कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१७
६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१७
तत्रार्थास्तदनुबन्धाश्चोपादेया एव, तत्संशयाश्च केषां चित्प्रवृत्तेः, येऽनर्थास्तदनुबन्धास्तत्संशयाश्च तेषामनुपादेयत्वादुत्पत्तिकारणान्याह-
ते बुद्धिदौर्बल्यादतिरागादत्यभिमानादतिदम्भादत्यार्जवाद-
तिविश्वासादतिक्रोधात्प्रमादात्साहसाद्दैवयोगाच्च स्युः ॥ २ ॥
त इति । अनर्थादयः, बुद्धिदौर्बल्यादिति । ऊहापोहतत्त्वाभिनिवेशाविवेकाभ्यां वैकल्यं, बुद्धिदौर्बल्यं, रागः = सक्तिः, अभिमानः = अहंकारः, दम्भः = छद्म, आर्जवम् = ऋजुता, विश्वासः = विश्रम्भः, क्रोधः = कोपः, एते कार्यवशाद्युक्तिभिः प्रयुज्यमाना नैव दोषाय, आधिक्येन तु दोषायैवेत्यतिशब्देनाह, प्रमादः = योऽन्यत्र व्यासङ्गः, साहसम् = अविमृश्यकारित्वम्, एतन्नवधा मानुषं निमित्तं, दैवयोगादिति । दैवेनाशुभकर्मसंज्ञकेन योगादित्यर्थः ॥ २ ॥
तेषां फलं कृतस्य व्ययस्य निष्फलत्वम्, अनायतिः, आगमिष्यतोऽर्थस्य निवर्तनम्, आप्तस्य निष्क्रमणं, पारुष्यस्य प्राप्तिः, गम्यता, शरीरस्य प्रघातः, केशानां छेदनं, यातनम्, अङ्गवैकल्यापत्तिः ॥३॥
तेषां बुद्धिदौर्बल्यादीनाम्, अथ वा तेषामित्यनर्थानां सानुबन्धानां तत्संशयानां च फलमिति परिणामः, अनर्थ एव हि विपरिणामरूपेण संशय्यमानत्वादनर्थसंशयानामपि फलं, व्ययस्येति । गम्याभिगमनाय कृतस्य, अनायतिः = प्रभावहानिः, आगमिष्यत इति । अधिकृते व्यये लप्स्यमानस्य निवर्तनमिति बोद्धव्यम्, आप्तस्येति । प्राप्तस्यार्थस्य निष्क्रमणमन्येन गृह्यमाणत्वात्, पारुष्यस्येति । दुरूक्तस्य, गम्यता = अपरिचेयता, शरीरस्य प्रघातः = प्राणैर्वियोगः, केशानां, छेदनं = लवनं, यातनं = बन्धनं ताडनम्, अङ्गवैकल्यं = कर्णनासाविच्छेदः ॥३॥
तस्मात्तानादित एव परिजिहीर्षेदर्थभूयिष्ठांश्चोपेक्षेत ॥ ४ ॥
तान्बुद्धिदौर्बल्यादीनादित एव परिहर्तुमिच्छेदु, यावदर्थहेतूनपायान्न प्रयुङ्क्ते ऽन्यथा ह्यर्थं बाधित्वाऽनर्थोऽपि स्यात् कारणानां संनिहितत्वाद्, अर्थभूयिष्ठांश्चेति । अर्थबहुलानानर्थहेतूनुपेक्षेत, तत्र ह्यर्थहेतूनामेवोपायानां बाहुल्यात् ॥ ४ ॥
इदानीं निरनुबन्धान्विचारयितुमाह-
अर्थो धर्मः काम इत्यर्थत्रिवर्गोऽनर्थोऽधर्मो द्वेष इत्यनर्थत्रिवर्गः ॥५॥
अर्थ इति । अर्थत्रिवर्गो ह्यर्थ इति कृत्वा तद्विरुद्धोऽनर्थत्रिवर्गः, ततश्चार्थानर्थानुबन्धसंशयविचारा इत्यस्मिन्सूत्रे धर्माधर्मयोः कामद्वेषयोरपि संग्रहः सिद्धः, अनेन निरनुबन्धपक्ष उक्तो वेदितव्यः ॥ ५ ॥
३१८ सटीक कामसूत्रे [ ६ अधिकरणे,
तेष्वाचर्यमाणेष्वन्यस्यापि निष्पत्तिरनुबन्धः ॥ ६ ॥
तेष्विति । अर्थादिषु षट्सु साध्यमानेषु, अन्यस्यापीति । न केवलं साध्यमानस्याप्यन्यस्यापि सजातीयस्य विजातीयस्य वा पञ्चानामन्यतमस्योत्पत्तिरनुबन्ध इति ॥ ६ ॥
संदिग्धायां तु फलप्राप्तौ स्याद्वा न वेति शुद्धसंशयः ॥ ७ ॥
अभिगमने क्रियमाणेऽर्थादिफलस्य संप्राप्तौ संदिग्धायां स्याद्वा न वेति यो विकल्पः स शुद्धसंशयः एकस्यैव भावाभावाभ्यां संशय्यमानत्वात् ॥ ७ ॥
इदं वा स्यादिदं वेति संकीर्णः ॥ ८ ॥
इदं वा स्यादिदं वेति सङ्कीर्णः संशयः, द्वयोरन्यतरोत्पत्त्या विकल्पस्य संकीर्यमाणत्वात् ॥ ८ ॥
एकस्मिन् कार्ये क्रियमाणे कार्यद्वयस्योत्पत्तिरुभयतो योगः ॥ ९ ॥
एकस्मिन्कार्य इति । अर्थादिसाधने कार्ये क्रियमाणे, द्वयस्येति । अर्थादीनां षण्णामन्यतमस्य सजातीयस्य विजातीयस्य वा द्वयस्योत्पत्तिरुभयतो योग इत्युभाभ्यां द्वयस्योत्पत्तिः ॥ ९ ॥
समन्तादुत्पत्तिः समन्ततो योग इति तानुदाहरिष्यामः ॥ १० ॥
समन्तादिति । एकस्मिन् क्रियमाणे कार्ये बहुभ्योऽर्थादीनामुत्पत्तिः, समन्ततो योगः, अस्य योगद्वयस्य निरनुबन्धपक्ष एवान्तर्भावः, तानिति । निरनुबन्धादीनुदाहरणानुदाहारष्यामः, स्पष्टोऽर्थः ॥ १० ॥
ननु च त्रिवर्गोऽर्थोऽनर्थश्च तयोः स्वरूपतोऽपरिज्ञाने कथमुदाहरणमित्याह—
विचारितरूपोऽर्थत्रिवर्गः, तद्विपरीत एवानर्थत्रिवर्गः ॥ ११ ॥
विचारितरूप इति । त्रिवर्गप्रतिपक्षो निरूपितस्वभाव इत्यर्थः, तद्विरुद्धत्वादनर्थोऽपि विचारितरूप इत्याह—तद्विपरीत इति ॥ ११ ॥
तत्रार्थानर्थयोस्त्रिवर्गयोरर्थानर्थावाद्यावधिकृत्याह—
यस्योत्तमस्याभिगमने प्रत्यक्षतोऽर्थलाभो ग्रहणीयत्वमायतिरागमः प्रार्थनीयत्वं चान्येषाम् स्यात्सोऽर्थोऽर्थानुबन्धः ॥ १२ ॥
यस्येति । उत्तमादिभेदात्त्रिविधो नायको व्याख्यातः, तत्र यः समस्तगुणस्तस्योत्तमगुणस्याभिगमने, प्रत्यक्षतोऽर्थलाभ इति । तत एव प्रत्यक्षात्तदानीमर्थलाभः, ग्रहणीयत्वमिति । लोकग्राह्यत्वमुपादेयत्वम्, आयतिः = प्रभावः, आगमस्तत्कालीयानां प्रार्थनीयत्वमन्येषां गम्यादीनां,
६ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३१९
सोऽर्थ इति । योऽसौ तदात्वे लाभः, अर्थानुबन्ध इति । ग्रहणीयत्वादि-
भिरथैरनुबन्धो यस्य, अयं सजातीयानुबन्धः ॥ १२ ॥
लाभमात्रे कस्य चिदन्यस्य गमनं सोऽर्थो निरनुबन्धः ॥१३॥
लाभमात्र इति । तदात्वे यो लाभस्तन्मात्रमेव निमित्तं कस्य
चिदिति । लोके यो गुणैर्दोषैर्वा न विवक्षितस्तस्याभिगमनमात्रोऽर्थो-
निरनुबन्धो, ग्रहणीयत्वाद्यभावात् ॥ १३ ॥
अन्यार्थपरिग्रहे सक्तादायतिच्छेदनमर्थस्य निष्क्रमणं लोकवि-
द्विष्टस्य वा नीचस्य गमनमायतिघ्नमर्थोऽनर्थानुबन्धः ॥ १४ ॥
सक्तादिति । यः सक्तो निःसारत्वादन्यदीयमुपहत्य प्रयच्छति
तस्मादन्यार्थस्य परिग्रहे, आयतिच्छेदनं प्रभावहानिर्दस्युना सह तिष्ठ-
तीति, अर्थस्येति । पूर्वोपात्तस्य निष्क्रमणं चात्र द्रव्यस्य नागरकेण गृह्य-
माणत्वाद्, लोकविद्विष्टस्य च चौर्यमकुर्वतोऽपि, नीचस्य वा जातिन्यून-
स्य, गमनमायतिघ्नमिति । प्रभावं हन्ति, अत्रार्थोऽनर्थानुबन्धः, तदा-
ऽर्थलाभस्यायतिच्छेदाद्यनर्थानुबन्धित्वादु अयं विरुद्धानुबन्धः ॥ १४ ॥
स्वेन व्ययेन शूरस्य महामात्रस्य प्रभावतो वा लुब्धस्य गमनं-
निष्फलमपि व्यसनप्रतीकारार्थं महतश्चार्थघ्नस्य निमित्तस्य प्रशम-
नमायतिजननं च सोऽनर्थोऽर्थानुबन्धः ॥ १५ ॥
स्वेनेति । आत्मीयद्रव्यपरिक्षयेण गमनं निष्फलं लुब्धत्वान्न प्रयच्छ-
ति, तथाऽपि व्यसनप्रतीकारार्थं शत्रुप्रघातार्थं महामात्रस्य शूरत्वाद्,
महतश्चार्थस्येति । अप्रयुक्तमर्थं साध्यमानं यस्मिन्महत्वान्निबध्य तिष्ठति
तं प्रशमयति तस्य शूरस्यापि राजकुले लब्धप्रभावत्वाद्, आयतिजननं-
चेति । शूरस्य प्रभाववतो वा सम्पर्को लोके महतीमायतीं जनयति
सोऽनर्थ इति । यः कृतो व्ययो निष्फलः, अर्थानुबन्धः, व्यसनप्रतीका-
रादिनाऽर्थेनानुबद्धत्वादयं विरुद्धानुबन्धः ॥ १५ ॥
कदर्यस्य सुभगमानिनः कृतघ्नस्य वाऽतिसन्धानशीलस्य स्वै-
रपि व्ययैस्तथाऽऽराधनमन्ते निष्फलं सोऽनर्थो निरनुबन्धः ॥१६॥
कदर्यस्येति । आत्मानं भृत्यांश्च पीडयित्वा योऽर्थान्सञ्चिनोति
तस्य, सुभगमानिन इति । असुभगः सन्नात्मानं सुभगं यो मन्यते स
न प्रयच्छति, यस्तु दुर्भगः सुभगमानी स केवलार्थो गम्य उक्तः, कृत-
घ्नस्य वेति । अकृतज्ञस्य, वाशब्दः पूर्वापेक्षया सर्वत्र योज्यः, अतिस-
न्धानशीलस्य छलनपरस्य, तथाऽऽराधनमिति । यथा स्वैरपि व्ययरभि-
३२० सटीककामसूत्रे [ ६ अधिकरणे,
गमनं निष्फलं, तदनुरञ्जनमध्यन्ते निष्फलं, सोऽनर्थ इति । यः कृतो व्ययो-
निरनुबन्धोऽर्थानर्थाभ्यां निरनुबन्धत्वात् ॥ १६ ॥
कदर्यादेर्विशेषमाह —
तस्यैव राजवल्लभस्य क्रौर्यप्रभावाधिकस्य तथैवाराधनमन्ते निष्फलं निष्कासनं च दोषकरं सोऽनर्थोऽनर्थानुबन्धः ॥ १७ ॥
तस्यैवेति । क्रौर्यप्रभावाधिकस्येति । दोषत्रयमत्राधिकं, तथैवा-
राधनमिति । यथा स्वैर्धैर्यैरभिगमनं निष्फलं कदर्यादीनामदातृत्वाद्,
निष्कासनमददतां दोषकरं, ते हि निष्कासिता दोषत्रययुक्तत्वात्पारुष्य-
शरीरप्रघातादीननर्थान्कुर्युरित्यनर्थोऽनर्थानुबन्धः, अयं सजातीयानु-
बन्धः ॥ १७ ॥
एवं धर्मकामयोरप्यनुबन्धान्योजयेत् ॥ १८ ॥
एवमिति । एवमन्यानपि धर्मकामयोरनुबन्धान्योजयेत्, तत्र ब्राह्म-
णस्य गृहस्थस्यानुरक्तस्य मुमूर्षोर्गमनात्प्राणसंरक्षणं कुटुम्बसंधारणं
गार्हस्थ्यधर्मप्रवर्तनं च धर्मो धर्मानुबन्धः, काममात्रं धर्मो निरनुबन्धः,
तस्यैवाकृतस्नानभोजनस्य ब्राह्मणस्यातिव्यवायाद् धातुक्षये मुमूर्षु-
त्वाद् धर्मोऽधर्मानुबन्धः, अभिप्रेतस्य धनवतो भोगिनोऽभिगमने कामः
कामानुबन्धः, रागापनयनमात्रेऽभिप्रेतस्य गमनं कामो निरनुबन्धः,
अभिप्रेतस्य हरिद्रारागस्य गमनं कामो द्वेषानुबन्ध इति, अत्र निरनुबन्धाः-
षड्, विजातीयविरुद्धाभ्यामनुबन्धा द्वादश ॥ १८ ॥
परस्परेण च युक्त्या सङ्किरेदित्यनुबन्धाः ॥ १९ ॥
परस्परेण च युक्त्येति । विरुद्धं त्यक्त्वा शेषाणां विजातीयानाम-
न्योन्ययोगादित्यर्थः, तत्रार्थो धर्माधर्मकामद्वेषैः प्रत्येकमनुबद्धश्चतुर्विधः,
तथाऽनर्थोऽपि, धर्मोऽर्थानर्थकामद्वेषः प्रत्येकमनुबद्धश्चतुर्विधः, तथाऽ-
धर्मोऽपि, कामोऽर्थानर्थधर्माधर्मैः प्रत्येकमनुबद्धश्चतुर्विधः, तथा द्वेषोऽपि,
इति चतुर्विंशतिः संकीर्णानुबन्धाः ॥ १६ ॥
शुद्धसंशयमधिकृत्याह—
परितोषितोऽपि दास्यति न वेत्यर्थसंशयः ॥ २० ॥
परीति । यदि तदात्वे न ददाति सुरतोपचारेण परितोषितोऽपि
दास्यति, तत्राज्ञातदानशीलत्वाद्यान्न वेत्यर्थसंशयः ॥ २० ॥
निष्पीडितार्थमफलमुत्सृजन्त्या अर्थमलभमानाया धर्मः स्यान्न वेति धर्मसंशयः ॥ २१ ॥