सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

अष्टमः सर्गः २७१

अष्टमः सर्गः २७१

उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया ।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ॥ ८४ ॥

अन्वयः—उदये सति मदवाच्यम् उज्झता त्वया यत् आत्मवत् श्रुतम् आविष्कृतं, तत् मनसः ज्वरे उपस्थिते सति अक्लीबतया पुनः प्रकाश्यताम् ।

उदय इति । उदयेऽभ्युदये सति मदेन यद्वाच्यं निन्दादुःखं तदुज्झता परिहरता सत्यपि मदहेतावमाद्यता त्वया यदात्मवदध्यात्मप्रचुरं श्रुतं शास्त्रं तज्जनितं ज्ञानमिति यावत् । आविष्कृतं प्रकाशितं तच्छ्रुतं मनसो ज्वरे सन्ताप उपस्थिते प्राप्तेऽक्लमतया धैर्येण लिङ्गेन पुनः प्रकाश्यताम् । विदुषा सर्वास्रवस्थास्वपि धीरेण भवितव्यमित्यर्थः ।

भाषार्थ—ऐश्वर्य पाकर राजा लोग मतवाले हो जाते हैं किन्तु आप सुख के दिनों में भी इस अपयश से बचे रहे और अभिमान छोड़कर आपने अपने जिस प्रकार अध्यात्म ज्ञान का परिचय दिया है उसी प्रकार इस दुःख के समय में भी धीरज धर कर आप मन को शान्त करने के लिए पुनः उसी अध्यात्मज्ञान का प्रकाश कीजिए ॥ ८४ ॥

रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ ८५ ॥

अन्वयः—रुदता भवता सा कुतः एव लभ्यते, अनुमृता अपि पुनः न लभ्यते । हि परलोकजुषां देहिनां गतयः सुकर्मभिः भिन्नपथा भवन्ति ।

रुदतेति । रुदता भवता सा कुत एव लभ्यते न लभ्यत एव । अनुम्रियत इत्यनुमृत् । क्विप् । तेनानुमृताऽनुभवतापि भवता पुनर्न लभ्यते । कथं न लभ्यत इत्याह—परलोकजुषां लोकान्तरभाजां देहिनां इति गतयो गम्यस्थानानि स्वकर्मभिः पूर्वाचरितपुण्यपापैभिन्नपथाः पृथक्कृतमार्गा हि । परत्रापि स्वस्वधर्मानुरूपफलभोगाय भिन्नदेहगमनान्न मृतेनापि लभ्यत इत्यर्थः ।

भाषार्थ—रोने को तो बात ही क्या ! यदि आप रोते रोते मर भी जाय तो अब उस इन्दुमती को नहीं पा सकते हैं क्योंकि मरने पर सब प्राणी अपने-अपने कर्मों के अनुसार भिन्न भिन्न मार्ग से जाते हैं ॥ ८५ ॥

अपशोकमनाः कुटुम्बिनोमनुगृह्णीष्व निवापदत्तिभिः ।
स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ ८६ ॥

अन्वयः—अपशोकमनः सन् कुटुम्बिनीं, निवापदत्तिभिः त्वम् अनुगृह्णीष्व अतिसन्ततं स्वजनाश्रु प्रेतं दहति इति प्रचक्षते किल ।

अपेति । किंत्वपशोकमना निर्दुःखचित्तः सन्कुटुम्बिनीं पत्नीं निवापदत्तिभिः

२७२ रघुवंशमहाकाव्ये

पिण्डोदकादिदानैरनुगृह्णीष्व तर्पयेत्यर्थः । अन्यथा दोषमाह—अतिसंततमविच्छिन्नं स्वजनानां बन्धूनाम् । 'बन्धुस्स्वस्वजसाः समाः' इत्यमरः । अश्रु कर्तृ प्रेतं मृतं दहतीति प्रचक्षते मन्वादयः किल । अत्र याज्ञवल्क्यः—“श्लेष्माश्नु बन्धुनिर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः” ।

**भाषार्थं—**हे राजन् ! अब आप मन से शोक त्याग कर पिण्डदान आदि करके अपनी पत्नी इन्दुमती का परलोक सुधारिये क्योंकि निरन्तर बहने वाले कुटुम्बियों के आंसू मृतात्मा को जलाते हैं, ऐसा शास्त्रों का सिद्धान्त है । अर्थात् कुटुम्बी जितने रोते हैं उतता ही प्रेतात्मा को कष्ट मिलता है ॥ ८६ ॥

मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः ।
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ ८७ ॥

**अन्वयः—**शरीरिणां मरणं प्रकृतिः जीवितं विकृतिः इति बुधैः उच्यते । जन्तुः क्षणम् अपि श्वसन् अवतिष्ठते यदि असौ लाभवान् अस्ति ननु ।

मरणमिति । शरीरिणां मरण प्रकृतिः स्वभावः ध्रुवमित्यर्थः । जीवितं विकृतिर्यादृच्छिकं बुधैरुच्यते । एवं स्थिते जन्तुः प्राणी क्षणमपि । अत्यन्तसंयोगे द्वितीया । श्वसञ्जीवन्नवतिष्ठते यद्यसौ क्षणजीवी लाभवान्नु । जीवने यथालाभं सन्तोष्व्यम् । अलभ्यलाभात् मरणे तु न शोचितव्यम् । अस्य स्वाभाव्यादिति भावः । अत्र मरणशब्देन स्थूलशरीरत्यागोऽवगन्तव्यः ।

**भाषार्थ—**शरीर धारियों का मरना स्वभाव और जीना विकार कहा जाता है इसलिए प्राणी जितने क्षण भी जी जाय, उतने से ही उसे सन्तोष करना चाहिए ॥ ८७ ॥

अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ८८ ॥

अन्वयः— मूढचेतनः प्रियनाशं हृदि अर्पितं शल्यम् अवगच्छति, तु स्थिरधीः तत् एव कुशलद्वारतया समुद्धृतं मन्यते ।

अवेति । मूढचेतनो भ्रान्तबुद्धिः प्रियनाशमिष्टनाशं हृद्यर्पितं निखातं शल्यं शङ्कुमवगच्छति मन्यते । स्थिरधीर्विद्वांस्तु तदेव शल्यं समृद्धृतमुत्खातं मन्यते । प्रियनाशे सतीति शेषः कुतः कुशलद्वारतया प्रियनाशस्य मोक्षोपायतयेत्यर्थः । विषयलाभविनाशयोर्यथाक्रमं हिताहितसाधनत्वाभिमानः पामराणां विपरीतं तु विपश्चितामिति भावः ।

**भाषार्थ—**भ्रान्त बुद्धिवाले प्रियजन के नाश को हृदय में गड़ा हुआ कील