रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
अष्टादशः सर्गः ६०७
अष्टादशः सर्गः ६०७
अन्वयः—स्पर्शानिवृत्तलौल्यः (अत एव) सखा भावी स वंशकरेण तेन वंशस्थितिं सम्भाव्य त्रिपुष्करेषु उपस्पृशन् त्रिदशत्वं आप ।
वंशेति । स्पृश्यन्त इति स्पर्शा विषयाः तेभ्यो निवृत्तलौल्यो निवृत्ततृष्णः अतएव मघोन इन्द्रस्य सखा मित्रं भावी भविष्यन् । स्वर्गं जिगमिषुरित्यर्थः । ब्रह्मिष्ठो वंशकरणे वंशप्रवर्तकेन तेन पुत्रेण वंशस्थितिं कुलप्रतिष्ठां संभाव्य संपाद्य त्रिषु पुष्करेषु तीर्थविशेषेषु । “दिक्संख्ये संज्ञायाम्” इति समासः । उपस्पृशन्स्नानं कुर्वंस्त्रिदशत्वं देवभूयमाप ।
भाषार्थ - विषय-वासनाओं से दूर रहकर इन्द्र के भाविमित्र ब्रह्मिष्ठ ने अपनी कुल-प्रतिष्ठा अपने पुत्र नामक पुत्र को सौंपी और त्रिपुष्कर क्षेत्र में स्नान करके स्वर्ग चले गये ॥ ३१ ॥
तस्य प्रभा निर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी ।
तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥ ३२ ॥
अन्वयः—तस्य पत्नी पौष्यां तिथौ प्रभाविनिर्जितपुष्परागं पुष्यं द्वितीये पुष्ये इव तस्मिन् उदिते ( सति ) जनाः समग्रां पुष्टिं अपुष्यन् ।
तस्येति । तस्य पुत्राख्यस्य पत्नी पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ । ‘पुष्ययुक्ता पौर्णमासी पौषी’ इत्यमरः । “नक्षत्रेण युक्तः कालः” इत्यण्प्रत्ययः । ‘टिड्ढाणञ्” इत्यादिना ङीप् । प्रभया निर्जितः पुष्परागो मणिविशेषो येन तं पुष्यं पुष्याख्यमसूत । द्वितीये पुष्ये पुष्यनक्षत्र इव तस्मिन्नुदिते सति नः समग्रां पुष्टिं वृद्धिमपुष्यन् ।
भाषार्थ—राजा पुत्र की पत्नी से पोषमास की पूर्णिमा के दिन पद्मराग मणि से भी अधिक कान्तिमान् पुष्य नामक पुत्र हुआ, उसके जन्म होने से प्रजा उसी प्रकार धनधान्य से भरपूर हो गई मानो दूसरा पुष्य नक्षत्र ही निकल आया हो ॥ ३२ ॥
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा ।
तस्मात्सयोगादधिगम्य यागमजन्मनेऽकल्पत जन्मभीरुः ॥ ३३ ॥
अन्वयः—महेच्छः जन्मभीरुः सूनौ महीं परिकीर्य मनीषिणे जैमिनये अर्पितात्मा सयोगात् तस्मात् योगं अधिगम्य अजन्मने अकल्पत ।
महीमिति । महेच्छो महाशयः ‘महेच्छस्तु महाशयः’ इत्यमरः । जन्मभीरुः स पुत्रः सूनौ महीं परिकीर्य विसृज्य मनीषिणे ब्रह्मविद्याविदुषे जैमिनये मुनयेऽर्पितात्मा शिष्यभूतः सन्नित्यर्थः । सयोगद्योगिनस्तस्मान्जैमिनेर्योगं योग-
| ६०८ | रघुवंशमहाकाव्ये |
|---|
विद्यायामधिगम्यार्जन्मने जन्मनिवृत्तये मोक्षायाकल्पत समपद्यत । 'क्लृपेः संपद्य-
माने चतुर्थी वक्तव्या' । मुक्त इत्यर्थः ।
भाषार्थ—राजा पुत्र बड़े उदार हृदय वाले थे, वे संसार में फिर जन्म
लेना नहीं चाहते थे इसलिए उन्होंने पृथिवी का भार अपने पुत्र पुष्य को सौंप
दिया और स्वयं महर्षि जैमिनि के शिष्य होकर उनसे योग सीखकर आवागमन
से मुक्त हो गये ॥ ३३ ॥
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् ।
यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतामरीणाम् ॥ ३४ ॥
अन्वयः—ततः (सः) तत्प्रभवः ध्रुवोपमेयः ध्रुवसन्धिः उर्वीं प्रपेदे ज्यायसि
सत्यसन्धॆ यस्मिन् सन्नमतां अरीणां सन्धिः ध्रुव अभूत् ।
तत इति । ततः परं स पुष्यः प्रभवः कारणं तस्य स तत्प्रभवः । तदात्मज
इत्यर्थः । ध्रुवेणौत्तानपादिनोपमेयः । 'ध्रुव औत्तानपादिः स्यात्' इत्यमरः ।
ध्रुवसंधिरुर्वी प्रपेदे । ज्यायसि श्रेष्ठे सत्यसंधे सत्यप्रतिज्ञे यस्मिन्ध्रुवसंधौ संनम-
ताम् अनुद्धतानामित्यर्थः । अरीणां संधिर्ध्रुवः स्थिरोऽभूत् । ततः सार्थकनामेत्यर्थः।
भाषार्थ—पुष्य के बाद उनके ध्रुव के समान निश्चल पुत्र ध्रुवसन्धि राजा
हुए, जिनसे डरकर शत्रुओं ने सन्धि कर ली । उनका लिखा हुआ सन्धि पत्र
पक्का होता था क्योंकि वे अपनी बात के बड़े धनी थे ॥ ३४ ॥
सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः ।
मृगायताक्षो मृगयाविहारो सिंहादवापद्विपदं नृसिंहः ॥ ३५ ॥
अन्वयः—मृगायताक्षः नृसिंहः सः दर्शात्ययेन्दुप्रियदर्शने सुदर्शनाख्ये सुते
शिशौ ( सति ) एव मृगयाविहारी सिंहात् विपदं अवापत् ।
सुत इति । मृगायताक्षो नृसिंह पुरुषश्रेष्ठः ध्रुवसन्धिर्दशात्ययेन्दुप्रियदर्शने
प्रतिपच्चन्द्रनिभे सुदर्शनाख्ये सुते शिशौ सत्येव मृगयाविहारी सन् सिंहाद्विपदं
मरणमवापत् । व्यसनासक्तिरनर्थावहेति भावः ।
भाषार्थ—ध्रुवसन्धि के नेत्र मृगों के समान बड़े-बड़े थे और वे पुरुषों में
सिंह के समान थे, एक दिन वे वन में शिकार करते हुए सिंह से मारे गये, उस
समय तक द्वितीया के चन्द्रमा के समान सुन्दर लगने वाला सुदर्शन नामक उनका
पुत्र बालक ही था ॥ ३५ ॥
स्वर्गामिनस्तस्य तमेकमात्यादमात्यवर्गः कुलतन्तुमेकम् ।
अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिबच्चकार ॥ ३६ ॥