सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३१

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३१

मित्यपरा संज्ञा । ८दशनवसनाङ्गराग इति । रागशब्दः प्रत्येकं योज्यते, तत्राङ्गरागोऽङ्गमार्थिः कुङ्कुमादिना, रञ्जनविधिरिति वक्तव्ये दशनादिग्रहणमादरार्थं; विलासिनीनां दशनादिसंस्कारस्यात्यन्ताभीष्टत्वाद् इति । ९मणिभूमिकाकर्मेति । मणिभूमिका कृतकुट्टिमा भूमिः, ग्रीष्मे शयनापानकार्थं तस्या मरकतादिभेदेन करणम् । १०शयनरचनमिति । शयनीयस्य कालापेक्षया रक्तविरक्तमध्यस्थाभिप्रायादाहारपरिणतिवशाच्च रचनम् । ११उदकवाद्यमिति । उदके मुरजादिवद्वाद्यम् १२उदकाघात इति । हस्तयन्त्रमुक्तैरुदकैस्ताडनं; तदुभयं जलक्रीडाऽङ्गम् १३चित्राश्च योगा इति । नानाप्रकारदौर्भाग्यैकेन्द्रियपलीतीकरणादयः, ईर्ष्या पराभिसन्धानार्थाः; तानौपनिषदिके वक्ष्यति, एते च कौचुमारयोगेषु नान्तर्भवन्तीति पृथगुक्ताः कुचुमारेण तेषामनुक्तत्वात्। १४माल्यग्रथनविकल्पा इति। माल्यानां पुष्पमालाऽऽदीनां देवतापूजनार्थानां नेपथ्यार्थानां ग्रथनविकल्पाः। १५शेखरकापीडयोजनमिति । ग्रथनविकल्प एवार्थः किं तु योजनं कलाऽन्तरं, तत्र शेखरस्य शिखास्थानेऽवलम्बनन्यासेन परिधापनाद्, आपीडस्य च मण्डलाकारेण ग्रथितस्य काष्ठिकायोगेन परिधापनाद् नानावर्णैः पुष्पैर्विरचनं योजनम्, पुनर्वीरचनवचनमादरार्थम्, तदुभयं नागरकस्य प्रधानं नेपथ्याङ्गम् । १६नेपथ्यप्रयोगा इति । देशकालापेक्षया वस्त्रमाल्याभरणादिभिः शोभाऽर्थं शरीरस्थ मण्डनाकाराः १७कर्णपत्रभङ्गा इति । दन्तशङ्खादिभिः कर्णपत्रविशेषा नेपथ्यार्थाः । १८गन्धयुक्तिरिति । स्वशास्त्रविहितप्रपञ्चा प्रतीतप्रयोजनैव । १९भूषणयोजनमिति । अलङ्कारयोगः; स द्विविधः-संयोज्योऽसंयोज्यश्च तत्र संयोज्यस्य कण्ठिकेन्द्रच्छन्दादेर्मणिमुक्ताप्रवालादिभिर्योजनम्, असंयोज्यस्य कटककुण्डलादेर्विरचनं योजनम्, तदुभयं नेपथ्याङ्गं न तु शरीरे भूषणयोजनं तस्य नेपथ्यप्रयोगा इत्यनेनैव सिद्धत्वात् । २०ऐन्द्रजाला इति । इन्द्रजालादिशास्त्रप्रभवा योगाः सैन्यदेवालयादिदर्शनादहंभावविस्मापनार्थाः । २१कौचुमारा इति । कुचुमारस्यैते सुभगकरणादयः, उपायान्तरासिद्धसाधनार्थाः । २२हस्तलाघवमिति । सर्वकर्मसु लघुहस्तता कालातिपातनिरासार्थं द्रव्यहानिषु वा लाघवं क्रीडाऽर्थं विस्मापनार्थं च । २३विचित्रशाकयूषभक्ष्यविकारक्रिया २४पानकरसरागासवयोजनमिति । चतुर्विध आहारः-भोज्यं भक्ष्यं लेह्यं पेयमिति, तत्र भोज्यम्-भक्तव्यञ्जनादि; तत्र व्यञ्जनरन्धनं प्रायशो न सुज्ञानमिति व्यञ्नाग्रथस्य शाकस्योपादानेन दर्शयति, तत्र शाकं दशविधम्, यथोक्तम्-

३२ सटीक कामसूत्रे [ १ अधिकरणे,

'मूलपत्रकरीराग्रफलकाण्डप्ररूढकम् ।
त्वक्पुष्पं कण्टकं चेति शाकं दशविधं स्मृतम्' ॥

भक्ष्यं खण्डखाद्यादि, पेयं द्विविधम्-अग्निनिष्पाद्यमितरच्च, तत्र पूर्वं यूषाख्यं; तच्च द्विविधम्-मुद्गादिनिर्यूहकृतं मांसनिर्यूहकृतं च, एवं नानाप्रकाराणां क्रिया पाकविधानेन निष्पादनं, यदनग्निनिष्पादनं पेयं तद् द्विविधम्-सन्धानकृतमितरच्च, तत्राद्यं-द्रावितमद्रावितं च; तत्र यद् गुडतिन्तिडिकाऽऽदि जलेन संयोज्य क्रियते तद् द्रावितं पानकाख्यम्, यद् द्रावकौषधेन तालमोचाफलानि संयोज्य निष्पाद्यते तदद्रावितं रसाख्यम्, आसवग्रहणेन सन्धानमुपलक्षयति; तन्मृदुमध्यतीक्ष्णसन्धानयोजनात्तथाविधमेव निष्पाद्यते, रागग्रहणं लेह्यं सूचयति, तस्य त्रैविध्यात् , तथा चोक्तम्—

'रागो रागविधानज्ञैर्लेह्यश्चूर्णो द्रवः स्मृतः ।
लवणाम्लकटुस्वाद ईषन्मधुरसंयुतः' ॥ इति,

एतच्चतुर्विधमास्वाद्यकलायां प्रपञ्चितं शरीरस्थित्यर्थं, योगविभागोऽग्निजानग्निजकर्मदर्शनार्थः, तत्र पाकेन शाकादिक्रिया, विना पाकेन पानकादियोजनम् अन्यथा ह्यास्वाद्यविधिरित्युक्तं स्यात् तस्मात्कर्मभेदादास्वाद्यविधानं द्विविधं तद्वशादेकाऽपि कला द्विधाकृत्योक्ता । २५सूचीवानकर्माणीति । सूच्या यत्सन्धानकरणं तत्सूचीवानं त्रिविधं-सीवनम्, ऊतनम्, विरचनम् , तत्राद्यं कञ्चुकादीनाम्, द्वितीयं त्रुटितवस्त्राणाम् , तृतीयं कुथास्तरणादीनाम्, इयं प्रतीतार्थैव । २६सूत्रक्रीडेति । नालिकासञ्चारनालादिसूत्राणामन्यथाऽन्यथा दर्शनं छित्त्वा दग्ध्वा च पुनरच्छित्त्वाऽदग्ध्वा दर्शनं; तच्चाङ्गुलिन्यासाद् बकुलादिदर्शनम् इत्येवंप्रकारा क्रीडाऽर्थैव । २७वीणाडमरुकवाद्यानीति । वाद्यान्तर्गतत्वेऽपि तन्त्रीवाद्यं प्रधानं तत्रापि वीणावाद्यम्, डमरुकवाद्यमावश्यकार्थम् बालोपक्रमहेतुत्वाद् दुर्विज्ञेयत्वाच्च ततो ह्यक्षराणि स्पष्टान्युच्चार्यमाणानि श्रूयन्ते । २८प्रहेलिकेति । लोकप्रतीता, क्रीडाऽर्था वादार्था च २९प्रतिमालेति । यस्या अन्त्याक्षरिकेति प्रतीतिः सा क्रीडाऽर्था वादार्था च, यथोक्तम्—

'प्रतिश्लोकं क्रमाद्यत्र सन्धायाक्षरमन्तिमम् ।
पठेतां श्लोकमन्योन्यं प्रतिमालेति सोच्यत' इति ॥

३०दुर्वाचकयोगा इति । शब्दतोऽर्थतश्च दुःखेन चोच्यत इति दुर्वाचकं तस्य प्रयोगाः क्रीडाऽर्था वादार्थाश्च, यथा काव्यादर्शे—

'दंष्ट्राऽग्रद्व्यां प्राग्यो द्राक्क्षमामम्ब्वन्तःस्थामुच्चिक्षेप ।
देवभृङ्गिक्षिद्वित्विक्स्तुत्यो युष्मान्सोऽव्यात्सप्तार्णकेतुः ॥ इति,

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३३

अस्यार्थः—दंष्ट्राऽग्रस्य ऋद्ध्या प्राक्पूर्वं द्राक्शीघ्रं क्ष्मा पृथ्वीमम्ब्वन्तःस्थां पातालस्थामुञ्चिक्षेपोत्क्षिप्तवान् , देवान्द्रुह्यन्तीति देवद्रुहोऽसुरास्तान्क्षिणोतीति देवद्रुट्‌क्षित् , हिशब्दः पादपूरणे, ऋत्विग्भिः स्तुत्यः, सर्पानत्तीति सर्पादुरुडः स केतुर्ध्वजो यस्येति । ३०पुस्तकवाचनमिति । भरतादिकाव्यानां पुस्तकस्थानां शृङ्गारादिरसापेक्षया गीतितः स्वरेण वाचनम् , अनुरागजननार्थमात्मविनोदार्थं च । ३१नाटकाऽऽख्यायिकादर्शनमिति । काव्येषु गद्यपद्येषु नाटकस्य बहुप्रपञ्चत्वाद्, आख्यायिकायाश्च प्रधानगद्यत्वाद्दर्शनं परिज्ञानमिति; आदरार्थं विशेषाभिधानं काव्यदर्शनमिति नोक्तं, तत्र नाटके दश रूपकाणि; यथोक्तम्—

'नाटकमङ्को वीथी प्रकरणमीहामृगो डिमो भाणः ।
व्यायोगसमवकारौ प्रहसनमिति नाटकविकल्पाः' ॥

३२काव्यसमस्यापूरणमिति । समस्यते संक्षिप्यत इति समस्या 'ऋहलोर्ण्यत्' ३।१।१२४ । इह सामान्यात् 'संज्ञापूर्वको विधिरनित्यः' इति वृद्धिर्न भवति, यद्वा 'कृत्यल्युटो बहुलम्' ३।३।११३ इत्यन्यप्रकृतेरपि यद् बहुलग्रहणात् काव्यस्य श्लोकस्य समस्या पाद इत्यर्थः, तस्याः पूरणं क्रीडार्थं वादार्थं च, तद्यथा—काव्यादर्शे—'आश्वासञ् जनयतिराजमुख्यमध्ये' इत्ययं पाद उद्योगपर्वणि विष्णुयाने त्रिभिः पादैः संग्रथितव्य इति समस्या दत्ता, तत्र त्रयः पादाः—

'दौत्येन द्विरदपुरं गतस्य विष्णोर्बन्धार्थं प्रतिविहितस्य धार्तराष्ट्रैः ।
रूपाणि त्रिजगति भूतिमन्ति रोषादाश्वासञ्जनयतिराजमुख्यमध्ये' ॥

इत्यादि, अत्र विष्णोर्बन्धार्थं दुर्योधनादिभिर्मन्त्रः कृतः, त्रिषु लोकेषु सर्वभूतिमन्ति रूपाणि आशु शीघ्रमासन्बभूवुः, जनस्य समागतस्य, यतीनां रामकर्णादीनां, राजमुख्यानां बाहीकप्रभृतीनां च मध्यइति; एताः प्रहेलिकाऽऽदयः षड् वचनकौशलान्तराः कला इह प्रायशउपयुज्यन्त इति संगृहीताः ३३पट्टिकावेत्रवानविकल्पा इति । वेत्रखण्डैर्ग्रथिता खट्वारूपा पट्टिका, पट्टिकाया वानविकल्पाः, खट्वायाआसनस्य च, वेत्रैर्वानविकल्पाः प्रतीतार्थाः । ३४तर्कुकर्माणीति । कुन्दकर्माण्यपद्रव्यार्थानि । ३५तक्षणमिति । वर्धकिकर्म शयनासनाद्यर्थम् । ३६वास्तुविद्येति । गृहकर्मोपयोगिनी । ३७रूप्यरत्नपरीक्षेति । रूप्यमाहतद्रव्यं दीनारादि, रत्नं वज्रमणिमुक्तादि, तेषां गुणदोषमूल्यादिभिः परीक्षा व्यवहाराङ्गम् । ३८धातुवाद इति । क्षेत्रवादः स हि मृत्प्रस्तररत्नधातूनां पातनशोधनमेलनादिज्ञानहेतुरर्थार्थः । ३९मणिरागाकरज्ञानमिति । स्फटिकमणीनां रञ्जनविज्ञानमर्थार्थं भूषणा-

५ का० सू०

३६ | सटीके कामसूत्रे | [ १ अधिकरणे,

५८वस्त्रगोपनानीति । वस्त्रेणाप्रकाश्यदेशस्य संवरणं यथा तद्द्रूयमानमपि तस्मान्नापैति, त्रुटितस्यात्रुटितस्येव परिधानम्, महतो वस्त्रस्य संवरणं नीविसंकोचादिनाऽल्पीकरणम् इति गोपनानि । ५९द्युतविशेषाइति । निर्जीवद्यूतविधानमेतद्, यत्र ये प्राप्त्यादिभिः पञ्चदशभिरङ्गैर्मुष्टिशुल्कादयो द्यूतविशेषाः प्रतीतात्थः । ६०आकर्षकीडेति । पाशकक्रीडा, द्यूतविशेषत्वेऽपि पुनर्वचनमत्रादरार्थम्, सशृङ्गारत्वाद् दुर्विज्ञेयत्वाद्वा, अक्षहृदयापरिज्ञाने हि नलयुधिष्ठिरयोरपि पराजयात् । ६१बालक्रीडनकानीति । गृहकन्दुकपुत्रिकाऽऽदिभिर्यानि बालानां क्रीडनानि तानि बालोपक्रमार्थानि, एता एकषष्टिकला उक्ताः । ६२वैनयिकीनामिति । स्वपरविनयप्रयोजनाद्वैनयिक्यो विनयाऽऽचारशास्त्राणि, हस्त्यादिशिक्षा च । ६३वैजयिकीनामिति । विजयप्रयोजना वैजयिक्यः, दैव्यो मानुष्यश्च तत्र दैव्योऽपराजितादयो, मानुष्यो याः साङ्ग्रामिक्यः शस्त्रविद्याः । ६४व्यायामिकीनामिति । व्यायामप्रयोजना व्यायामिक्योमृगयाऽऽद्याः, एतास्तिस्र आत्मोत्कर्षरक्षणार्थाः, जीवनार्थाः, इति चतुःषष्टिरङ्गविद्याः कामसूत्रस्यावयवयोगिन्योऽवयवभूता, तदभावे कामसूत्रस्याप्रवृत्तेः ॥ १६ ॥

पाञ्चालिकी च चतुःषष्टिरपरा ॥ १७ ॥

पाञ्चालिकी चेति । पञ्चालप्रभवा तत्प्रोक्तत्वाद्वा, चतुःषष्टिरङ्गविद्याः तद्भावे हि तस्याः प्रवृत्तेः ॥ १७ ॥

तस्याः प्रयोगानन्ववेत्य सांप्रयोगिके वक्ष्यामः ॥ १८ ॥

तस्या इति । पाञ्चालिक्याः, अन्ववेक्ष्य यथायथं विषयमनुसृत्य, सांप्रयोगिकेऽधिकरणे प्रयोगान् वक्ष्यामः ॥ १८ ॥

कामस्य तदात्मकत्वात् ॥ १९ ॥

कामस्य तदात्मकत्वादिति । चतुःषष्टिस्वभावत्वात्, पूर्वस्यास्तु चतुःषष्टेस्तन्त्रान्तरे दृष्टप्रयोगत्वाद्, इह तदङ्गताप्रतिपत्त्यर्थमुद्देशमात्रमुक्तम् ॥ १९ ॥

कलाग्रहणे फलमाह —

आभिरभ्युच्छ्रिता वेश्या शीलरूपगुणान्विता ।
लभते गणिकाशब्दं स्थानं च जनसंसदि ॥ २० ॥

आभिरिति । कलाभिरभ्युच्छ्रिता जातोत्कर्षा, वेश्येति प्रायशो ग्रहणमस्या इति दर्शनार्थं शीलं सुस्वभावः, रूपं संस्थानं वर्णश्च, गुणानायिकाया वैशिके वक्ष्यमाणाः, गणिकाशब्दमिति, वेश्येतिसामान्य-

३ अध्याये ] विद्यासमुद्देशप्रकरणम् । ३७

शब्दवाच्याऽपि विशिष्टं गणिकाऽभिधानं लभत इत्यर्थः, एवंलक्षण-
त्वाद्गणिकायाः, स्थानं च जनसंसदीति । जनसभायामासनभूमिं लभते,
न वेश्येत्यवगण्यते ॥ २० ॥

पूजिता सा सदा राज्ञा गुणवद्भिश्श्च संस्तुता ।
प्रार्थनीयाऽभिगम्या च लक्ष्यभूता च जायते ॥ २१ ॥

राज्ञा पूजितां क्षेत्रागारादिदानेन, गुणवद्भिः संस्तुता 'असा-
धारणमस्याः कलाकौशलमिति' प्रशंसिता, प्रार्थनीया कलोपदेशार्थिनाम,-
भिगमनार्हा विदग्धानां रतार्थिनां, लक्ष्यभूता निदर्शनभूता देवदत्तावत्॥२१॥

योगज्ञा राजपुत्री च महामात्रसुता तथा ।
सहस्रान्तःपुरमपि स्ववशे कुरुते पतिम् ॥ २२ ॥

योगज्ञा=गीतादिप्रयोगज्ञा, सहस्रान्तःपुरमिवि प्रभूतदारोपलक्षणम्।
स्ववशे=आत्मनो वशे ॥ २२ ॥

तथा पतिवियोगे च व्यसनं दारुणं गता ।
देशान्तरेऽपि विद्याभिः सा सुखेनैव जीवति ॥ २३ ॥

तथा पतिवियोगे पत्यौ प्रोषिते, तथा व्यसनं दारुणं वैधव्यलक्षणं-
गता, निर्वेदात्यक्तस्वदेशा; अन्यस्मिन्नपि देशे सुखेनैव जीवति, विद्योप-
देशदानात् ॥ २३ ॥

पुरुषमधिकृत्याह—

नरः कलासु कुशलो वाचालश्चाटुकारकः ।
असंस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति ॥ २४ ॥

नर इति । वाचाल इति कलासंबन्धद्वारेणैव बहुभाषी नान्यथा, मा-
भूवनागरकत्वप्रसङ्ग इति । चाटुकारकः=प्रियस्य कर्ता, कलाग्रहणेन हि
तत्संस्कारवत्त्वाद् असंस्तुतोऽप्यपरिचितोऽपि चित्तं विन्दति गृह्णाति,
आश्वेव न कालमपेक्षते ॥ २४ ॥

कलानां ग्रहणादेव सौभाग्यमुपजायते ।
देशकालौ त्ववेक्ष्यासां प्रयोगः सम्भवेन्न वा ॥ २५ ॥

इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिक[रणे] वि-
द्यासमुद्देशस्तृतीयोऽध्यायः, तृतीयं प्रकरणं [समाप्तम्]॥

ग्रहणादेवाभिजायते संप्रयोगात्स्त्रीपुंसयोः सौभ[ाग्यम्]... ऽनर्थ-
प्रतीघातः कामो यशश्चेत्यर्थोक्तं, तत्रापि देशकाला[पेक्षित्वे] ना-