पिता का ही घर समझो और शोक करना छोड़ दो ॥ ७२ ॥
उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि ।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे ॥ ७३ ॥
| ४८८ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—उत्खातलोकत्रयकण्टके अपि सत्यप्रतिज्ञे अपि अविकत्थने अपि त्वां प्रति अकस्मात् कलुषप्रवृत्तौ भरताग्रजे मे मन्युः अस्त्येव ।
उतखातेति । उत्खातलोकत्रयकण्टकेऽपि रावणादिकण्टकोद्धरणेन सर्वलोकोपकारिण्यपीत्यर्थः । सत्यप्रतिज्ञे सत्यसन्धेडपि अविकत्थनेऽनात्मश्लाघिन्यपि इत्थं स्नेहपात्रेऽपि त्वां प्रत्यकस्मादकारणात्कलुषप्रवृत्तौ गर्हितव्यापारे भरताग्रजे मे मन्युः कोपोऽस्त्येव । सर्वगुणाच्छादकोऽयं दोष इत्यर्थः । सीतानु नयार्थोऽयं रामोपालम्भः ।
भाषार्थ—यद्यपि राम तीनों लोकों का दुख दूर करनेवाले हैं, अपनी प्रतिज्ञा के पक्के हैं और अपने मुँह से अपनी बड़ाई भी नहीं करते फिर भी तुम्हारे साथ उन्होंने जो यह भद्दा व्यवहार किया है इससे मुझे उनपर बड़ा क्रोध आ रहा है ॥ ७३ ॥
तवोरुकीर्त्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते ।
धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या ॥ ७४ ॥
अन्वयः—उरुकीर्तिः तव श्वसुरः मे सखा, ते जनकः सतां भवोच्छेदकरः, त्वं पतिदेवतानां धुरि स्थिता । येन मम अनुकम्प्या न असि तत् किम् ।
तवेति । उरुकीर्तिस्तव श्वशुरो दशरथो मे सखा । ते पिता जनकः सतां विदुषां भवोच्छेदकरो ज्ञानोपदेशादिना संसारदुःखध्वंसकारी । त्वं पतिदेवतानां पतिव्रतानां धुर्यग्रे स्थिता । येन निमित्तेन ममानुग्राह्या नासि तत्किम् । न किञ्चिदित्यर्थः ।
भाषार्थ—बड़े यशस्वी तुम्हारे श्वसुर मेरे मित्र थे और तुम्हारे पिता भी ज्ञानोपदेश देकर बहुत से विद्वानों को संसार के बन्धन से छुड़ाते हैं, तुम स्वयं पतिव्रताओं में सर्वश्रेष्ठ हो और फिर तुममें ऐसा दोष ही कौन सा है जो मैं तुम्हारे पर कृपा न करूँ ॥ ७४ ॥
तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन् ।
इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते ॥ ७५ ॥
अन्वयः—तपस्विसंसर्गविनीतसत्त्वे अस्मिन् तपोवने वीतभया वस । इतः अनघप्रसूतेः ते अपत्यसंस्कारमयः विधिः भविष्यति ।
तपस्वीति । तपस्विसंसर्गेण विनीतसत्त्वे शान्तजन्तुकेऽस्मिंस्तपोवने वीतभया निर्भीका वस । इतोऽस्मिन्वनेऽनघप्रसूतेः सुखप्रसूतेः सुखप्रसूतेस्तेऽपत्यसंस्कारमयो जातकर्मदिरूपो विधिरनुष्ठानं भविष्यति ।
भाषार्थ—देखो तपस्वियों के साथ रहते-रहते यहां के सब जीव बड़े सीधे हो गये हैं, ये बेचारे किसी से कुछ कहते सुनते नहीं, इसी आश्रम में तुम भी
चतुर्दशः सर्गः
४८९
निर्भय होकर रहो, तुम्हारी पवित्र सन्तान के जातकर्म आदि संस्कार मैं यहीं करूँगा ॥ ७५ ॥
अशून्यतीरां मुनिसन्निवेशैस्तमोपहन्त्रीं तमसां वगाह्य ।
तत्सैकतोत्सङ्गबलिक्रियाभिः सम्पत्स्यते ते मनसः प्रसादः ॥ ७६ ॥
**अन्वयः—**मुनिसन्निवेशैः अशून्यतीरां तमोपहन्त्रीं तमसां वगाह्य तत्सैकतोत्सङ्ग बलिक्रियाभिः ते मनसः प्रसादः सम्पत्स्यते ।
अशून्येति । सन्निविशन्ते येष्विति सन्निवेशा उटजाः अधिकरणार्थे घञ्प्रत्ययः । मुनीनां सन्निवेशैरुटजैरशून्यतीरां पूर्णतीरां तमः शोकस्य पापस्य वाऽपहन्त्रीम् । ‘तमस्तु क्लीबे पापे नरकशोकयोः’ इत्यमरः । तमसां नदीं वगाह्य तत्र स्नात्वा बलिक्रियापेक्षया पूर्वकालता । तस्या सैकतोत्सङ्गेषु बलिक्रियाभिरिष्टदेवतापूजाविधिस्ते मनसः प्रसादः सम्पत्स्यते भविष्यति ।
**भावार्थ—**पापापहारी जिस तमसा नदी के किनारे तपस्वी लोग सदा सन्ध्या-वन्दन पूजा आदि करते हैं उसमें स्नान करके तुम उसके रेतीली तीर पर अपनी इष्टदेवताओं के पूजा किया करो इससे तुम्हारा मन प्रसन्न रहेगा ॥ ७६ ॥
पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि ।
विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम् ॥ ७७ ॥
**अन्वयः—**आर्तवं पुष्पं फलं च अकृष्टरोहि बालेयं बीजं च आहरन्त्यः उदारवाचः मुनिकन्यका नवाभिषङ्गां त्वां विनोदयिष्यन्ति ।
पुष्पमिति । ऋतुतरस्य प्राप्तं आर्तवम् । स्वकालप्राप्तमित्यर्थः पुष्पं फलं च अकृष्टरोह्यकृष्टक्षेत्रोत्थम् । अकृष्टपच्यमित्यर्थः । वलये हितं बालेयं पूजायोग्यम् । “छदिरुपधिबलेर्ढञ्” इति ढञ्प्रत्ययः, बीजं नीवारादि धान्यं चाहिरन्त्य उदारवाचः प्रगल्भगिरो मुनिकन्यका नवाभिषङ्गां नूतनदुःखां त्वां विनोदयिष्यन्ति ।
**भावार्थ—**यहाँ की मुनिकन्यायें तुम्हें सब ऋतुओं में उत्पन्न होनेवाले फल-फूल और पूजा के योग्य अन्न लाकर रख दिया करेंगी और मीठी-मीठी बातें करके तुम्हारा मन भी बहलाया करेंगी ॥ ७७ ॥
पयोघटैराश्रमबालवृक्षान्सम्बर्धयन्ती स्वबलानुरूपैः ।
असंशयं प्राक्तनयोपपत्तेः स्तनन्धयप्रीतिमवाप्स्यसि त्वम् ॥ ७८ ॥
**अन्वयः—**स्वबलानुरूपैः पयोघटैः आश्रमबालवृक्षान् सम्वर्धयन्ती त्वं तनयोपपत्तेः प्राक् असंशयं स्तनन्धयप्रीतिं अवाप्स्यसि ।
४९० | रघुवंशमहाकाव्ये
पय इति । स्वबलानुरूपैः स्वशक्त्यनुसारिभिः पयसामम्भसां घटैः । स्तन्येरिति च ध्वन्यते । आश्रमबालवृक्षान्सम्वर्धयन्ती त्वं तनयोपपत्तेः प्राक्पूर्वमसंशयं यथा तथा । स्तनं धयति पिवतीति स्तनंधयः शिशुः । “नासिकास्तनयोर्ध्माधेटोः” इति खश्प्रत्ययः । “अरुर्द्विषदजन्तस्य मुम्” इत्यनेन मुमागमः । तस्मिन्द्या प्रीतिस्तामवाप्स्यसि । ततः परं सुलभ एव विनोद इति भावः ।
भाषार्थ—जो जल के घड़े तुमसे उठ सके उन्हें लेकर आश्रम के पौधों को प्रेम से सींचा करो, इससे बड़ा भारी लाभ यह होगा कि बच्चा होने के पहले तुम यह सीख जाओगी कि दूध पानेवाले बच्चों से कैसे प्रेम करना चाहिए ॥ ७८ ॥
अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः ।
सायं मृगाध्यासितवेदिपार्श्वं स्वमाश्रमं शान्तमृगं निनाय ॥ ७९ ॥
अन्वयः—दयार्द्रचेताः वाल्मीकिः अनुग्रहप्रत्यभिनन्दिनीं तां आदाय सायं मृगाध्यासितवेदिपार्श्वं शान्तमृगं स्वम् आश्रमं निनाय ।
अनुग्रहेति । दयार्द्रचेता वाल्मीकिः अनुग्रहं प्रत्यभिनन्दतीति तथोक्तां तां सीतामादाय सायं मृगैरध्यासितवेदिपार्श्वमधिष्ठितवेदिप्रान्तं शान्तमृगं स्वमाश्रमं निनाय ।
भाषार्थ—दयालु वाल्मीकिजी की कृपा का प्रत्यभिनन्दन करनेवाली सीताजी उनके साथ उनके उस आश्रम पर चली गईं जहाँ शाम हो जाने के कारण बहुत से मृग वेदीको घेरकर बैठे हुए थे और सिंह आदि जन्तु चुपचाप आँखें मूदे पड़े थे ।
तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु ।
निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु ॥ ८० ॥
अन्वयः—शोकदीनां तां तदागमप्रीतिषु तापसीषु पितृभिः निर्विष्टसारं हिमांशोः अन्त्यां कलां दर्शः ओषधीषु इव अर्पयामास ।
तामिति । शोकादीनां तां सीतां तस्याः सीताया आगमेन प्रीतिर्यासां तासु तापसीषु पितृभिरग्निष्वात्तादिभिर्निर्विष्टसारां भुक्तसारां हिमांशोरन्त्यामवशिष्टां कलां दर्शोऽमावास्याकाल ओषधीष्विव अर्पयामास च । अत्र पराशरः—पिबन्ति विमलं सोमं विशिष्टा तस्य वा कलाम् । सुधामृतमयीं पुण्यां तामिन्दोः पितरो मुनेः ॥ इति । व्यासश्च—अमायां तु सदा सोम ओषधीः प्रतिपद्यते । इति ।
भाषार्थ—जिस प्रकार अमावस्या जड़ी बूटियों और लतावृक्षों को चन्द्रमा की साररूप में अन्तिमकला सौंप देती है जिसका अमृत पीकर अग्निष्वातादि पितर खींच लेते हैं उसी प्रकार ऋषि ने शोक से व्याकुल सीताको उन तपस्वियों के हाथ सौंप दिया जो सीताजी के वहाँ आ जाने से बड़ी प्रसन्न हो गई थीं ॥ ८० ॥
चतुर्दशः सर्गः
४९१
ता इङ्गुदीस्नेहकृतप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः ।
तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः ॥ ८१ ॥
अन्वयः—ताः तस्यै सपर्यानुपदं दिनान्ते निवासहेतोः इङ्गुदीस्नेहकृतप्रदीपम् अतः आस्तीर्णमेध्याजिनतल्पम् उटजं वितेरुः ।
ता इति । तास्तापस्यस्तस्यै सीतायै सपर्यानुपदं पूजानन्तरं दिनान्ते सायंकाले निवास एव हेतुस्तस्य निवासहेतोः । निवासार्थमित्यर्थः । “षष्ठी हेतुप्रयोगे” इति षष्ठी । ‘इङ्गुदी तापसतरुर्भूर्जचर्मिमृदुत्वचौ’ इत्यमरः । इङ्गुदीस्नेहेन कृतप्रदीपमन्तरास्तीर्णं मेध्यं शुद्धमजिनमेव तल्पं शय्या यस्मिंस्तमुटजं पर्णशालां वितेरुर्ददुः ।
भाषार्थ—पूजा के बाद सायंकाल में उन तपस्विनियों ने सीता के रहने के लिए एक पर्णकुटी दे दी, जिसमें इङ्गुदी के तेल का दीपक जल रहा था और नीचे मृगचर्म बिछा हुआ था ॥ ८१ ॥
तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनाऽतिथिभ्यः ।
वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासन्ततये बभार ॥ ८२ ॥
अन्वयः—तत्र अभिषेकप्रयता वसन्ती विधिना अतिथिभ्यः प्रयुक्तपूजा वल्कलिनी सा पत्युः प्रजासन्ततये वन्येन शरीरं बभार ।
तत्रेति । तत्राश्रमेऽभिषेकेण स्नानेन प्रयता नियता वसन्ती विधिना शास्त्रेणातिथिभ्यः प्रयुक्तपूजा कृतसत्कारा वल्कलिनी सा सीता पत्युः प्रजासन्ततये सन्तानाविच्छेदाय हेतोः वन्येन कन्दमूलादिना शरीरं बभार पुपोष ।
भाषार्थ—वहाँ सीताजी प्रतिदिन स्नान करके बड़े नियम से रहती थीं शास्त्रोक्त विधि से अतिथियों का सत्कार करती थीं वृक्षों के वल्कल का वस्त्र पहनती थीं, और केवल पति का वंश चलाने की इच्छा से ही कन्दमूल फल खाकर शरीर धारण करती थी ॥ ८२ ॥
अपि प्रभुः सानुशयोऽधुना स्यात्किमुत्सुकः शक्रजितोऽपि हन्ता ।
शशंस सीता परिदेवनान्तमन्ठितं शासनमग्रजाय ॥ ८३ ॥
अन्वयः—प्रभुः अधुना अपि सानुशयः स्यात् किम् उत्सुकः शक्रजितः हन्ता लक्ष्मणः अपि सीतापरिदेवनान्तम् अनुष्ठितं शासनम् अग्रजाय शशंस ।
अपीति । प्रभू राजाऽधुनापि सानुशयः सानुतापः स्यात्किम् इति काकुः । उत्सुकः शक्रजित इन्द्रजितो हन्ता लक्ष्मणोऽपि सीतापरिदेवनान्तं सीताविलापान्तमनुष्ठितं शासनमग्रजाय शशंस कथयामास ।
भाषार्थ—सीता ने रो रोकर जो बातें कहीं थीं वे सब अयोध्या पहुँचकर
४९२ | रघुवंशमहाकाव्ये
मेघनाद को भी मारनेवाले लक्ष्मण ने राम से यह सोचकर कह दी कि देखें अब भी रामजी सीता के करुण सन्देश को सुनकर पछताते हैं या नहीं ॥ ८३ ॥
बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः ।
कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः ॥ ८४ ॥
अन्वयः—सहसा सबाष्पः रामः तुषारवर्षी सहस्य चन्द्रः इव बभूव कौलीन-भीतेन तेन वैदेहसुता गृहात् निरस्ता मनस्तः न ।
बभूवेति । सहसा सपदि सबाष्पो रामः तुषारवर्षी सहस्यचन्द्रः पौषेन्दुरिव बभूव । अत्यश्रुतया तुषारवर्षिणा पौषचन्द्रेण तुल्योऽभूत् । 'पौषे तैषसहस्यौ द्वौ' इत्यमरः । युक्तं चैतदित्याह—कौलीनाल्लोकापवादात् । 'स्यात्कौलीनं लोकवादे' इत्यमरः । भीतेन तेन रामेण वैदेहसुता सीता गृहान्निरस्ता । न मनस्तो मनसन्निश्रितान्न निरस्ता । पञ्चम्यास्तसिल् ।
भाषार्थ—लक्ष्मण द्वारा सीता का सन्देश सुनकर तुषारवर्षी पौष मास के चन्द्रमा के समान राम की आंखों से टपटप आँसू गिरने लगे, क्योंकि उन्होंने सीता को अपनी इच्छा से नहीं त्यागा था किन्तु लोकनिन्दा के भय से ही छोड़ा था ।
निगृह्य शोकं स्वयमेव धीमान्वर्णाश्रमावेक्षणजागरूकः ।
स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास ॥ ८५ ॥
अन्वयः—धीमान् वर्णाश्रमावेक्षणजागरूकः रजोरिक्तमनाः सः स्वयमेव शोकं निगृह्य भ्रातृसाधारणभोगं ऋद्धं राज्यं शशास ।
निगृह्येति । धीमान्वर्णानामाश्रमाणां चावेक्षणेऽनुसंधाने जागरूकोऽप्रमत्तः । "जागर्तैरूकः" इत्यूकप्रत्ययः । रजोरिक्तमना रजोगुणशून्यचेताः सः रामः स्वयमेव शोकं निगृह्य निरुध्य भ्रातृभिः साधारणभोगं शरीरस्थितिमात्रोपयुक्तमित्यर्थः । ऋद्धं समृद्धं राज्यं शशास ।
भाषार्थ—वर्णाश्रम धर्म की रक्षा करने में सदा तत्पर बुद्धिमान् और रजोगुण से रहित राम स्वयं सांसारिक सुखों का मोह छोड़कर और शोक को रोककर भाइयों के साथ अपने समृद्धशाली राज्य का शासन करने लगे ॥ ८५ ॥
तामेकभार्यां परिवादभीरोः साध्वीमपि त्यक्तवतो नृपस्य ।
वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः ॥ ८६ ॥
अन्वयः—परिवादभीरोः एकभार्याम् साध्वीम् अपि तां त्यक्तवतः नृपस्य वक्षसि असंघट्टसुखं वसन्ती लक्ष्मीः सपत्नी रहिता इव रेजे ।
तामिति । परिवादभीरोर्निन्दाभीरोस्ताम् एवैकभार्यामपि साध्वीमपि सीतां