सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

४ अध्याये ] नखच्छेद्यप्रकरणम् । १०१

४ अध्याये ] नखच्छेद्यप्रकरणम् । १०१

तदिति । नखविलेखनं, रूपत इति संस्थानात्, द्विविधं हि तद् रूपवदरूपवच्च, तत्र यत्कस्य चिदनुकारि तद्रूपवदष्टप्रकारमाच्छुरितकादि, तस्य लक्षणं वक्ष्यति, यदननुकारि तदरूपवत् त्रिविधं, मृदुमध्यातिमात्रभेदात् ॥ ४ ॥

कक्षौ स्तनौ गलः पृष्ठं जघनमूरू च स्थानानि ॥ ५ ॥

स्थानानि । कक्षस्तनगलपृष्ठजघनोरुपार्श्वानि तेष्वेव षट्सु नखक्षतैः स्त्रीपुंसयोरत्यर्थनिर्वृत्तिरित्याचार्याणां मतम् उत्तरपक्षदर्शनात्, तत्र गल इति सामीप्यात्तत्पार्श्वं, जघनशब्दः समुदायेन कटिभागे तदेकदेशे च पुरोभागे वर्तते, तदिह समुदायवृत्ति, तेन नितम्बलेखनमपि सिद्धं, तथा चोक्तम्—

‘ग्रीवापार्श्वोरुकक्षेषु कटिपृष्ठस्तनेषु च ।
संप्रयोगे प्रयुञ्जीत नखच्छेद्यानि योषिताम्’ इति ॥ ५ ॥

प्रवृत्तरतिचक्राणां न स्थानमस्थानं वा विद्यत इति सुवर्णनाभः ॥६॥

प्रवृत्तरतिचक्राणामिति । प्रवृत्तरागोत्पीडानां, न स्थानमिति । अङ्गं प्रत्यङ्गं वा सिद्धं सर्वमेव नखक्षतस्य स्थानं, यद्यप्येवं तथाऽपि शास्त्रकारो रूपवतां नियतस्थानं वक्ष्यति, तत्र हि परभागं लभन्त इति ॥६॥

छेद्यस्य नखाधीनत्वात्तेषामाश्रयतः कल्पनातो गुणतः प्रमाणतश्च विधिमाह—

तत्र सव्यहस्तानि प्रत्यग्रशिखराणि द्वित्रिशिखराणि चण्डवेगयोर्नखानि स्युः ॥ ७ ॥

तत्रेति । नखकर्मणि, सव्यहस्तानीति । आश्रयभावेन वामो हस्तो येषामिति, दक्षिणस्य प्रायशोऽन्यव्यापारार्देषां भङ्गोऽपि स्यात्, प्रत्यग्रशिखराणीति । अभिनवघटिताग्राणि, द्विशिखराणि त्रिशिखराणि वा क्रकचमुखवत्कल्पितानि, तत्रित्रिशिखरकाण्यनतिविस्तीर्णस्थलत्वाद् द्रुतं भिद्यन्ते, तद्विपर्ययाणि मध्यमन्दवेगयोरित्यर्थोक्तं, तत्रेष्टप्रमृष्टाग्राणि शूकाकृतीनि मध्यवेगयोः, प्रमृष्टाग्राण्यर्धचन्द्राकृतीनि मन्दवेगयोरिति तिस्रो नखविकल्पनाः ॥ ७ ॥

गुणानाह—

अनुगतराजि सममुज्ज्वलममलिनमविपाटितं विवर्धिष्णु मृदु स्निग्धदर्शनमिति नखगुणाः ॥ ८ ॥

अनुगतराजीति । अनुगता विवर्णा मध्ये लेखा यस्य, सममनिम्नोन्नतपृष्ठम् , उज्ज्वलमागन्तुकमलाभावादमलिनं कान्तिमद्, अविपाटितम-

१०२ सटीक कामसूत्रे [ २ अधिकरणे,

विस्फुटितं, विवर्धिष्णु वर्धनशीलं, मृदु, न काष्ठप्रख्यं, स्निग्धदर्शनमिति । दृश्यत इति दर्शनं रूपं, 'कृत्यल्युटो बहुलम्' । ३ । ३ । ११३ । इति ल्युट्, तदरूक्षमस्येति ॥ ८ ॥

दीर्घाणि हस्तशोभीन्यालोके च योषितां चित्तग्राहीणि गौडानां नखानि स्युः ॥ ९ ॥

प्रमाणतस्त्रिधा । तत्र दीर्घाणि हस्तशोभीनि हस्तं शोभयितुं शीलं येषां, नखच्छेदं कर्तुमक्षमत्वाद्, आलोके=दर्शने, चित्तग्राहीणि योषिद्भिर्दृश्यमानानि तासां चित्तं हरन्तीति गुणद्वययुतानि स्पर्शमात्रकरत्वात्प्रायशो गौडानाम् ॥ ९ ॥

ह्रस्वानि कर्मसहिष्णूनि विकल्पयोजनासु च स्वेच्छाऽवपातीनि दाक्षिणात्यानाम् ॥ १० ॥

ह्रस्वानि, कर्मसहिष्णूनि लेखनादि कर्म सहन्ते, दीर्घाणि तु भज्यन्ते, विकल्पयोजनास्वर्धचन्द्रादयो ये विकल्पास्तत्संपादनासु स्वेच्छाऽवपातीनि प्रयोक्तुरिच्छया स्थाने योऽवपातः स विद्यते येषां न तु दीर्घाणाम्, इति गुणद्वयं, तानि खररागत्वात्प्रायशो दाक्षिणात्यानाम् ॥ १० ॥

मध्यमान्युभयभाञ्जि माहाराष्ट्रिकाणामिति ॥ ११ ॥

मध्यमानि न दीर्घाणि नातिह्रस्वानि, उभयभाञ्जि दीर्घह्रस्वगुणभाञ्जि, तानि वैचक्षण्यात्प्रायशो माहाराष्ट्रिकाणाम् ॥ ११ ॥

आच्छुरितकादेर्लक्षणं परभागार्थं च प्रयोगस्थानमाह—

तैः सुनियमितैर्हनुदेशे स्तनयोरधरे वा लघुकरणमनुद्गतलेखं स्पर्शमात्रजननाद्रोमाञ्चकरमन्ते संनिपातवर्धमानशब्दमाच्छुरितकम् ॥ १२ ॥

तैरिति । मध्यमैर्नखैः पञ्चभिरपि, सुनियमितैरिति । सुसंश्लिष्टैः, मध्यमावस्थापेक्षयेदं वचनं, प्रागसंश्लिष्टान्येव स्थाने निवेश्यन्ते ततश्च शनैराकृष्यमाणानि सुसंयमितानि भवन्ति न प्रागेव सुसंयमितानि, लोके तथा प्रयोगदर्शनाद्, लघुकरणमिति । लघ्वी क्रिया यस्मिन्निति, यथा क्षतं न भवति, यदाह—अनुद्गतलेखमिति । किमर्थं तर्हीत्याह—स्पर्शमात्रजननाद्रोमाञ्चकरमिति, अन्तइति । स्पर्शनक्रियाया नखघातादिभिरिति, अङ्गुष्ठनखेन प्रतिनखस्फालनादूर्ध्वमानचटचटाशब्दं यदेवंविधं कर्म तदाच्छुरितकं नखैराच्छुरणाद्, एवं च नखच्छेदाभावेऽप्यस्यैवानुरूपं, तत्र हनुदेशोऽधरे च सर्वासामेव नायिकानामाच्छुरितकमेव नान्यन्नखकर्मेति दर्शनार्थमुभयोर्ग्रहणं, स्तनयोराधिक्येन प्रयोक्तव्यमिति ज्ञापनार्थं वचनं, तत्रापि स्पर्शकरत्वात् ॥ १२ ॥

४ अध्याये ] नखच्छेद्यप्रकरणम्। १०३

अन्येषु तु स्थानेष्ववस्थाऽपेक्षया प्रयोगमाह—
प्रयोज्यायां च तस्याङ्गसंवाहने शिरसः कण्डूयने पिटकभेद-
ने व्याकुलीकरणे भीषणे च प्रयोगः ॥ १३ ॥

प्रयोज्यायां च कन्यायां तस्य प्रयोग इति विस्रम्भणार्थं नान्यस्येत-
रस्य नखकर्मणः, संवाहने यत्र यत्र स्थाने मर्दनं तत्र तत्र, शिरःकण्डू-
यने शिरस्येव, पिटकभेदने स्वल्पपिटकानां शरीरस्थानां भेदने, तद्देश-
एव व्याकुलीकरणे किं चित्कर्तुमप्रयच्छन्त्या भीषणे भयं दर्शयितुमित्य-
र्थः, एते संवाहनादिष्वावस्थिकाः सर्वास्वेव नायिकासु, अस्यावस्थि-
ककार्यवशात्नायिकाऽपि प्रयोक्त्री ॥ १३ ॥

ग्रीवायां स्तनपृष्ठे च वक्रो नखपदनिवेशोऽर्धचन्द्रकः ॥ १४ ॥

ग्रीवायामिति । ग्रीवापार्श्वे बहिर्मुखाः स्तनपृष्ठे चोर्ध्वमुखाः, अर्ध-
चन्द्रवद्वक्रोऽर्धचन्द्रः, सूच्यग्रेण कनिष्ठानखेन निष्पाद्यो मध्यमानखेना-
र्धचन्द्रेण ॥ १४ ॥

तावेव द्वौ परस्पराभिमुखौ मण्डलम् ॥ १५ ॥

तावेव द्वाविति । अर्धचन्द्रौ क्रोडभावेन परस्पराभिमुखौ मण्डलं-
तदाकारत्वात् ॥ १५ ॥

नाभिमूलककुन्दरवङ्क्षणेषु तस्य प्रयोगः ॥ १६ ॥

नाभिमूले रशनानायकवदेव स्थितं, ककुन्दरयोर्नितम्बस्योपरि-
कूपकयोरन्तर्निहितप्रतिकूपकं मनोहारि, वङ्गणयोरूरुसन्ध्योः कर्णिकाऽ-
लंकारवज्जघनस्य ॥ १६ ॥

सर्वस्थानेषु नातिदीर्घा लेखा ॥ १७ ॥

सर्वस्थानेति । लेखायाः स्थानविशेषाभावान्न स्थाने विशेषः, तेन ग्री-
वात्रिकपृष्ठपार्श्वोरुमूलबाहुषु नातिदीर्घस्थानविशेषाद् द्व्यङ्गुला त्र्यङ्गुला
वा प्रत्यग्रशिखरा निष्पाद्या ॥ १७ ॥

सैव वक्रा व्याघ्रनखकमास्तनमुखम् ॥ १८ ॥

सैवेति । लेखा, स्तनमुखादुत्थाप्याग्रतो वक्रीकृता व्याघ्रनखखण्ड-
वत्स्तनकण्ठमलंकरोति ॥ १८ ॥

पञ्चभिरपि नखैर्लेखा चूचुकाभिमुखी मयूरपदकम् ॥ १९ ॥

पञ्चभिरपि नखैः सूच्यग्रशिखरकैः, चूचुकाभिमुखौति । स्तनमुखस्या-
धस्तादङ्गुष्ठनखं विन्यस्योपरि च संश्लिष्टाङ्गुलिनखानि चूचुकाभिमुखमा-
कर्षयेद्, मयूरपदकं तदाकारत्वात्, ॥ १९ ॥

१०४ सटीके कामसूत्रे [ २ अधिकरणे,

तत्संयोगश्लाघायाः स्तनचूचुके संनिकृष्टानि पञ्चनखपदा-
नि शशप्लुत कम् ॥ २० ॥

तदिति। मयूरपदकं, संप्रयोगश्लाघाया इति। नायकसंयोगे श्लाघा यस्यास्तस्या विधेयं, सर्वा एव हि स्त्रियः स्तनमुखं सर्वनख-विप्लुतं बहु मन्यन्ते, यथोक्तम्-

'स ते मनसि तन्वङ्गि! सखि! प्रागिव वर्तते।
स्तनचक्रं विशालाक्षि! यत्ते शिखिपदाङ्कितम्' ॥ इति,

स्तनचूचुक इति। सामीप्ये सप्तमी, संनिकृष्टानीति। नखाग्रपञ्चकमेकीकृ-त्यावष्टभ्य निदध्यात्ततः पञ्च पदानि संनिकृष्टानि शशप्लुततं, तदाका-रत्वात्, ॥ २० ॥

स्तनपृष्ठे मेखलापथे चोत्पलपत्राकृतीत्युत्पलपत्रकम् ॥ २१ ॥

उत्पलपत्राकृतीति। उत्पलपत्रसंस्थानं; तदेकमेव स्तनपृष्ठे मेख-लापथे चेति। यत्र मेखला निबध्यते तत्र, पथग्रहणाच्चैकम् अपि तु तिर्यगुत्पलपत्रमालामिव शोभार्थं निदध्यात्, नाभिमूलस्थमण्डलं मध्यस्थनायकरत्नवदाभाति ॥ २१ ॥

ऊर्वोः स्तनपृष्ठे च प्रवासं गच्छतः स्मरणीयकं संहताश्चतस्र-
स्तिस्रो वा लेखा इति नखकर्माणि ॥ २२ ॥

स्मरणीयकमिति। प्रोषितं स्मारयति यन्नखच्छेद्यं लेखाऽऽख्यं, 'कृत्यल्युटो बहुलम्' ।३।३।११३। इति कर्तर्र्यनीयर्, ततः संज्ञायां कन्, ततः प्रयोज्याया ऊर्वोः प्रवासं गच्छतः प्रच्छन्नस्य नायकस्य प्रयोक्तुः, स्तनपृष्ठे सार्वलौकिकस्य, संहता इति। निरन्तरा मङ्गलार्थं मा भूच्चिर-विप्रयोग इति, चतस्रो दीर्घप्रवासे, तिस्रो ह्रस्वप्रवासे, संख्याऽङ्कवलेखाः, एषामर्धचन्द्रादीनां देशकालकार्यवशान्नायिकाऽपि प्रयोक्त्री, नखकर्मा-णीति। एतानि नखच्छेद्यानि रूपवन्तीत्यर्थः, अरूपिणां त्वनिबद्धरूपत्वा-त्तत्स्थानानियमः, सर्वत्रैवोक्तस्थाने प्रयोगः ॥ २२ ॥

अन्येषामतिदेशमाह—

आकृतिविकारयुक्तानि चान्यान्यपि कुर्वीत ॥ २३ ॥

आकृतिविकारयुक्तानीति। संस्थानविशेषयुक्तानि, अन्यान्यपि पक्षि-कुसुमकलशपत्रवल्ल्यादीनि नखकर्माणि प्रयोक्तव्यानि, अनेन विकल्प-स्याधिक्यं दर्शयति ॥ २३ ॥

विकल्पानामनन्तत्वादानन्त्याच्च कौशलविधेरभ्यासस्य च स-

४ अध्याये ] नखच्छेद्यप्रकरणम् । १०५

...सर्वगामित्वाद्वागात्मकत्वाच्छेद्यस्य प्रकारान् कोऽभिसमीक्षितुमर्हतीत्याचार्याः ॥ २४ ॥

आचार्याणां मतं विकल्पानामिति । अष्टविकल्पमेवास्तु नान्यानि तेषां छेद्यप्रकाराणां निरूप्यमाणानामानन्त्याद्, अतस्तान् कोऽभिसमीक्षितुमर्हतीति संबन्धः, तदभिसमीक्षिणा कौशलमप्यपेक्षणीयं, तस्य च प्रतिविकल्पं भिन्नत्वादानन्त्यमित्याह—आनन्त्याच्चेति । कौशलविधिः कौशलकरणं, स च नाभ्यासं विनेत्ययमपरस्तृतीयोऽपेक्षणीयः, सोऽप्येकत्र कृतोऽन्यत्र न कौशलं निष्पादयतीति सर्वगामिना भवितव्यमित्याह—अभ्यासस्य च सर्वगामित्वादिति । तदित्थं महती परम्परेति कः प्रकारानभिसमीक्षते, किं च रागात्मकत्वाच्छेद्यस्येति । रागजन्यत्वात्तदात्मकं नखच्छेदं, रागविवृद्धौ हि नखविलेखनं, तच्च तदानीं रागान्धत्वादरूपवदेव प्रयुङ्क्ते, कोऽत्र छेद्यवस्तुनि प्रकारान् प्रयोक्तुमर्हति तदानीमष्टविकल्पमपि न वक्तव्यम् ॥ २४ ॥

भवति हि रागेऽपि चित्रापेक्षा वैचित्र्याच्च परस्परं रागो जनयितव्यो, वैचक्षण्ययुक्ताश्च गणिकास्तत्कामिनश्च परस्परं प्रार्थनीया भवन्ति, धनुर्वेदादिष्वपि हि शस्त्रकर्मशास्त्रेषु वैचित्र्यमेवापेक्ष्यते किं पुनरिहेति वात्स्यायनः ॥ २५ ॥

भवति हि रागेऽपीति । हिशब्दोऽवधारणे, रागकालेऽपि केषां चित् सत्यप्यानन्त्ये वैचित्र्यापेक्षा भवत्येव, अपिशब्दादरागकालेऽपि, यदाह—वैचित्र्याच्चेति । आहार्यरागे कृत्रिमरागे च रते परस्परस्य राग उत्पद्यमानः स न विना वैचित्र्यमिति तज्जननार्थं च वैचित्र्यापेक्षा, के पुनस्ते रागे सत्यपि वैचित्र्यमपेक्षन्त इत्याह—वैचक्षण्ययुक्ताश्चेति, तज्ज्ञतया युक्ता देवदत्तासदृश्यो गणिकास्तत्कामिनश्च मूलदेवसदृशाः, ते च विशिष्टरतार्थिनः परस्परस्य प्रार्थनीयास्तज्ज्ञा भवन्ति, मा भूदन्यत्र खलरतमिति । ततश्च तेषां वैचित्र्यमेव रागं जनयति, धनुर्वेदादिष्वपीति । शास्त्रान्तरेणास्य साधर्म्यं दर्शयति—आदिशब्दात्कुन्तखड्गादिशस्त्रपरिग्रहः, शस्त्रकर्मशास्त्रेष्विति । ज्ञानविद्या, कर्मविद्या चेति द्विविधा विद्या, धनुर्वेदे हि परशराणामागच्छतां शरैश्छेदनमेकसंधानेनानेकशस्त्रमोक्षणमित्यादिकं कर्मवैचित्र्यं, किं पुनरिह कामसूत्रे यत्र वैचित्र्यमेव मुख्यमभिप्रेतम्, अन्यथा नागरकानागरकयोः को भेदः ॥ २५ ॥

सर्वत्र च वैचक्षण्ययुक्तेषु वैचित्र्यप्रसङ्गप्रतिषेधमाह—

न तु परपरिगृहीतास्वेवं कुर्यात्, प्रच्छन्नेषु प्रदेशेषु तासा-

१४ का० सू०

१०६ सटीक कामसूत्रे [ २ अधिकरणे, ५ अध्याये ]

मनुस्मरणार्थं रागवर्धनार्थञ्च विशेषान्दर्शयेत् ॥ २६ ॥

न त्विति। परपरिगृहीतासु वैचक्षण्ययुक्तास्वपि, एवमिति। वैचित्र्यं युक्तं, तासां प्रच्छन्ननायकोपभोग्यत्वात्, प्रच्छन्नेष्विति। ऊरुजघनवङ्क्षणादिषु, अनुस्मरणार्थमिति। ये नखच्छेद्यविशेषास्तान्दृष्ट्वा स्मरन्ति, नित्यसमागमस्य दुर्लभत्वाद्, रागवर्धनार्थञ्चेति। प्रमोदमात्रस्वरूपत्वाद्विस्रब्धिलक्षणां प्रीतिं महतीं जनयन्ति ॥ २६ ॥

स्मरणमधिकृत्यान्वयव्यतिरेकाभ्यां प्रशंसामाह—

नखक्षतानि पश्यन्त्या गूढस्थानेषु योषितः।
चिरोत्सृष्टाऽप्यभिनवा प्रीतिर्भवति पेशला ॥ २७ ॥

नखक्षतानीति। गूढस्थानादिषु, अभिनवा प्रथमसमागम इव, प्रीतिः=स्नेहः, पेशला=अकृत्रिमा ॥ २७ ॥

चिरोत्सृष्टेषु रागेषु प्रीतिर्गच्छेद्वराभवम्।
रागायतनसंस्मारि यदि न स्यान्नखक्षतम् ॥ २८ ॥

चिरोत्सृष्टेष्वनुभूय चिरपरित्यक्तेषु, पराभवं विनाशं, रागायतनसंस्मारीति। रूपं यौवनं गुणाश्चेति रागायतनं, तत्स्मारयितुं शीलं यस्येति, नखक्षतदर्शनात्तद्रूपादिषु स्मरणं, ततः प्रीतिवासनाप्रबोधः॥२८॥

सामान्येन प्रशंसामाह—

पश्यतो युवतिं दूरान्नखोच्च्छिष्टपयोधराम्।
बहुमानः परस्यापि रागयोगश्च जायते ॥ २९ ॥

दूरादिति। तत्प्रकारमनुपलभ्यापि, उच्छिष्टं परिभुक्तं, बहुमानोऽतिगौरवं, परस्यापि येनापि न संगता, रागयोग इति। रागेण युज्यत इत्यर्थः ॥ २९ ॥

पुरुषश्च प्रदेशेषु नखचिह्नौर्विचिह्नितः।
चित्तं स्थिरमपि प्रायश्चलयत्येव योषितः ॥ ३० ॥

पुरुषश्चेति। यथा पुरुषस्य तथा योषितोऽपि पुरुषं दृष्ट्वा रागः, प्रदेशे दष्टेषु, विचिह्नितो विलिखितः, स्थिरमपि तपश्चरणादिभिर्नियतपि प्रायश्चलयतीति प्रकृतेरित्यर्थः ॥ ३० ॥

नान्यत्पटुतरं किञ्चिदस्ति रागविवर्धनम्।
नखदन्तसमुत्थानां कर्मणां गतयो यथा ॥ ३१ ॥

इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चतुर्थोऽध्यायः।


दशनच्छेदप्रकरणम्। १०७

आदितो नवमः।

नान्यदिति। रागयोगेभ्यः, पटुतरं रागवृद्धौ योग्यतरं, दन्तग्रहणं तुल्यफलत्वदर्शनार्थं प्रासङ्गिकं, कर्मणां गतय इति। छेदनानां प्रवृत्तयो यथा देहान्तरस्थिता न तथा लोकेऽन्यदस्ति संप्रयोगेऽपि रागवर्धनं, पूर्वपूर्वमिति वक्ष्यति ॥ ३२ ॥

इति नखजातयो दशमं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे नखजातयश्चतुर्थोऽध्यायः।

अथ पञ्चमोऽध्यायः।

एवं नखच्छेद्यानुपक्रम्य तदधिकेन दशनच्छेद्येनोपक्रमितुं दशनच्छेद्यविधयस्तथाऽऽलिङ्गनादयो, देशप्रवृत्तिमभिनिरूप्य प्रयुज्यमाना न रागाहेतव इति देशेषु भवा देश्या उपचारा, इति प्रकरणद्वयमत्राध्याये, गहेतव इति देशेषु भवा देश्या उपचारा, इति प्रकरणद्वयमत्राध्याये,
तत्र च्छेद्यस्य विषयस्वरूपकालानां पूर्वत्रानिर्दिष्टत्वात्स्थानादीन्याह—

उत्तरोष्ठमन्तर्मुखं नयनमिति मुक्त्वा चुम्बनवद्दशनरदनस्थानानि ॥ १ ॥

उत्तरोष्ठमिति। चुम्बनस्येवात्राप्युत्तरोष्ठं छिद्यमानमसुखावहम्, अन्तर्मुखं जिह्वां, शेषमपि दशनागोचरत्वाद्, नयनयोश्छेद्यत्वासंभवात्पर्यन्तपीडाकरत्वाद्रूप्यकरणाच्च मुक्त्वा, शेषा ललाटाधरोष्ठगलकपोलवक्षःस्तनाः, तथा ललाटामूरुसंधिबाहुमूलनाभिमूलानि सन्ति तानि स्थानानि, न तु सर्वजनप्रयोज्यानीति, एतत्सर्वं प्रयोज्यं चुम्बनेन सहैकविषयत्वाद्, दशनरदनस्थानानि, दन्तविलेखनस्थानानि, उत्तरोत्तरवैचित्र्यदर्शनार्थं चुम्बनविकल्पानन्तरमिदं नोक्तम् ॥ १ ॥

गुणानाह—

समाः स्निग्धच्छाया रागग्राहिणो युक्तप्रमाणा निश्छिद्रास्तीक्ष्णाग्रा इति दशनगुणाः ॥ २ ॥

समा अकरालास्तुल्यच्छेदं निष्पादयन्तीति, स्निग्धच्छाया अपरषाः, रागग्राहिणस्ताम्बूलभक्षणादौ, न पुष्पावदाताः, इति गुणद्वयं शोभाऽर्थं; युक्तप्रमाणा न श्लक्ष्णा न पृथवः, निश्छिद्राः=घनाः, तीक्ष्णाग्रा इति गुणत्रयं छेद्यार्थं शोभार्थं च ॥ २ ॥

कुण्ठा राज्युद्गताः परुषा विषमाः श्लक्ष्णाः पृथवो विरला इति च दोषाः ॥ ३ ॥

१०८ सटीक कामसूत्रे [ २ अधिकरणे,

राज़्युद्गता इति । मध्ये स्फुटिता लेखा उद्गता येषामित्याहिताग्न्यादिषु द्रष्टव्यं, गुणविपर्यये दोषाः सिद्धा अपि प्रधानदोषख्यापनार्थं पुनरुक्ताः, तेन रागाग्राहित्वं न दोषः, यतः शुद्धा एव दशनाः प्रायशो वर्ण्यन्ते, अत्रापि राज्युद्गतपरुषविषमाणांमाननकान्तिपरिपन्थित्‍वं, कुण्ठादीनां तु शेषाणां कार्यकारणेऽसामर्थ्यं दोषश्च ॥ ३ ॥

गूढकमुच्छूनकं बिन्दुबिन्दुमाला प्रवालमणिर्मणिमाला खण्डाभ्रकं वराहचर्वितकमिति दशनच्छेदनविकल्पाः ॥ ४ ॥

छेदनविकल्पा इति । रूपत उक्ताः ॥ ४ ॥

तेषां लक्षणं प्रयोगस्थानं चाह—

नातिलोहितेन रागमात्रेण विभावनीयं गूढकम् ॥ ५ ॥

रागमात्रेणेति । राग एव रागमात्रं क्षताभावाद्, अतिलोहितेनेति । तस्याधिक्यमाह, तेन विभावनीयं विज्ञेयं, एवं च गूढमिव गूढकम्, अस्फुटितत्वात्, तदेकेनैव राजदन्ताग्रेणावघृष्य निष्पाद्यम् ॥ ५ ॥

तदेव पीडनादुच्छूनकम् ॥ ६ ॥

तद् गूढकं यदाऽऽपीड्य निष्पाद्यते तदा जातश्वयथुत्वादुच्छूनकम्॥ ६ ॥

तदुभयं विन्दुरधरमध्य इति ॥ ७ ॥

तदुभयं गूढकमुच्छूनकं च, बिन्दुरिति । अयमितिशब्दश्चार्थे, बिन्दुश्च वक्ष्यमाणलक्षणः, त्रितयमधरमध्ये, तेषां स्वल्पाभोगत्वात् ॥ ७ ॥

उच्छूनकस्य वैशेषिकं स्थानमाह—

उच्छूनकं प्रबालमणिश्च कपोले ॥ ८ ॥

उच्छूनकं, प्रबालमणिश्च वक्ष्यमाणलक्षणः, कपोले तस्य शक्यक्रियत्वात् ॥ ८ ॥

कस्मिन्कपोले इत्याह—

कर्णपूरचुम्बनं नखदशनच्छेद्यमिति सव्यकपोलमण्डनानि॥९॥

सव्यकपोलमण्डनानीति । यथा कर्णपूरश्चारुत्वाद्वामे कर्णे विन्यस्तो वामकपोलस्य मण्डनं तथा, यथोक्तं—

'दन्तच्छेदं चुम्बनं सताम्बूलं रागमण्डनम्' ॥ ९ ॥

दन्तौष्ठसंयोगाभ्यासनिष्पादना प्रबाळमणिसिद्धिः ॥ १० ॥

दन्तौष्ठसंयोगाभ्यासनिष्पादनेति । उत्तरदन्ताधरोष्ठाभ्यामुत्तरोष्ठाधरदन्ताभ्यां वा स्थानस्य संयोगो यद् गृहीत्वा पीडनं तस्याभ्यासः पुनः पुनः करणं स एव निष्पादनं यस्याः सिद्धेः, निष्पाद्यतेऽनेनेति कृ-

५ अध्याये ] दशनच्छेदप्रकरणम् । १०९


त्वा, तथा हि तदभ्यासात्प्रबालमणिरिव लोहितः क्षतविवर्जितो दन्तोष्ठपदविन्यासो निष्पाद्यते ॥ १० ॥

सर्वस्येयं मणिमालायाश्च ॥ ११ ॥

मणिमालायाश्च दन्तोष्ठसंयोगाभ्यासनिष्पादना सिद्धिरित्येव, अत्राप्ययमेव प्रकारः, किं त्वेकं निष्पाद्यं, तदनन्तरमपरमपरं यावन्माला भूतेति ॥ ११ ॥

अल्पदेशायाश्च त्वचो दशनद्वयसंदंशजा बिन्दुसिद्धिः ॥ १२ ॥

अल्पदेशाया इति। स्थानापेक्षया, तत्र गले मुद्गमात्राया, अधरे तिलमात्रायास्त्वचः, दशनद्वयसंदंशजेति। उत्तरेणाधरेण च दशनाग्रेण त्वचमाकृष्य संदंशः खण्डनं तस्माज्जात इत्यर्थः, बिन्दुसिद्धिरिति। बिन्दुः स्वल्पदेशखण्डनात्, सिद्धिरित्युत्तरैश्चतुर्भिर्दशनैरल्पदेशायास्त्वचो युगपत्संदंशजेत्यर्थः ॥ १२ ॥

सर्वैर्बिन्दुमालाश्च ॥ १३ ॥

बिन्दुमाला, तदाकारत्वात् ॥ १३ ॥

तस्मान्मालाद्वयमपि गलकक्षवङ्गणप्रदेशेषु ॥ १४ ॥

तस्मान्मालाद्वयमपीति। मणिमाला बिन्दुमाला च, गलकक्षवङ्गणप्रदेशेषु श्लथत्वक्त्वादेषाम् ॥ १४ ॥

ललाटे चोर्वोर्बिन्दुमाला ॥ १५ ॥

ललाटे चोर्वोरिति। तत्राप्यूर्वोस्तिलपङ्क्तिरिव स्थिता स्यान्न तिर्यक्परिमण्डलमिवेति, सृक्वभागयोर्विच्छेदेऽपि परिमण्डलमिव लक्ष्यते ॥ १५ ॥

मण्डलमिव विषमकूटकयुक्तं खण्डाभ्रकं स्तनपृष्ठ एव ॥१६॥

विषमकूटकयुक्तमिति। विषमैः पृथुमध्यसूक्ष्मैर्दशनपदैः समन्ततो युक्तं खण्डाभ्रकं तत्सादृश्यात्, स्तनपृष्ठे सौकर्याच्छोभित्वाच्च, पुरुषस्य वक्षसीत्यर्थादवगन्तव्यं, तच्च कण्ठोपग्रहेण निष्पाद्यम् ॥१६॥

संहताः प्रदीर्घा बह्व्यो दशनपदराजयस्तासामन्तराला वराहचर्वितकं स्तनपृष्ठ एव ॥ १७ ॥

संहता इति। स्तनपृष्ठस्यैकतो भागात्स्वल्पदेशां त्वचं दशनसंदंशेन चर्वयेद्, यावदपरं भागमित्यनेन क्रमेणोपर्य्युपरि चर्वणान्निरन्तराः प्रदीर्घा बह्व्यश्चतस्रः षड् वा दशनपदपङ्क्तयो निष्पाद्याः, तासांचान्तरालाणि संमूर्च्छितरक्तत्वात्ताम्राणि भवन्ति, अतो वराहस्येव चर्वणाद्वराहचर्वितकं, स्तनपृष्ठ एव बहुलमांसत्वात् ॥ १७ ॥