सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

चतुर्दशः सर्गः ४८५

चतुर्दशः सर्गः ४८५

किं वा तवात्यन्तवियोगमोघे कुर्यामुपेक्षां हतजीवितेऽस्मिन् ।
स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयमन्तर्गतमन्तरायः ॥ ६५ ॥

अन्वयः—किं वा तव अत्यन्तवियोगमोघे अस्मिन् हतजीविते उपेक्षां कुर्याम्, रक्षणीयम् अन्तर्गतं त्वदीयं तेजः मे अन्तरायः न स्यात् यदि ।

किं वेति । किं वाऽथवा तव संबन्धिनाऽत्यन्तेन पुनः प्राप्तिरहितेन वियोगेन मोघे निष्फलेऽस्मिन्हतजीविते तुच्छजीवित उपेक्षां कुर्यां कुर्यामेव, रक्षणीयं रक्षणार्हमन्तर्गतं कुक्षिस्यं त्वदीयं तेजः शुक्रं गर्भरूपम् । ‘शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च’ इत्यमरः । मे ममान्तरायो विघ्नो न स्याद्यदि ।

भाषार्थ—यदि मेरे गर्भ में आया हुआ आपका वह तेज बाधक नहीं होता जिसकी रक्षा करना आवश्यक है, तो मैं आपसे सदा के लिए वियुक्त अपने अभागे प्राणों को छोड़ देती ॥ ६५ ॥

साऽहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेश्चरितुं यतिष्ये ।
भूयो यथा मे जननान्तरेऽपि त्वमेव भर्त्ता न च विप्रयोगः ॥ ६६ ॥

अन्वयः—सा अहं प्रसूतेः ऊर्ध्वं सूर्यनिविष्टदृष्टिः (सती) तपः चरितुं यतिष्ये, यथा भूयः मम जन्मान्तरे अपि त्वमेव भर्ता (स्याः) विप्रयोगः च न (स्यात्) ।

सेति । साऽहं प्रसूतेः ऊर्ध्वं सूर्यनिविष्टदृष्टिः सती तथाविधं तपश्चरितुं यतिष्ये यथा भूयस्तेन तपसा मे मम जननान्तरेऽपि त्वमेव भर्ता स्याः विप्रयोगश्च न स्यात् ।

भाषार्थ—वह मैं पुत्र हो जाने के बाद सूर्य में दृष्टि लगाकर ऐसी तपस्या करने का प्रयत्न करूँगी जिससे अगले जन्म में भी आप ही मेरे पति हों और आपसे मेरा वियोग न होने पाये ॥ ६६ ॥

नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः ।
निर्वासिताप्येवमतस्त्वयाऽहं तपस्विसामान्यमवेक्षणीया ॥ ६७ ॥

अन्वयः—वर्णाश्रमपालनं यत् स एव नृपस्य धर्मः मनुना प्रणीतः, अतः एव त्वया निर्वासिता अपि अहं तपस्विसामान्यम् अवेक्षणीया ।

नृपस्येति । वर्णानां ब्राह्मणादीनामा श्रमाणां ब्रह्मचर्यादीनां च पालनं यत्स एव नृपस्य धर्मो मनुना प्रणीत उक्तः, अतः कारणादेवं त्वया निर्वासिता निष्कासिताऽप्यहं तपस्विभिः सामान्यं साधारणं यथा भवति तथाऽवेक्षणीया । कलत्रदृष्ट्यभावेऽपि वर्णाश्रमदृष्टिः सीतायां कर्त्तव्येत्यर्थः ।

भाषार्थ—भगवान् मनु ने वर्ण आश्रमों की रक्षा करना राजाओं का धर्म बतलाया है इसलिए घर से बाहर निकाल देने पर भी यह समझकर मेरी देख-

४८६ रघुवंशमहाकाव्ये

भाल करते रहिए ताकि मैं भी आपकी प्रजा और तपस्विनी हूँ । अर्थात् तप-
स्विनी समझकर ही मेरी रक्षा कीजिएगा ॥ ६७ ॥

तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते ।
सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥ ६८ ॥

**अन्वयः—**तथा इति तस्याः वाचं प्रतिगृह्य रामानुजे दृष्टिपथं व्यतीते
( सति ) सा व्यसनातिभारात् मुक्तकण्ठं विग्ना कुररी इव चक्रन्द ।

तथेति । तथेति तस्याः सीताया वाचं प्रतिगृह्याङ्गीकृत्य रामानुजे लक्ष्मणे
दृष्टिपथं व्यतीतेऽतिक्रान्ते सति सा सीता व्यसनातिभाराद् दुःखातिरेकान्मुक्तकण्ठं
यथा स्यात्तथा वाग्वृत्त्येत्यर्थः । विग्ना भीता कुररीवोत्क्रोशीव । 'उत्क्रोशकुररौ
समौ' इत्यमरः । भूयो भूयिष्ठं चक्रन्द चुक्रोश ।

**भाषार्थ—**यह सुनकर लक्ष्मण बोलें अच्छा मैं सब कह दूँगा । यह कहकर वे
ज्यों ही आंखों से ओझल हो गये, त्यों ही विपत्ति के भार से व्याकुल होकर
सीताजी कुररी के समान फुक्का मारकर रोने लगी ॥ ६८ ॥

नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः ।
तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥ ६९ ॥

**अन्वयः—**मयूराः नृत्यं विजहुः वृक्षा कुसुमानि हरिण्यः उपात्तान् दर्भान्
इत्थं तस्याः समदुःखभागं प्रपन्ने वने अपि अत्यन्तं रुदितं आसीत् ।

नृत्यमिति । मयूरा नृत्यं विजहुस्त्यक्तवन्तः । वृक्षाः कुसुमानि, हरिण्य
उपात्तान्दर्भान् । इत्थं तस्याः सीतायाः समदुःखभावं प्रपन्ने तुल्यदुःखत्वं प्राप्ते
वनेऽत्यन्तं रुदितमासीत् । यथा रामगेहेऽपीत्यपिशब्दार्थः ।

**भाषार्थ—**सीता का रोना सुनकर मोरों ने नाचना बन्द कर दिया, वृक्ष
पुष्पों के आंसू गिराने लगे और हिरणियों ने मुँह से भरी घास का कौर गिरा
दिया, इस प्रकार सीताजी के दुःख से दुःखी होकर सारा जंगल रोने लगा ॥ ६९ ॥

तामभ्यगच्छद्रुदितानुसारी कविः कुशेष्माहरणाय यातः ।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः ॥ ७० ॥

**अन्वयः—**कुशेध्माहरणाय यातः कविः रुदितानुसारी ताम् अभ्यगच्छत्
निषादविद्धाण्डजदर्शनोत्थः यस्य शोकः श्लोकत्वम् आपद्यत ।

तामिति । कुशेध्माहरणाय यातः कविर्वाल्मीकिः रुदितानुसारी संस्तां सीता-
मभ्यगच्छत् । अभिगमनं च दयालुतयेत्याह—निषादेति । निषादेन व्याधेन विद्ध-
स्याण्डजस्य क्रौञ्चस्य दर्शनेनोत्थ उत्पन्नो यस्य शोकः श्लोकरूपेणावोचदित्यर्थः ।