सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२३

६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२३

ष्फलमित्यनर्थः, सकाच्चानुरक्ताद्, अमर्षितादिति। कया चिदर्थयुक्त्या प्राक् क्रुद्धाद्, वित्तप्रत्यादानमिति । तेनैव दत्तं प्रतीपमादीयमानमनर्थः, आत्तस्य निष्क्रमणात्, स उभयतो योग उभयतोऽनर्थनामा, उभयतो योगस्य भिन्नविषयत्वाद्, निरनुबन्धपक्षेऽन्तर्भावः ॥ ३२ ॥

संशयोऽत्रास्त्येवेत्याह—

यत्राभिगमनेऽर्थो भविष्यति न वेत्याशङ्का सक्तोऽपि सङ्घर्षाद्दास्यति न वेति स उभयतोऽर्थसंशयः ॥ ३३ ॥

यत्रेति । यस्मिन्नुभयतो योगे, अभिगमन इति । परस्य, भविष्यति न वेत्याशङ्का न निश्चयः, सक्तश्चाभिगमने सङ्घर्षात्स्पर्धया दास्यति न वेति, स उभयतो योग उभयतोऽर्थसंशयनामा ॥ ३३ ॥

यत्राभिगमने व्ययवति पूर्वो विरुद्धः क्रोधादपकारं करिष्यति न वेति सक्तो वा मर्षितो दत्तं प्रत्यादास्यति न वेति स उभयतोऽनर्थसंशयः ॥ ३४ ॥
इत्यौद्दालकेरुभयतो योगाः ॥

यत्रेति । यस्मिन्नुभयतो योगे, व्ययवतीति । व्ययं कृत्वा यत् परस्याभिगमनम्, पूर्व इति । पूर्वसंसृष्टः, विरुद्धः क्रोधादिति । स्वेन व्ययेनायमनयाऽभिगम्यत इति तद्द्वारेण क्रोधान्ममापकारं करिष्यति न वेति संशयः, सक्तश्च प्राक्कया चिदर्थयुक्त्याऽमर्षितो गमने दत्तं प्रत्यादास्यति न वेति संशयः स उभयतो योग उभयतोऽनर्थसंशयनामा ॥३४॥

बाभ्रवीयास्तु—

यत्राभिगमनेऽर्थोऽनभिगमने च सक्तादर्थः स उभयतोऽर्थः॥३५॥

बाभ्रवीयास्त्विति । उभयतो योगा वक्ष्यन्त इति शेषः,

यत्रेति । उभयतो योगे, अभिगमने परस्य, अनभिगमने च सक्तादिति । अनभिगतात्सक्तादित्यर्थः, यः सक्तो वशो सोऽनभिगत एव दास्यति, यथोक्तं प्राक्-‘सक्तं तु वशिनं नारी सम्भाष्यान्यत्र वा व्रजेद्’ इति, पूर्वस्मिन्दर्शनेऽन्यतराभिगमनेऽन्यतरस्मादर्थः, इह त्वेकस्यैवाभिगमन उभयस्मादर्थः, ततश्च स्पष्ट एवात्र मूलसूत्रार्थः ॥ ३५ ॥

यत्राभिगमने निष्फलो व्ययोऽनभिगमने च निष्प्रतीकारोऽनर्थः स उभयतोऽनर्थः ॥ ३६ ॥

यत्रेति । उभयतो योगे, आगमन इति । परस्य, निष्फलो व्यय इति। अनर्थः, अनभिगमने च सक्तादित्यनुवर्तते, यः परामिगमनेन सक्तो जातामर्षस्तस्मान्निष्प्रतीकाराऽनर्थो यद्वित्तप्रत्यादानं स उभयतोऽनर्थनामा॥३६॥

३२४ सटीके कामसूत्रे [ ६ अधिकरणे,

यत्राभिगमने निर्व्ययो दास्यति न वेति संशयोऽनभिगमने सक्तो-
दास्यति न वेति स उभयतोऽर्थसंशयः ॥ ३७ ॥

यत्रेति। उभयतोयोगे, अभिगमने परस्य, निर्व्यय इति। विना व्ययेन, अनभिगमने सक्त इति। विनाऽभिगमनं दास्यति न वेति, तस्य वशित्वं-न निश्चितं स चोभयतोऽर्थसंशयनामेति ॥ ३७ ॥

यत्राभिगमने व्ययवति पूर्वो विरुद्धः प्रभाववान् प्राप्स्यते न
वेति संशयोऽनभिगमने च क्रोधादनर्थं करिष्यति न वेति स उभ-
यतोऽनर्थसंशयः ॥ ३८ ॥

यत्रेति। उभयतो योगे, अभिगमने परस्य पूर्वो विरुद्धः प्राप्स्यते मया तद्वारेणायमपकरिष्यति न वेति संशयः, अनभिगमने च सक्त इति वर्तते, क्रोधादनर्थं करिष्यति न वेति संशयः, पराभिगमने तदीयामर्षस्यानि-श्चितत्वात् स उभयतोऽनर्थसंशयनामा, एते चत्वार उभयतो योगा द-र्शनद्वयेऽपि शुद्धा उक्ताः ॥ ३८ ॥
सङ्कीर्णानाह—

एतेषामेव व्यतिकरेऽन्यतोऽर्थोऽन्यतोऽनर्थः ॥ ३९ ॥

एतेषामेव व्यतिकर इति। सजातीयं त्यक्त्वा शेषाणां परस्परसङ्कीर्णत्वे षट् सङ्कीर्णयोगाः, यदाह—अन्यत इति। यत्र परस्याभिगमनेऽर्थ-इत्येकतोऽर्थः, सकाच्चामर्षिताद्वित्तप्रत्यादानमित्यन्यतोऽनर्थोऽयमुभयतो-योगोऽर्थानर्थरूपः ॥ ३९ ॥

अन्यतोऽर्थोऽन्यतोऽर्थसंशयः ॥ ४० ॥

अन्यतोऽर्थ इति। पूर्ववत्, सक्तः सङ्घर्षाद्दास्यति न वेत्यन्यतोऽर्थसंशयोऽयमर्थार्थसंशयरूपः ॥ ४० ॥

अन्यतोऽर्थोऽन्यतोऽनर्थसंशयः ॥ ४१ ॥

अन्यतोऽर्थ इति। पूर्ववत्, सक्तोऽमर्षितो दत्तं प्रत्यादास्यति न वेत्यन्यतोऽनर्थसंशयोऽयमर्थानर्थसंशयरूपः ॥ ४१ ॥

अन्यतोऽनर्थोऽन्यतोऽर्थसंशयः ॥ ४२ ॥

अत्र परस्य स्वेन व्ययेन निष्फलमभिगमनमित्यन्यतोऽनर्थः, सक्तः-सङ्घर्षाद् दास्यति न वेत्यन्यतोऽर्थसंशयोऽयमनर्थार्थसंशयरूपः ॥ ४२ ॥

अन्यतोऽनर्थोऽन्यतोऽनर्थसंशयः ॥ ४३ ॥

अन्यतोऽनर्थ इति। पूर्ववत्, सक्तोऽमर्षितो दत्तं प्रत्यादास्यति न वेत्यन्यऽतोऽनर्थसंशयोऽयमर्थानर्थसंशयरूपः ॥ ४३ ॥

अन्यतोऽर्थसंशयोऽन्यतोऽनर्थसंशय इति षट् सङ्कीर्णयोगाः॥४४॥

६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२५

यत्र परस्याभिगमनेऽर्थो भविष्यतीत्याशंसेत्यन्यतोऽर्थसंशयः सक्तो-
ऽमर्षितो दत्तं प्रत्यादास्यति न वेत्यन्यतोऽनर्थसंशयोऽयमर्थसंशयानर्थ-
संशयरूप इति, एवं बाभ्रव्यदर्शनेऽपि योज्यम् ॥ ४४ ॥

तेषु सहायैः सह विमृश्य यतोऽर्थभूयिष्ठोऽर्थसंशयः, गुरुरन-
र्थप्रशमो वा ततः प्रवर्तेत ॥ ४५ ॥

तेष्विति । दर्शनद्वयेऽपि शुद्धेषु सङ्कीर्णेषु च, सहायैः पूर्वोक्तैः, यत-
इति । यं गम्यमाश्रित्य, अर्थभूयिष्ठ इति । अर्थबहुलो योऽर्थसंशयो नेतरः,
गुरुरनर्थप्रशमो वा, यतोऽर्थाद्धि महतोऽनर्थस्य प्रतिकार्यस्य गुरुत्वात्,
तत इति । तं लक्षीकृत्य प्रवर्तेत ॥ ४५ ॥

एवं धर्मकामावप्यनयैव युक्त्योदाहरेत्, सङ्किरेच्च परस्परेण
व्यतिषञ्जयेच्चेत्युभयतो योगाः ॥ ४६ ॥

अनयैवेति । अर्थयुक्त्योदाहरेत्, तत्र परस्य द्विजत्वादभिगमने धर्मः-
सक्ताच्चानुरागान्मुमूर्षोः स उभयतो धर्मः, यत्र ब्रह्मचारिणोऽभिगमनेऽ-
धर्मः सक्ताच्च व्रतस्थादनिच्छतः स उभयतोऽधर्मः, यत्र परस्य निर्द्रव्य-
स्याभिगमने धर्मो न भविष्यतीत्याशंसा, सक्ताच्च निष्पादितार्थत्वादप्रय-
च्छतो धर्मो न वेति स उभयतोऽधर्मसंशय इति, यत्र परस्याभिप्रेतस्या-
भिगमने कामः सक्ताच्चाभिप्रेतात्स उभयतः कामः, यत्र परस्यानभिप्रेतस्य
गमने विरागः सक्ताच्चानभिप्रेतात्स उभयतो द्वेषः, यत्र परस्याविदितशी-
लस्य गमने कामो भविष्यति न वेति स उभयतः कामसंशयः, यत्र परस्या-
भिगमने रागापनयनविवक्षायां विरागः स्यान्न वेति संशयः सक्ताच्च
तथैव विरागः स्यान्न वेति स उभयतो द्वेषसंशयः, इत्यौद्दालकेः शुद्धा उ-
भयतो योगाः, तथैव गमनागमनाभ्यां बाभ्रवीयेषूदाहरेत्सङ्किरेच्च, परस्प-
रेणेति । सजातीयांस्त्यक्त्वा, तथाऽन्यतो धर्मोऽन्यतोऽधर्म इति धर्मसं-
शयेनाधर्मसंशयेन च संकीर्णस्त्रिविधः, तथाऽन्यतो धर्मोऽन्यतो धर्माधर्म-
संशयाभ्यामन्यतो धर्मसंशये वाऽन्यतोऽधर्मसंशयेन संकीर्णास्त्रयः, इति
षट् संकीर्णाः, औद्दालकेर्बाभ्रव्यस्य च, एवमन्यतः कामोऽन्यतो द्वेषेण काम-
संशयेन द्वेषसंशयेन च सङ्कीर्णस्त्रिविधः, तथाऽन्यतो द्वेषोऽन्यतः कामद्वे-
षसंशयाभ्यामन्यतः कामसंशयश्चान्यतो द्वेषसंशयेन च संकीर्णास्त्रय इति
षडौद्दालकेर्बाभ्रव्यस्यापि, इहापि सहायैर्विमृश्य यतो धर्मभूयिष्ठस्तत्संशयो-
गुरुरधर्मद्वेषप्रशमश्च ततः प्रवर्तेत, न तु यतोऽधर्मो द्वेषस्तत्सन्शयश्चेति
योज्यं, व्यतिषञ्जयेच्चेति । अर्थादीनां विरुद्धत्वं त्यक्त्वा शेषान्परस्परतः
संश्लेषयेदित्यर्थः, तत्रान्यतोऽर्थोऽन्यतो धर्माधर्मकामद्वेषोस्तत्संशयैश्च
संयोजितोऽष्टप्रकारः, तथाऽनर्थोऽनर्थसंशयोऽर्थानर्थसंशयश्च समुदायेन

३२६ सटीक कामसूत्रे [ ६ अधिकरणे,

द्वात्रिंशद्भवन्ति, एवमन्यतो धर्मोऽन्यतोऽर्थानर्थकामः संयोजितोऽष्टप्रकारः, तथाऽधर्मो धर्मसंशयोऽधर्मसंशयश्चेति द्वात्रिंशद्, एवमन्यतः कामोऽन्यतोऽर्थानर्थधर्माधर्मैस्तत्संशयैश्च संयोजितोऽष्टप्रकारः, तथा द्वेषः कामसंशयो द्वेषसंशयश्चेति द्वात्रिंशत्, समुदायेन षण्णवतिः, विपर्ययेणे तावन्तः, एवमौद्दालकेर्व्यतिषङ्गयोगानां च द्वानवतिशतम्, एवं बाभ्रव्यस्यापि, तेष्वपि सहायैर्विमृश्येदित्यादि योज्यम्, उक्ता उभयतो योगास्त्रिविधाः-शुद्धाः संकीर्णा व्यतिषक्ताश्च ॥ ४६ ॥

समन्ततो योगं दर्शयितुं विशेषमाह—

संभूय च विटाः परिगृह्णन्त्येकामसौ गोष्ठीपरिग्रहः ॥ ४७ ॥

संभूयेति । एकीभूय जातविश्वासत्वात्परिगृह्णन्त्येवैकां विटाः प्रायशएवं समाचाराद्, असौ गोष्ठीपरिग्रह उच्यते यो बहुभिरेकस्याः परिग्रहः ॥ ४७ ॥

तेनानेकपरिग्रहायाः समन्ततो योग इति तामेवाधिकृत्याह—

सा तेषामितस्ततः संपृच्यमाना प्रत्येकं संघर्षार्दर्थं निर्वर्तयेत् ॥४८॥

सेति । अनेकपरिग्रहा, तेषामितस्तत इति । अनियमेन कदा चिदेकेन कदा चिद् द्वाभ्यां बहुभिर्वा, संपृच्यमाना = संपर्क यान्ती, संघर्षादिति । परस्परस्पर्धया तेषां संपृच्यमाना प्रत्येकमेकैकशोऽर्थान्निर्वर्तयेत् ॥४८॥

स्पर्धाकारणमाह—

सुवसन्तकादिषु च यो म इमममुं च मनोरथं संपादयिष्यति
तस्याद्य गमिष्यति मे दुहितेति मात्रा वाचयेत् ॥ ४९ ॥

सुवसन्तकादिष्विति । तेषूत्सवेषु विटानां कामदौर्बल्यं जायते, मनोरथमिति । अभिप्रेतं वाचयेत्, सा हि निरनुरोधत्वाच्छक्ता व्यवस्थापयितुम् ॥ ४९

तेषां च संघर्षजेऽभिगमने कार्याणि लक्षयेत् ॥ ५० ॥

संघर्षज इति । स्पर्धाजनिते, कार्याणीति लाभान् ॥ ५० ॥

तान्याह—

एकतोऽर्थः, सर्वतोऽर्थः, एकतोऽनर्थः, सर्वतोऽनर्थः, अर्धतोऽर्थः
सर्वतोऽर्थः, अर्धतोऽनर्थः, सर्वतोऽनर्थ इति समन्ततो योगाः ॥ ५१ ॥

एकतोऽर्थ इति । यावद्भिः परिगृहीता तेषामन्यतमस्यैकस्य, द्वयोरन्यतरस्यैकस्य वा शेषैः सह स्पर्धा तस्मादेकतोऽर्थं लक्षयेत्, सर्वत इति । सर्वेभ्योऽर्थम्, एकतोऽनर्थं सर्वतोऽनर्थ, यदोभौ स्पर्धेते तदोभयतोऽर्थसर्वतोऽर्थमुभयतोऽनर्थं सर्वतोऽनर्थामिति, यदार्धं स्पर्धते तदाऽर्धतोऽर्थमर्धतोऽनर्थम्, इति समन्ततो योगास्त्रिधा भिन्नाः ॥ ५१ ॥

६ अध्याये ] वेश्याविशेषप्रकरणम् । ३२७

अत्र भिन्नविषयत्वादन्वन्धो नास्ति संशयस्तु विद्यत इत्याह—

अर्थसंशयमर्थसंशयं च पूर्ववद्योजयेत् संकिरेच्च ॥ ५२ ॥

पूर्ववदिति । एकतोऽर्थसंशयः सर्वतोऽर्थसंशयः, एकतोऽनर्थसंशयः-
सर्वतोऽनर्थसंशय इति द्वौ, पूर्वोक्तौ च द्वाविति चत्वारः शुद्धाः, संकिरे-
च्चेति । सजातीयं त्यक्त्वा, तत्रैकतोऽर्थः सर्वतोऽनर्थ इत्येकः, सर्वतोऽ-
नर्थसंशये च द्वितीयः, एकतोऽर्थः सर्वतोऽर्थसंशय इति तृतीयः, एकतो-
ऽनर्थः सर्वतोऽर्थसंशयश्चेति चतुर्थः, एकतोऽनर्थः सर्वतोऽनर्थसंशय-
इति पञ्चमः, एकतोऽर्थसंशयः सर्वतोऽनर्थसंशय इति षष्ठः, ॥ ५२ ॥

इति संकीर्णाः ।

तथा धर्मकामावपि ॥ ५३ ॥
इत्यर्थानर्थानुबन्धसंशयविचाराः ॥

तथा धर्मकामावपीति । एकतो धर्मः सर्वतो धर्मः, एकतोऽधर्मः-
सर्वतोऽधर्मः, एकतो धर्मसंशयः सर्वतो धर्मसंशयः, एकतोऽधर्मसंशयः-
सर्वतोऽधर्मसंशय इति शुद्धाश्चत्वारः, एवं सजातीयं त्यक्त्वा संकीर्णाः
षट्, तथैकतः कामः सर्वतः कामः, एकतो द्वेषः सर्वतो द्वेषः, एकतः काम-
संशयः सर्वतः कामसंशयः, एकतो द्वेषसंशयः सर्वतो द्वेषसंशय इति
शुद्धाश्चत्वारः, एवं सजातीयं त्यक्त्वा सङ्कीर्णाः षड्, व्यतिषञ्जयेच्चेति,
अर्थादीनां शुद्धसङ्कीर्णभिन्नानां व्यतिषङ्गे संख्या द्वानवतिशतं भवति,
एवमुभयतोऽर्थतश्च योजयेत्, संघर्षजेऽभिगमने कार्याण्येतान्युक्तानि,
यदा त्वसङ्घर्षजमभिगमनं तदा तेषामेकाभिप्रायत्वाद् द्वादश समन्ततो-
योगाः, सर्वतोऽर्थः, सर्वतोऽनर्थः, सर्वतो धर्मः, सर्वतोऽधर्मः, सर्वतः-
कामः, सर्वतो द्वेषः, इति षट्, त एव संशयिताः षट् ॥ ५३ ॥

इत्युक्ता अर्थानर्थानुबन्धसंशयविचाराः ॥

वेशप्रयोजनमिदमधिकरणं, वेशश्च कासां स्त्रीणामिति, अस्यैव प्रक-
रणस्य शेषभूतमाह—

कुम्भदासी परिचारिका कुलटा स्वैरिणी नटी शिल्पकारिका
प्रकाशविनष्टा रूपाजीवा गणिका चेति वेश्याविशेषाः ॥ ५४ ॥

कुम्भदासीति । कुम्भग्रहणं निकृष्टकर्मोपलक्षणं, लोके सामान्याः-
स्त्रियः प्रसिद्धाः, कुम्भदासी गणिका रूपाजीवा चेति, शेषाणामपि
सामान्यात्तत्रैवान्तर्भावः, परिचारिका याः स्वामिनं परिचरन्ति, परि-
चरितस्यौपनिषदिके विधिं वक्ष्यति, कुलटा या पतिभयाद् गृहान्तरं गत्वा
प्रच्छन्नमन्येन संप्रयुज्यते, स्वैरिणी या पतिं तिरस्कृत्य स्वगृहेऽन्यगृहे
वा संप्रयुज्यते, नटी रङ्गयोषिद्, शिल्पकारिका रजकतन्तुवायादिभार्या,