रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
अष्टमः सर्गः २४१
अष्टमः सर्गः २४१
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः ।
न तु सर्पं इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥ १३ ॥
अन्वयः—आत्मजप्रियः रघुः अश्रुमुखस्य तस्य तत् ईप्सितं कृतवान् तु सर्पः त्वचम् इव व्यपवर्जितां श्रियं पुनः न प्रतिपेदे ।
रघुरिति । आत्मजप्रियः पुत्रवत्सलो रघुः अश्रूणि मुखे यस्य तस्याश्रुमुखस्याजस्य तदपरित्यागरूपमीप्सितमभिलषितं कृतवान् । किन्तु सर्पस्त्वचमिव व्यपवर्जितां त्यक्तां श्रियं पुनर्न प्रतिपेदे न प्राप ।
भाषार्थ—पुत्रवत्सल रघु ने अज की आंखों में आंसू देखकर वन को जाने का विचार छोड़ दिया किन्तु जिस प्रकार सांप एक बार छोड़ी हुई अपनी केंचुल को पुनः ग्रहण नहीं करता उसी प्रकार उन्होंने परित्यक्त राज्यलक्ष्मी को पुनः स्वीकार नहीं किया ॥ १३ ॥
स किला श्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥ १४ ॥
अन्वयः—सः अन्त्यम् आश्रमम् आश्रितः पुरात् बहिः आवसथे निवसन् अविकृतेन्द्रियः ( सन् ) स्नुषया इव पुत्रभोग्यया श्रिया समुपास्यत किल ।
स इति । स रघुः किलान्त्याश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नाविकृतेन्द्रियः जितेन्द्रियः सन्नित्यर्थः । अत एव स्नुषयेव वध्वैव पुत्रभोग्यया न स्वभोग्यया श्रिया समुपास्यत शुश्रूषितः । जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि, पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किञ्चदपेक्षितमासीदित्यर्थः । अत्र यद्यपि 'ब्राह्मणाः प्रव्रजन्ति' इति श्रुतेः । 'आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्' इति मनुस्मरणात् 'मुखजानामयं धर्मो यद्विष्णोलिङ्गधारणम् । बाहुजातोहजातानामयं धर्मो न विद्यते ।।' इति निषेधाच्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः, तथापि 'यदहरेव विरजेत्तदहरेव प्रव्रजेत्' इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात्, 'त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः' इति सूत्रकारवचनात् । 'ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद् गृहात्' इति स्मरणात् । 'मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम् । बाहुजातोरुजातानां त्रिदण्डं न विधीयते ।।' इति निषेधस्य त्रिदण्डविषयत्वदर्शनाच्च कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित् त्रैवर्णिकाधिकारं प्रतिपेदिरे तथा सति 'स किला श्रममन्त्यमाश्रितः' इत्यत्रांपि कविनाप्ययमेव पक्षो विवक्षित इति प्रतीमः । अन्यथा वानप्रस्थाश्रमतया व्याख्याते 'विदधे विधिमस्य
१६ र० सम्पू०
२४२ रघुवंशमहाकाव्ये
नैष्ठिकं यतिभिः सार्धमनग्निमग्निजित्' इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः
स्यात् । अग्निसंस्काररहितस्य वानप्रस्थस्यैवाभावात् इत्यलं प्रासङ्गिकेन ।
भाषार्थ—वे महाराज रघु संन्यास आश्रम को स्वीकार कर नगर के बाहर
हो कुटिया में रहने लगे । पुत्र से भोग्य राजलक्ष्मी से उनका उतना ही सम्बन्ध
था जितना पुत्रवधू से किसी संयमी श्वसुर का रहता है अर्थात् जिस पृथ्वी
पर अज राज्य कर रहे थे वह रघु को फल मूल देकर उनकी उस प्रकार सेवा
कर रही थी मानो उनकी पतोहू हो ॥ १४ ॥
प्रशमस्थितपूर्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् ।
नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥ १५ ॥
अन्वयः—प्रशमस्थितपूर्वपार्थिवम् अभ्युद्यतनूतनेश्वरम् तत् कुलं निभृतेन्दुना
उदितार्केण च नभसा तुलां समारुरोह ।
प्रशमेति । प्रशमे स्थितः पूर्वपार्थिवो रघुर्यस्य तत् अभ्युद्यतोऽभ्युदितो नूतने-
श्वरोऽजो यस्य तत् । प्रसिद्धं कुलं निभृतेन्दुनाऽस्तमयासन्नचन्द्रेणोदितार्केण प्रकटि-
तसूर्येण च नभसा तुलां सादृश्यं समारुरोह प्राप । न च नभसा तुलामित्यत्र
"तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्" इत्यनेन प्रतिषेधस्तृतीयायाः । तस्य
सदृशवाचितुलाशब्दविषयत्वात् 'कृष्णस्य तुला नास्ति' इति प्रयोगात् अस्य च
सादृश्यवाचित्वात् ।
भाषार्थ—उस समय सूर्यवंश उस आकाश के समान सुशोभित हो रहा था
जिसमें एक तरफ चन्द्रमा अस्त हो रहे हों और दूसरी ओर सूर्य उदय हो रहे
हों । क्योंकि एक ओर राजा रघु संन्यास लेकर शान्तिमय जीवन बिता रहे
थे दूसरी ओर अज राजगद्दी पर विराजमान थे ॥ १५ ॥
यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः ।
अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ॥ १६ ॥
अन्वयः—जनैः यतिपार्थिवलिङ्गधारिणौ रघुराघवौ अपवर्गमहोदयार्थयोः
धर्मयोः भुवं गतौ इव ददृशाते ।
यतीति । यतिर्भिक्षुः पार्थिवो राजा तयोलिङ्गधारिणौ रघुराघवौ रघुतत्सुतौ
अपवर्गमहोदयार्थयोर्मोक्षाभ्युदयफलयोधर्मयोः । निवर्तकप्रवर्तकरूपयोरित्यर्थः ।
भुवं गतौ भूलोकमवतीर्णावंशाविव जनैर्ददृशाते दृष्टौ ।
भाषार्थ—संन्यासी के चिह्न धारण करने वाले महाराजा रघु और राज-