सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

१ अध्याये ] शास्त्रसङ्ग्रहप्रकरणम् । ३

१ अध्याये ] शास्त्रसङ्ग्रहप्रकरणम् । ३

अन्यदेवतासद्भावेऽपि किमिति तेभ्यो नम इत्याह—

शास्त्रे प्रकृतत्वात् ॥ २ ॥

'अधिकृतानधिकृतयोरधिकृते प्रतिपत्तिर्बलीयसी'ति न्यायात् । यथा च पुरुषार्थत्वेन कामोऽस्मिञ्शास्त्रेऽधिकृतस्तथा तद्द्वारेण धर्मार्थावपि, एतदुपदिष्टोपायपूर्वकं प्रवर्तमानस्य त्रिवर्गसिद्धेः, तथा च वक्ष्यति—"अन्योन्यानुबद्धं त्रिवर्गं सेवेत(१)", अधि. १ । अ. २ । प्र. २ । सू. १ । तथा, "सवर्णायामनन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्राः संबन्धः पक्षवृद्धिरनुपस्कृता रतिश्च" अधि. ३ । अ. १ । प्र० १। सू. १ । इति । तेषां चाधिकारात्तदधिष्ठात्र्योऽपि देवता अधिकृताः, उपचारात्तच्छब्दवाच्याः, अन्यथा धर्मादीनां वक्ष्यमाणलक्षणानामदेवताऽऽत्मकत्वान्नमस्कारो नोपपद्येत, अधिष्ठातृदेवताऽस्तित्वं चागमात्, तथा हि—'पुरूरवाः शक्रदर्शनार्थमितः स्वर्गं गतो मूर्तिमतो धर्मादीन्दृष्ट्वोपगम्य धर्ममेवेतरावेवानादृत्य प्रदक्षिणीचकार, ततोऽसौ ताभ्यां तिरस्कारामर्षिताभ्यामभिशप्तः, ततोऽस्य कामाभिशापादूर्वशीविरहोत्पत्तिरभूत्, तस्यां च कथं चिदुपशान्तायामर्थाभिशापादतिवृद्धलोभश्चातुर्वर्ण्यस्यार्थमशेषमाहृतवान्, ततोऽर्थापहाराद्यज्ञादिक्रियाविरहोद्विग्नैर्ब्राह्मणैर्दर्भपाणिभिर्हतो ननाशे' त्यैतिहासिकाः ॥ २ ॥

तत्समयावबोधकेभ्यश्चाचार्येभ्यः ॥ ३ ॥

तेषां धर्मादीनां समयस्तत्त्वम्, अवबोधयन्तीत्यवबोधकाः, तत्समयावबोधका इति षष्ठीसमासप्रतिषेधस्यानित्यत्वं(२), 'तत्प्रयोजको हेतुश्च' पा. १ । ४ । ५५ । इति निदर्शनाद्, ये तत्समयं प्रतिपादयितुं तच्छास्त्रं प्रणीतवन्तस्तेभ्यो नमः, नान्येभ्यइत्यर्थः ॥ ३ ॥

कुत इत्यत आह—

तत्संबन्धात् ॥ ४ ॥

तेषामिह शास्त्रे सम्बन्धादित्यर्थः । तत्प्रणीतशास्त्रसंक्षेपेण हि शास्त्रस्य प्रणयनात् ॥ ४ ॥

'प्रजापतिर्हि इत्यादिनाऽऽगमविशुद्ध्यर्थं गुरुपूर्वकंमलक्षणं स-


(१) सूत्रैकदेशोऽयम् । "शतायुर्वै पुरुषो विभज्य कालमन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत अधि० १ । अ० २ । प्र० २ । सू० १ इत्यस्य ।
(२) चिन्त्यमेतद्, वस्तुतस्तु शास्त्रानित्यत्वकल्पनाऽपेक्षयेदृशस्थले शेषषष्ठीसमासो-

४ | सटीक कामसूत्र | [ १ अधिकरण,

सम्बन्धमाह—

प्रजापतिर्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधनमध्यायानां शतसहस्रेणाग्रे प्रोवाच ॥ ५ ॥

प्रजापतिर्हीति । हिशब्दो यस्मादित्यर्थे । अविपरीतोऽयमागमो गुरुपरम्परयाऽन्वाख्यायते यतः स्थितिनिबन्धनमिति । प्रजानां तिस्रोऽवस्थाः सर्गस्थितिप्रलयलक्षणाः, तत्र सर्गादूर्ध्वं प्रबन्धेनावस्थानं स्थितिः, सा हि द्विविधा, शुभा, चाशुभा च, त्रिवर्गोऽपि द्विविधः, उपादेयोऽनुपादेयश्च, तत्र पूर्वो धर्मोऽर्थः काम इति, द्वितीयोऽप्यधर्मोऽनर्थो द्वेष इति, तत्र धर्मादमुत्र शुभा गतिः, अधर्मादशुभा, अर्थादिहैव शरीरपरिभोगो धर्मप्रवर्तनं च, अनर्थात्क्लिष्टजीवनम् अधर्मप्रवर्तनं च, कामात्सुखं, प्रजोत्पत्तिश्च, द्वेषान्नोभयं तस्य च निःसुखस्याप्रजस्य तृणस्येव स्थितिः, इत्येवं स्थितेस्त्रिवर्गो निबन्धनम् , तस्योपेयानुपेयस्य प्राप्तिपरिहारौ नोपायं विनेति तदुपायशासनत्वाच्छास्त्रमप्युपचारात्स्थितिनिबन्धनम् । शतसहस्रेणेति । लक्षेण । अग्रे प्रोवाचेति । तदानीं शास्त्रान्तराभावादिदमेवाग्रथमिति । श्रुतिरपि सर्वजनविषयेति तामेव हृदि स्थितामनुसंचिन्त्य साधारणभूतं स्मार्तशास्त्रं प्रकर्षेणोवाच ॥ ५ ॥

तस्यैकदेशं स्वायंभुवो मनुर्धर्माधिकारिकं पृथक्चकार ॥ ६ ॥

तस्येति । प्रजापतिप्रोक्तस्यैकदेशास्त्रयः, तत्र यत्र धर्मोऽधिकृतस्तन्मनुः पृथक्चकार यत्रार्थस्तं बृहस्पतिः, यत्र कामस्तन्नन्दीति, “स्वायंभुव” इति वैवस्वत(१)निवृत्त्यर्थम् । धर्माधिकारिकमिति । धर्मप्रस्तावो यत्रास्ति तद् धर्मशास्त्रमित्यर्थः ॥ ६ ॥

बृहस्पतिरर्थाधिकारिकम् ॥ ७ ॥

अर्थाधिकारिकमिति । अर्थशास्त्रं चकारेत्यर्थः । द्वयोरप्यनयोरप्रस्तुतत्वान्नाध्यायसंख्या दर्शिता ॥ ७ ॥

महादेवानुचरश्च नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं प्रोवाच ॥८॥

महादेवेति । महादेवस्य पश्चाच्चरति यः, नान्योऽयं नन्दिनामा कश्चित्, तथा हि श्रूयते—“दिव्यं वर्षसहस्रमुमया सह सुरतसुखमनुभवति महादेवे वासगृहद्वारगतो नन्दी कामसूत्रं प्रोवाचे” ति । अत्राध्यायसंख्यानमुक्तं शास्त्रस्य प्रस्तुतत्वात् ॥ ८ ॥


(१) तथा च वर्तमानवैवस्वतमन्वन्तराव्यवहितपूर्ववर्तिमन्वन्तरे मानवशास्त्रप्रकाशः ...

१ अध्याय ] शास्त्रसङ्ग्रहप्रकरणम् । ५

तदेव तु पञ्चभिरध्यायशतैरौद्दालकिः श्वेतकेतुः संचिक्षेप ॥ ९ ॥

तदेव त्विति । नन्दिप्रोक्तं, तस्यैकदेशम् । तुशब्दो विशेषणार्थः । औद्दालकिरित्युद्दालकस्यापत्यं यः श्वेतकेतुः, तथा हि, परदाराभिगमनं लोके प्रागासीद्, यथोच्यते—

'पकान्नमिव राजेन्द्र ! सर्वसाधारणाः स्त्रियः ।
तस्मात्तासु न कुप्येत न रज्येत रमेत च' ॥ इति ।

इयमौद्दालकिना व्यवस्था निवर्तिता, तथा चोक्तम्—

'मद्यपानान्निवृत्तिश्च ब्राह्मणानां गुरोः सुतात् ।
परस्त्रीभ्यश्च लोकानामृषेरौद्दालकेरपि ॥
ततः पितुरनुज्ञानाद्गम्यागम्यव्यवस्थया ।
श्वेतकेतुस्तपोनिष्ठः सुखं शास्त्रं निबद्धवान्' ॥ इति ॥ ९ ॥

तदेव तु पुनरध्यर्धेनाध्यायशतेन साधारणसांप्रयोगिककन्या-
संप्रयुक्तकभार्याऽधिकारिकपारदारिकवैशिकोपनिषदिकैः सप्तभिर-
धिकरणैर्बाभ्रव्यः पाञ्चालः संचिक्षेप ॥ १० ॥

तदेव त्विति । यदेवौद्दालकिना संक्षिप्तम् ; पुनरर्थतो ग्रन्थतश्च सं-
चिक्षेप, पूर्वत्र परदाराभिगमनं सामान्येन प्रतिषिद्धम् , इह तु विशेषेणे-
त्येवं पारदारिकमत्रोक्तम् , अध्यर्धेन पञ्चाशदधिकेनाध्यायशतेन, तत्रो-
त्तरेषामधिकरणानामस्य साधारणत्वात्साधारणम् , संप्रयोगः प्रयोजन-
मस्येति सांप्रयोगिकम् , कन्यायाः संप्रयुक्तं संप्रयोगो यस्मिन्निति क-
न्यासंप्रयुक्तकम् , भार्याऽधिकारिणी यस्मिन्नस्तीति भार्याऽधिकारि-
कम् , तथा पारदारिकम् , वेशो वेश्यावृत्तं तत्प्रयोजनमस्येति वैशि-
कम् , तथौपनिषदिकम् , उपनिषद्रहस्यं साधारणाद्युपादानं शास्त्रशरी-
रख्यापनार्थम् , एतावन्तोऽर्थाः शास्त्र इति । आचार्योऽपि तथैव स्वशा-
स्रमतः संचिक्षेप । सप्तभिरिति नियमार्थम् । अधिक्रियन्ते प्रकरणार्था-
येष्वित्यधिकरणानि, बाभ्रव्यो बभ्रोरपत्यं यः पाञ्चालः । 'मधुबभ्वोः—, ।
४ । १ । १०६ इति यञ् ॥ १० ॥

तस्य षष्ठं वैशिकमधिकरणं पाटलिपुत्रिकाणां गणिकानां नि-
योगाद्दत्तकः पृथक्चकार ॥ ११ ॥

तस्येति । बाभ्रव्यसंक्षिप्तस्य । षष्ठमितीयमेवानुपूर्वी नान्येति प्र-
दर्शनार्थम् अन्यथा पाठादेव संख्या लब्धा, तां चानुपूर्वी वर्णयिष्या-


(१) मध्वबभ्रोर्ब्राह्मणकौशिकयोः । ४ । १ । १०६ ।

६ सटीक कामसूत्र [ १ अधिकरण,

मः। पाटलिपुत्रिकाणामिति। मगधेषु पाटलिपुत्रं माम नगरं, तत्र भवा इति। 'रोपधेतोः प्राचाम्' । ४ । २ । १०६ । इति वुञ् । नियोगादिति। अन्यतमो माथुरो ब्राह्मणः पाटलिपुत्रे वसतिं चकार, तस्योत्तरे वयसि पुत्रो जातः, तस्य जातमात्रस्य माता मृता, पिताऽपि तत्रान्यस्यै तं पुत्रत्वेन दत्त्वा कालेन लोकान्तरं गतः, ब्राह्मण्यपि ममायं दत्तः पुत्र इत्यनुगतार्थमेव नाम चक्रे स च तया संवर्धितोऽचिरेणैव कालेन सर्वा विद्याः कलाश्चाधीतवान् व्याख्यानशीलत्वादत्तकाचार्य इति प्रतीतिमुपागतः, एकदा च तस्य चेतस्येवमभवत्, लोकयात्रा परा ज्ञेयाऽस्ति, सा प्रायशो वेश्यासु स्थितेति ततो वेश्याजनं परिचयपूर्वकं प्रत्यहमुपागम्य तथा तामधिविवेद यथा स एवोपदेशस्य ग्रहणायास्य प्रार्थनीयोऽभूत्, ततोऽसौ वीरसेनाप्रमुखेण गणिकाजनेनाभिहितः, "अस्माकं पुरुषरञ्जनमुपदिश्यतामिति" तन्नियोगात्पृथक्चकारेत्ययमाम्नायः। अन्यस्तु शास्त्राभिगमयुक्तां युक्तिमाह- यत्र गर्भयात्रायां दत्तकनामा तत्पदावधूतेन प्रतिशयितेन त्र्यक्षेण शप्तः स्त्री बभूव, पुनश्च कालेन लब्धवरः पुरुषोऽभूत्, तेनोभयरसज्ञेन पृथक्कृतमिति, यदि बाभ्रव्योक्तमेव पृथक्कृतं किम पूर्वं स्वसूत्रेषु दर्शितं येनोभयरसज्ञता कल्प्यते, यदि चायमर्थः शास्त्रकृतोऽप्यभिमतः स्यात्तदानीं 'नियोगादुभयरसज्ञो दत्तकः' इत्येवमसिद्ध्यत् ॥ ११ ॥

तत्प्रसङ्गाच्चारायणः साधारणमधिकरणं पृथक्प्रोवाच ॥१२॥
सुवर्णनाभः सांप्रयोगिकम् ॥ १३ ॥ घोटकमुखः कन्यासंप्रयुक्तकम् ॥ १४ ॥ गोनर्दीयो भार्याऽधिकारिकम् ॥ १५ ॥ गोणिकापुत्रः पारदारिकम् ॥ १६ ॥ कुचुमार औपनिषदिकम् ॥ १७ ॥

दत्तकेन वैशिकं पृथक्कृतमित्येतत्प्रसङ्गाच्चारायणादयोऽपि पृथक्प्रकर्षेणोचुः, प्रकर्षश्च यत्तेषु स्वमतप्रकाशनम्, तच्च स्थानस्थानेषु स्वशास्त्रेषु दर्शयिष्यति ॥ १२-१७ ॥

एवमित्यादिना स्वशास्त्रस्य प्रयोजनमाह-

एवं बहुभिराचार्यैस्तच्छास्त्रं खण्डशः प्रणीतमुत्सन्नकल्पमभूत् ॥१८॥

तच्छास्त्रं बाभ्रव्योक्तम्। खण्डश इति खण्डं खण्डं कृत्वोत्सन्नकल्पमीषदूत्सन्नमिव क्व चिद् दृश्यमानत्वात्। नन्द्यादिप्रणीतमुत्सन्नमेवेत्यर्थोक्तम् ॥ १८ ॥