सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

एकादशः सर्गः ३६७

एकादशः सर्गः ३६७

'पुङ्णो" इत्यनेन पुगागमः । ते नरेश्वरा ज्यानिघातैः कठिनत्वचः स्वान्भु-
जान्धिगिति विधूयवमत्या प्रतस्थिरे प्रस्थिताः ।

भाषार्थ—हे महाराज ! इस धनुष ने अनेकों धनुर्धारी राजाओं को लज्जित
कर दिया है और वे अपनी उन भुजाओं को धिक्कारते हुए चले गये, जिन पर
धनुष की डोरी के निरन्तर आघात से बड़े-बड़े गट्टे पड़ गये हैं ॥ ४० ॥

प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गिरा कृतम् ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥ ४१ ॥

अन्वयः—ऋषिः तं प्रत्युवाच अयं सारतः निशम्यतां अथवा गिरा कृतम्
अशनिः गिरौ इव चापे एव भवतः व्यक्तशक्तिः भविष्यति ।

प्रतीति। ऋषिस्तं नृपं प्रत्युवाच । किमिति ? अयं रामः सारतो बलेन
निशम्यतां श्रूयताम् । अथवा गिरा सारवर्णनया कृतमलम् । गीर्न वक्तव्येत्यर्थः ।
'युगपर्याप्तयोः कृतम्' इत्यमरः । अव्ययं चैतत् । 'कृतं निवारणनिषेधयोः' इति
गणव्याख्याने । गिरेति करणे तृतीया । निषेधक्रियां प्रति करणत्वात् । किंत्व-
शनिर्वज्रो गिराविव चापे धनुष्येव भवतस्तव व्यक्तशक्तिर्दृष्टसारो भविष्यति ।

भाषार्थ—यह सुनकर विश्वामित्रजी राजा जनक से बोले कि हे राजन् !
इनकी शक्ति मैं आपको बतलाता हूँ, सुनिये, अथवा कहना व्यर्थ है, जिस
प्रकार वज्र की शक्ति की परीक्षा पर्वत पर होती है, उसी प्रकार इनकी शक्ति
की परीक्षा धनुष पर आपको स्पष्ट हो जायेगी ॥ ४१ ॥

एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे ।
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥ ४२ ॥

अन्वयः—एवं आप्तवचनात् स काकपक्षकधरे अपि राघवे पौरुषं त्रिदशगोप-
मात्रके कृष्णवर्त्मनि दाहशक्तिं इव श्रद्दधे ।

एवमिति। एवमाप्तस्य मुनेर्वचनात्स जनकः काकपक्षकधरे बालेऽपि राघवे
पुरुषस्य कर्म पौरुषं पराक्रमम् । "हायनान्तयुवादिभ्योऽण्" इति युवादिवादण् ।
'पौरुषं पुरुषस्योक्तंभावे कर्मणि तेजसि' इति विश्वः । त्रिदशगोप इन्द्रगोपकीटः
प्रमाणमस्य त्रिदशगोपमात्रः । "प्रमाणे द्वयसज्दघ्नञ्मात्रचः" इत्यनेन मात्र-
च्प्रत्ययः । ततः स्वार्थे कप्रत्ययः । तस्मिन्कृष्णवर्त्मनि वह्नौ दाहशक्तिमिव श्रद्दधे
विश्वस्तवान् ।

भाषार्थ—इस प्रकार यथार्थ कहनेवाले विश्वामित्रजी के वचन से राजा
जनक को कुछ-कुछ विश्वास होने लगा कि जिस प्रकार नन्हें से वीरबहूटी
नामक बरसाती कीड़े के बराबर अग्नि में भी जलाने की शक्ति छिपी रहती है,

३६८रघुवंशमहाकाव्ये

उसी प्रकार काकपक्षकधारी राम में भी धनुष उठाने की शक्ति अवश्य होगी । अर्थात् अत्यन्त थोड़ी आग में दाह शक्ति के समान राम में भी धनुष तोड़ने की शक्ति अवश्य होगी ॥ ४२ ॥

व्यादिदेश गणशोऽथ पार्श्वगान्कार्मुकाभिहरणाय मैथिलः ।
तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥ ४३ ॥

अन्वयः—अथ मैथिलः पार्श्वगान् कार्मुकाभिहरणाय सहस्रलोचनः तैजसस्य धनुषः प्रवृत्तये तोयदान् इव गणशः व्यादिदेश ।

व्यादिदेशेति। अथ मैथिलः पार्श्वगान्पुरुषान्कार्मुकाभिहरणाय कार्मुकमानेतुम् । "तुमर्थाच्च भाववचनात्" इति चतुर्थी । सहस्रलोचन इन्द्रस्तैजसस्य तेजोमयस्य धनुषः प्रवृत्तय अविर्भावाय तोयदान्मेघानिव गणशः गणान् । "संख्यैकवचनाच्च वीप्सायाम्" इति शस्प्रत्ययः । व्यादिदेश प्रजिघाय ।

भाषार्थ—इसके बाद मिथिला नरेश जनकजी ने पार्श्ववर्ती पुरुषों को धनुष को लाने के लिए उसी प्रकार भेजा, जिस प्रकार इन्द्र तेजोमय धनुष को प्रकट करने के लिए झुण्ड के झुण्ड मेघों को भेजते हैं ॥ ४३ ॥

तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः ।
विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजद्वृषध्वजः ॥ ४४ ॥

अन्वयः—दाशरथिः प्रसुप्तभुजगेन्द्रभीषणं तत् धनुः वीक्ष्य आददे । वृषध्वजः येन विद्रुतक्रतुमृगानुसारिणं बाणं असृजत् ।

तदिति । दाशरथी रामः प्रसुप्तभुजगेन्द्र इव भीषणं भयङ्करं तद्धनुर्वीक्ष्याददे जग्राह। वृषो ध्वजश्चिह्नं यस्य स शिवो येन धनुषा ऋतुरेव मृगः विद्रुतं पलायितं क्रतुमृगमनुसरति । ताच्छील्ये णिनिः । तं विद्रुतक्रतुमृगानुसारिणं बाणमसृजन्मुमोच ।

भाषार्थ—धनुष वहाँ लाया गया, वह ऐसा जान पड़ता था कि मानो कोई बड़ा भारी अजगर सोया हुआ हो । राम ने देखते-देखते शिवजी के उस धनुष को अनायास ही उठा लिया जिससे शिवजी ने मृगरूपधारी यज्ञ देवता के पीछे-पीछे दौड़ने वाले बाण को छोड़ा था ॥ ४४ ॥

आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः ।
शैलसारमपि नातियत्नतः पुष्पचापमिव पेशलं स्मरः ॥ ४५ ॥

अन्वयः—स संसदा विस्मयस्तिमितनेत्रम् ईक्षितः ( सन् ) शैलसारमपि स्मरः पेशलं पुष्पचापं नातियत्नतः आततज्यं अकरोत् ।

आततेति । स रामः संसदा सभया विस्मयेन स्तिमित नेत्रे यस्मिन्कर्मणि तद्यथा स्यात्तथेक्षितः सन् शैलस्येव सारो यस्य तच्छैलसारमपि धनुः स्मरः पेशलं कोमलं