कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
३ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२१
३ अध्याये ] अर्थानर्थानुबन्धसंशयविचारप्रकरणम् । ३२१
उत्सृजन्त्या इति। कामुकेभ्योऽङ्गानि दत्त्वाऽर्थार्जनं वेश्याया धर्मः, तथा हि–"यथास्वं वृत्तिर्धर्मः" इत्याचार्याः, तत्रार्थमलभमानाया निष्पी-डितार्थस्योत्सर्जनमपि किं धर्मो न वेति संशयः ॥ २१ ॥
अभिप्रेतमनुपलभ्य परिचारकमन्यं वा क्षुद्रं गत्वा कामः स्यान्न वेति कामसंशयः ॥ २२ ॥
अभिप्रेतमत्र रुचिरं नायकं परिचारकमात्मीयमन्यं वा क्षुद्रं निकृष्टं-गत्वा तयोरनभिप्रेतत्वादज्ञातकामत्वाच्च कामः स्याद्वा न वेति सं-शयः ॥ २२ ॥
प्रभाववान् क्षुद्रोऽनभिमतोऽनर्थं करिष्यति न वेत्यनर्थसंशयः॥२३॥
अनभिमत इति। अभिगन्तुमिच्छन् क्षुद्रत्वात्प्रत्याख्यातः, स हि राज-कुले लब्धप्रभावत्वादनर्थं करिष्यति न वेति संशयः ॥ २३ ॥
अत्यन्तनिष्फलः सक्तः परित्यक्तः पितृलोकं यायात्तत्राधर्मः स्यान्न वेत्यधर्मसंशयः ॥ २४ ॥
सक्त इति। अनुरक्तोऽभिगन्तुमिच्छन् परित्यक्तो निष्फलत्वात्, पितृलोकं यायादिति। अवस्थाऽन्तरप्राप्तौ यमलोकं यायादिति सम्भा-व्यते, तत्रेति। परित्यागेऽधर्मः स्यान्न वेति संशयः ॥ २४ ॥
रागस्यापि विवक्षायामभिप्रेतमनुपलभ्य विरागः स्यान्न वेति द्वेषसंशय इति शुद्धसंशयाः ॥ २५ ॥
रागस्याऽपि विवक्षायामिति। कामो न भविष्यतीति न विवक्षितं-रागेण पीड्यमानत्वाद्, अभिप्रेतोऽपि नास्ति यमाश्रित्य स्यादित्याह—अभिप्रेतमनुपलभ्येति। केवलमेव वर्तमानाया विद्वेषः स्यान्न वेति संश-यः, शुद्धसंशया इति। एकस्यैव भावाभावाभ्यां संशय्यमानत्वाद् ॥२५॥
अथ संकीर्णाः ॥ २६ ॥
अथेति। आनन्तर्ये, संकीर्णा निर्दिश्यन्ते, शुद्धानन्तरं हि संकीर्ण-स्योद्दिष्टत्वाद्, इदं वा स्यादिदं वेति संकीर्ण इति ॥ २६ ॥
स च विरुद्धाविरुद्धाभ्यां; तत्र पूर्वमधिकृत्याह—
आगन्तोरविदितशीलस्य वल्लभसंश्रयस्य प्रभविष्णोर्वा स-मुपस्थितस्याराधनमर्थोऽनर्थ इति संशयः ॥ २७ ॥
आगन्तोरिति। कुतश्चिदागतस्याभिगमनेऽविदितशीलत्वादर्थोऽनर्थो-वेति संशयः, तस्य चार्थितया समुपस्थितत्वादर्थः, वल्लभसंश्रयत्वात्प्र-भविष्णुत्वाद्वाऽनर्थ इति कारणद्वयसंनिधानात्संशयः ॥ २७ ॥
श्रोत्रियस्य ब्रह्मचारिणो दीक्षितस्य व्रतिनो लिङ्गिनो वा मां-
४१ का० सू०
३२२ सटीक कामसूत्रे [ ६ अधिकरणे,
दृष्ट्वा जातरागस्य मुमूर्षोर्मित्रवाक्यादानृशंस्याच्च गमनं धर्मोऽधर्म-
इति संशयः ॥ २८ ॥
श्रोत्रियस्येति । गृहस्थस्यापि क्रियावतः, ब्रह्मचारिण इति । प्रथमाश्रमस्य, दीक्षितस्य व्रतिन इति । श्रितव्रतस्य कियन्तं कालं गृहीतपशुकादिव्रतस्य, लिङ्गिन इति । भौतादेशवतः, मुमूर्षोरिति । मर्तुमिच्छोः कामस्यावस्थाऽन्तरप्राप्तत्वाद्, मित्रवाक्यादिति । श्रोत्रियादीनां मित्रस्याभ्यर्थनावचनादानृशंस्याच्च करुणयाऽभिगमने, धर्मोऽधर्म इति । मा भूत्प्राणत्याग इति धर्मः, नियमभ्रंशः कृत इत्यधर्मः, तदुभयमपि कस्मान्न भवतीति चेत्, न, अन्यतरस्य बलीयस उत्पादनात् ॥ २८ ॥
लोकादेवाकृतप्रत्ययादगुणो गुणवान्वेत्यनवेक्ष्य गमनं कामो-
द्वेष इति संशयः ॥ २९ ॥
अकृतप्रत्ययादिति । अकृतनिश्चयाल्लोकात्, किमयं गुणवान् वेति, स्वयमनवेक्ष्यानिश्चित्य केवलं लोकप्रवादाद् गुणवानित्यभिगमनादभिसरणे किं कामो द्वेषो वेति विरुद्धसंकीर्णसंशयः ॥ २९ ॥
अविरुद्धमधिकृत्याह—
संकिरेच्च परस्परेणेति संकीर्णसंशयाः ॥ ३० ॥
संकिरेच्चेति । तत्रार्थो धर्माधर्मकामद्वेषैश्चतुर्भिः प्रत्येकं विकल्पितश्चतुर्विधः, तथाऽनर्थोऽपि, धर्मोऽर्थानर्थकामद्वेषैर्विकल्पितश्चतुर्विधः, तथा द्वेषोऽपि, विरुद्धसंकीर्णाश्चतुर्विंशतिः पूर्वैः सह सप्तविंशतिरित्युक्ताः संकीर्णसंशयाः ॥ ३० ॥
उभयतो योगमधिकृत्याह—
यत्र परस्याभिगमनेऽर्थः सक्ताच्च संघर्षतः स उभयतोऽर्थः ॥ ३१ ॥
अत्रेति । यस्मिन्नुभयतो योगे, परस्येति । अपूर्वस्य, उत्तरत्राप्यधिकृतं वेदितव्यम्, अभिगमनेऽर्थः । परस्मादेव, सक्ताच्चेति । अनुरक्तात्, सङ्घर्षत इति । स्पर्धमानादर्थः, स मा भूदनेनास्याः संप्रयोग इति स्पर्धया ददाति, स इति । उभयतो योग उभयतोऽर्थनामा, अन्यत्र यस्मिन् परस्मिन् सक्ते चेदभिगमनं तदेकमेवार्थसाधककार्यं न विजातीयमन्यदस्ति, उभयस्माच्च सकाशात् फलद्वयं प्रत्युपस्थितं तेनैकस्मिन् क्रियमाणे कार्यद्वयस्योत्पत्तिरुभयतो योग इति मूलसूत्रार्थो योज्यः ॥ ३१ ॥
यत्र स्वेन व्ययेन निष्फलमभिगमनं सक्ताच्चामर्षिताद्वित्तप्र-
त्यादानं स दूभयतोऽनर्थः ॥ ३२ ॥
यस्मिन्नुभयतो योगे स्वेन व्ययेनाभिगमनम्, परस्येति वर्तते, नि-