सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

अष्टमः सर्गः

अष्टमः सर्गः
२३५

स्मरणादिति भावः । शान्तिमार्गे मोक्षमार्गे उत्सुकॊऽभूत् । तथाहि कुलधुर्ये कुल-
धुरंधरे सति सूर्यवंश्या गृहस्थाश्रमाय न भवन्ति ।

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अजपाणिग्रहणो नाम सप्तमः सर्गः ॥ ७ ॥

भाषार्थ—महाराज रघु को यह सब समाचार अज के पहुँचने के पहले ही
मिल चुका था, इसलिए उन्होंने विजयी तथा योग्य स्त्री के सहित आये हुए
अज का अभिनन्दन किया और उन्हें कुटुम्ब का भार सौंप कर मोक्ष मार्ग की
प्राप्ति के लिए उत्सुक हो गये। क्योंकि सूर्य वंशी राजाओं का यह नियम है
कि वे पुत्र के योग्य हो जाने पर गृहस्थाश्रम में रहना पसन्द नहीं करते ॥७१॥

यह त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित
अन्वय और चन्द्रकला नाम की हिन्दी टीका में
रघुवंश महाकाव्य का अजपाणिग्रहण नामक
सप्तम सर्ग समाप्त हुआ।


अष्टमः सर्गः

हेरम्बमवलम्बेऽहं यस्मिन्पातालकेलिषु ।
दन्तेनोद्धस्यति क्षोणीं विश्राम्यन्ति फणीश्वराः ॥

अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः ।
वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥ १ ॥

अन्वयः—अथ पार्थिवः ललितं विवाहकौतुकम् बिभ्रतः एव अपराम् इन्दु-
तीम् इव वसुधाम् अपि हस्तगामिनीम् अकरोत् ॥ १ ॥

अथेति। अथ पार्थिव रघुर्ललितं सुभगं विवाहकौतुकं विवाहमङ्गलं
विवाहहस्तसूत्रं वा बिभ्रत एव । ‘कौतुकं मङ्गलं हर्षे हस्तसूत्रे कुतूहले' इति
शाश्वतः। तस्याजस्य परामिन्दुमतीमिव वसुधामपि हस्तगामिनीमकरोत् ।
राज्ये तमभ्यषिञ्चदित्यर्थः अस्मिन्सर्गे वैतालीय छन्दः ।

२३६रघुवंशमहाकाव्ये

**भाषार्थ—**इसके बाद राजा रघु ने सुन्दर विवाह के मङ्गल सूत्र को पहने हुए अज के हाथ में दूसरी इन्दुमती के समान सारी पृथिवी को सौंप दिया अर्थात् उनका राज्याभिषेक कर दिया ॥ १ ॥

दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥ २ ॥

**अन्वयः—**नृपसूनवः यत् दुरितैः अपि आत्मसात् कर्तुम् प्रयतन्ते हि उपस्थितम् तत् अजः पितुः आज्ञा इति अग्रहीत् भोगतृष्णया न ( अग्रहीत् ) ।

दुरितैरिति । नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिषिद्धोपायैरप्यात्मसात्स्वाधीनम् । "तदधीनवचने" इति सातिप्रत्ययः । कर्तुं प्रयतन्ते हि प्रवर्तंत एवेत्यर्थः । तथाहि "राजपुत्रा महोद्वृत्ता गजा इव निरङ्कुशाः । भ्रातरं पितरं वापि निघ्नन्त्येवाभिमानिनः ॥" हि शब्दोऽवधारणे । 'हि हेताववधारणे' इत्यमरः । उपस्थितं स्वतः प्राप्तं तद्राज्यमजः पितुराज्ञेति हेतोरग्रहीत्स्वीचकार । भोगतृष्णया तु नाग्रहीत् ॥ २ ॥

**भाषार्थ—**जिस राज्य को पाने के लिए राजकुमार लोग विष प्रयोग आदि अनेक प्रकार के उपाय किया करते हैं उसी राज्य को अज ने केवल अपने पिता की आज्ञा मानकर ही स्वीकार किया, भोगविलास की इच्छा से नहीं ॥ २ ॥

अनुभूय वसिष्ठसम्भृतैः सलिलैस्तेन सहाभिषेचनम् ।
विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥ ३ ॥

**अन्वयः—**मेदिनी वसिष्ठसम्भृतैः सलिलैः तेन सह अभिषेचनम् अनुभूय विशदोच्छ्वसितेन कृतार्थताम् कथयामास इव ।

अनुभूयेति । मेदिनी भूमिः महिषी च ध्वन्यते । वसिष्ठेन सम्भृतैः सलिलैस्तेनाजेन सहाभिषेचनमनुभूय विशदोच्छ्वसितेन स्फुटमुद्गृहणेन आनन्दनिर्मलोच्छ्वसितेन चेति ध्वन्यते । कृतार्थतां गुणवद्भर्तृलाभकृतं साफल्यं कथयामासेव । न चैतावता पूर्वेषामपकर्षः प्रशंसापरत्वात् । 'सर्वत्र जयमन्विच्छेदपुत्रादिच्छेत्पराजयम्' इत्यङ्गीकृतत्वाच्च ।

**भाषार्थ—**जिस समय अज का राज्याभिषेक हुआ उस समय महर्षि वसिष्ठ ने वैतानिक मन्त्रों से अभिमन्त्रित करके जल को अज के ऊपर छोड़ा उसका कुछ अंश पृथ्वी पर गिरा जिसके कारण पृथ्वी से भाप निकलने लगी उससे