सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

शास्त्रकार एव प्रकरणसम्बन्धमाह—

२ अध्याये ] अभियोगप्रकरणम् । २३५

विवादः ॥ १६ ॥

तया तु विवदमानोऽन्यं तद्भक्तमिति परिचयकारणानि॥ १७॥

तया त्विति । नायिकया, अन्यमिति । परिजनं, तद्भक्तमिति । नायिकापक्षपातिनं, योजयेद् नायिकाविजयस्याभिप्रेतत्वात् ॥ १७ ॥

इति परिचयकारणानि त्रयश्चत्वारिंशं प्रकरणम् ॥

शास्त्रकार एव प्रकरणसम्बन्धमाह—

कृतपरिचयां दर्शितेङ्गिताकारां कन्यामिवोपायतोऽभियुञ्जीतेति ॥ १७ ॥

कृतपरिचयामिति । कन्यामिवेति । तस्या अपि दर्शितेङ्गिताकाराया-एवाभियोग उपायत इत्युपाया अभियोगाः, अभियुज्यन्त एभिरिति कृत्वा त एवात्रापि द्रष्टव्या; ये कन्यासंप्रयुक्तकेऽभिहिताः ॥ १७ ॥

विशेषमाह—

प्रायेण तत्र सूक्ष्मा अभियोगाः कन्यानामसम्प्रयुक्तत्वात् ॥१८॥

प्रायेणेति । तत्रेति । कन्यायां, सूक्ष्मा इत्यनभिव्यक्तभावाः, असम्प्रयुक्तत्वादव्युत्पन्नत्वादित्यर्थः ॥ १८ ॥

इतरासु तानेव स्फुटमुपदध्यात् सम्प्रयुक्तत्वात् ॥ १९ ॥

इतरासु तु परस्त्रीषु, तानेव ये कन्यासूक्ताः, स्फुटमिति । क्रियाविशेषणम् , अभिव्यक्तभावं प्रयुञ्जीतेत्यर्थः, तासां संप्रयोगे प्रवृत्तत्वाद्, ये तु तास्वेव विशेषेण युज्यन्ते, ते द्विविधाः-बाह्या आभ्यन्तराश्च, ॥ १९ ॥

तत्र पूर्वानधिकृत्याह—

संदर्शिताकारायां निर्भिन्नसद्भावायां समुपभोगव्यतिकरे तदीयान्युपयुञ्जीत ॥ २० ॥

संदर्शिताकारायामिति । निर्भिन्नसद्भावायामिति । प्रकटितसद्भावायां सत्यां, समुपभोगव्यतिकरे तदीयानीति । नायिकावस्तूनि स्वयमपयुञ्ज्यात्स्वकानि च स्वमिव तामुपयोजयेत् ॥ २० ॥

तत्र महार्हगन्धमुत्तरीयं कुसुमं चात्मीयं स्यादङ्गुलीयकं च तद्धस्तात् ताम्बूलग्रहणं गोष्ठीगमनोद्यतस्य केशहस्तपुष्पयाचनम् ॥२१॥

तत्रेति । परिवर्तमाने, महार्हगन्धम् = अत्यन्तसुरभि, उत्तरीयं कुसुमं च, आत्मीयं स्यात् = स्वीकुर्यादित्यर्थः, अङ्गुलीयकं च महार्हं स्यात्, तद्धस्तान्नायकहस्ताद्यदि तया ताम्बूलं गृहीतं, गोष्ठीगमनोद्यतस्येति ।

२३६ सटीक कामसूत्रे [ ५ अधिकरणे,

कर्तरि षष्ठी, केशहस्तः = केशकलापः, तत्रत्यपुष्पयाचनं, सिद्धिकरमेतदिति ॥ २१ ॥

तत्र महार्हगन्धं स्पृहणीयं स्वनखदशनपदचिह्नितं साकारं दद्यात् ॥ २२ ॥

स्वयं तु ददन्नायको यन्महार्हगन्धं स्पृहणीयं लोकस्य, तदन्यहस्तेन यदा दद्यात्तदा स्वनखदशनपदचिह्नितं, यदा स्वहस्तेन तदा साकारं, क्रियाविशेषणमेतद्, एवं प्रकारद्वयेऽपि भावः सूचितो भवति ॥ २२ ॥

अधिकैरधिकैश्चाभियोगैः साध्वसविच्छेदनम् ॥ २३ ॥

अधिकैरधिकैः पूर्वपूर्वेभ्यः, साध्वसविच्छेदनम्, प्रायेण परयोषित्परपुरुषेषु ससाध्वसा भवति ॥ २३ ॥

आभ्यन्तरानधिकृत्याह--

क्रमेण च विविक्तदेशे गमनमालिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्यदेशाभिमर्शनं चेत्यभियोगाः ॥ २४ ॥

क्रमेण चेति । यदैकान्तेन गतसाध्वसा, तदा विविक्तदेशगमनं यस्मिन्प्रच्छन्ने देशे तिष्ठति, तत्र चालिङ्गनादयः प्रयोक्तव्याः, गुह्यदेशाभिमर्शनं = कक्षोरुमूलजघने विमर्दनम् , उत्क्षिप्तकेन ॥ २४ ॥

अभियोगस्याविषयमाह-

यत्र चैकाभियुक्ता न तत्रापरामभियुञ्जीत, तत्र या वृद्धाऽनुभूतविषया प्रियोपग्रहैश्च तामुपगृह्णीयात् ॥ २५ ॥

यत्र चेति । गृहे, परामिति । द्वितीयां नाभियुञ्जीत, परस्परकलहाद् विगोपनं स्याद्, यत्र वा गृहे वृद्धा स्त्री, अनुभूतविषया प्रवृत्तपरपुरुषसंप्रयुक्तत्वाद्, न तत्र स्त्रियमभियुञ्जीतेत्येव, प्रियोपग्रहैश्चेति । प्रियं यदा स्वसुखकारणं तदैवोपग्रहः, उपगृह्यतेऽनेनेति, उपगृह्य स्वीकृत्योपन्यस्यात् ॥ २५ ॥

श्लोकावत्र भवतः-

अन्यत्र दृष्टसंचारस्तद्भर्ता यत्र नायकः ।
न तत्र योषितं कां चित्सुप्रापामपि लङ्घयेत् ॥ २६ ॥

यत्रेति । यस्मिन्गृहे नायिकाया भर्ता, अन्यस्यां योषिति दृष्टसंचारो दृष्टाभिगमो न तत्र गृहे, सुप्रापामपि = सुलभामपि, लङ्घयेदधिगच्छेदित्यर्थः ॥ २६ ॥

३ अध्याये ] भावपरीक्षाप्रकरणम् । २३७

शङ्कितां रक्षितां भीतां सश्वश्रूकां च योषितम्।
न तर्कयेत मेधावी जानन्प्रत्ययमात्मनः॥ २७॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे परिचयकारणान्यभियोगा द्वितीयोऽध्यायः।

शङ्कितामभियोक्तरि जाताशङ्कां, रक्षितां शत्रिभिः, भीतां पत्युः, सश्वश्रूकां श्वश्रूवधिष्ठितां, न तर्कयेत = नाभिलषेद्, जानन्प्रत्ययमिति। अहमत्राशक्त इति निश्चयमधगिच्छन्॥ २७॥

इत्यभियोगाश्चतुश्चत्वारिंशं प्रकरणम्॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे परिचयकारणान्यभियोगा द्वितीयोऽध्यायः।


तृतीयोऽध्यायः।

सत्यप्यभियोगे धीराः प्रगल्भाः परीक्षिप्यो याः स्त्रियस्ता न निर्भि-न्नसद्भावास्ततश्च न तासु विशेषाभियोग इति भावपरीक्षोच्यते--

अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत तया भावः परीक्षि-तो भवति ॥ १ ॥

कन्यामिवामियुञ्जानः, प्रवृत्तिं = चेष्टां, परीक्षेत, अनया हि परीक्षि-तया भावः परीक्षितो भवति ॥ १ ॥

कथं साधयेत्याह—

मन्त्रमवृण्वानां दूत्यैनां साधयेत् ॥ २ ॥

मन्त्रमवृण्वानामिति। सांप्रयोगिकं भावमप्रकाशयन्तीं, दूत्या साध-येद् अप्रगल्भत्वात् ॥ २ ॥

अप्रतिगृह्णाभियोगं पुनरपि संसृज्यमानां द्विधाभूतमानसां वि-द्यात् तां क्रमेण साधयेत् ॥ ३ ॥

अप्रतिगृह्याभियोगं नायकेन क्रियमाणं प्रत्याख्याय, पुनरपि कियतो-दिवसान्स्थित्वा; संसृज्यमानां नायकेन संसर्गे यातां, द्विधाभूतमानसां-विद्यात्, परीक्षणीयत्वात्, किं कुर्यामहं न वेद्मीति, तां क्रमेण साधयेदु न सहसा परित्यजेत् ॥ ३ ॥

अत्र विशेषमाह—
अप्रतिगृह्णामियोगं सविशेषमलंक्रुता च पुनर्द्दश्येत तथैव त-

२३८ सटीक कामसूत्रे [ ५ अधिकरणे,

मभिगच्छेच्च विविक्ते बलाद्ग्रहणीयां विद्यात् ॥ ४ ॥

सविशेषमिति । यथा पूर्वमलंक्रियमाणा ततः सविशेषमलंकृता, पुनर्नायकेन दृश्येत, तथैव चाभिगच्छेन्नायकं, नायिकां विविक्ते स्थितां, बलाद् ग्रहणीयां = हठाद् ग्राह्यां, विद्याद् धीरत्वात् ॥ ४ ॥

बहूनपि विषहेतेऽभियोगान्न च चिरेणापि प्रयच्छत्यात्मानं सा शुष्कप्रतिग्राहिणी परिचयाद्विघटनसाध्या ॥ ५ ॥

बहूनपि विषहते ये ये क्रियन्ते, न च चिरेणापीति । बहुभिरपि दिवसैः, शुष्कप्रतिग्राहिणीति । अर्थशून्यानभियोगान्प्रतिग्रहीतुं शीलमस्याः, अतिपरोक्षणीयत्वात्, परिचयविघटनसाध्येति । परिचयापनयसाध्या ॥ ५ ॥

कथं तदपनयनात्सिध्यतीत्याह—

मनुष्यजातेश्चित्तानित्यत्वात् ॥ ६ ॥

मनुष्यजातेरिति । तद्गतोऽभिधानं, चित्तानित्यत्वादिति । मनसश्चलत्वाद्, यतो विच्छिन्ने परिचये पुनः स्वयं संघत्ते ॥ ६ ॥

अभियुक्ताऽपि परिहरति न च संसृज्यते न च प्रत्याचष्टे तस्मिन्नात्मनि च गौरवाभिमानात् साऽतिपरिचयात्कृच्छ्रसाध्या मर्मज्ञया दूत्या तां साधयेत् ॥ ७ ॥

अभियुक्ताऽपि परिहरति, अभियोगं परिहृत्यापि का चित्संसर्गं यास्यतीत्याह-न च संसृज्यत इति । तस्या आत्मन्यभिमानाद्, न च प्रत्याचष्टे, नायकमेकान्तेन, तस्मिन्नायके च गौरवाभिमानात्, साऽतिपरिचयात्कृच्छ्रेण साध्या तस्या ह्यतिधीराया अतिपरिचयेन गौरवाभिमानौ कृच्छ्रेण स्फुटतः, मर्मज्ञया वा दूत्या साध्या तद्वशत्वात् ॥ ७ ॥

तत्र विशेषमाह—

सा चेदभियुज्यमाना पारुष्येण प्रत्यादिशत्युपेक्ष्या ॥ ८ ॥

सा चेदिति । पारुष्येण प्रत्यादिशति, निष्ठुरवाक्येन नायकं प्रत्याचष्टे, उपेक्षेत नाभियुञ्जीत ॥ ८ ॥

अत्रापि विशेषमाह—

परुषयित्वाऽपि तु प्रीतियोजिनीं साधयेत् ॥ ९ ॥

परुषयित्वाऽपि त्विति । परुषमुक्त्वाऽपि, प्रीतियोजनशीलां, साधयेत्पुनरभियुञ्जीत, तस्या जातविप्रतिपत्तिसारत्वात् ॥ ९ ॥

कारणात्संस্পর্শनं सहते नावबुध्यते नाम द्विधाभूतमानसा सा-

३ अध्याये ] भावपरीक्षाप्रकरणम् । २३६

तत्येन क्षान्त्या वा साध्या ॥ १० ॥

कारणादिति। कुतश्चिन्निमित्तात्संस्पर्शनमभियोगं सहते न शुष्कप्रतिग्राहिणीत्यर्थः, नावबुध्यते नामेति। नायकाभिप्रायमजानतीव संस्पर्शनं सहते सैवम्भूता द्विधाभूतमानसा परीक्षणीयत्वात्, सातत्येन क्षान्त्या वा साध्येति। अविच्छेदेन संस्पर्शस्य क्षमणं कार्यमित्यर्थः ॥ १० ॥

समीपे शयानायाः सुप्तो नाम करमुपरि विन्यस्येत् साऽपि
सुप्ता नामोपेक्षते जाग्रती त्वपनुदेद् भूयोऽभियोगाकाङ्क्षिणी ॥ ११ ॥

समीपे शयानाया आन्तरमभियोगेन प्रवृत्तिं परीक्षेत, सुप्ता नामेति। कृतकसुप्तः करमुपरि विन्यस्येन्नायिकायाः, सुप्ता नामेति। कृतकसुप्तोपेक्षते हस्तं नापनुदति, जाग्रती त्विति। पुनर्जागरणमपदिश्यापनयति, किमर्थमित्याह-भूयोऽभियोगाकाङ्क्षिणीति। अन्यथा किं सुप्तेनैव न्यस्तः किंवाऽभियोगार्थं कृतकसुप्तेनेति सन्देहः ॥ ११ ॥

एतेन पादस्योपरि पादन्यासो व्याख्यातः ॥ १२ ॥

एतेन हस्तन्यासेन ॥ १२ ॥

तस्मिन्प्रसृते भूयः सुप्तसंश्लेषणमुपक्रमेत ॥ १३ ॥

तस्मिन्निति। हस्तन्यासे पादन्यासे च, प्रसृते निर्बन्धेन प्रवृत्ते, सुप्तसंश्लेषणमिति। कृतकसुप्ताया आलिङ्गनमेवोपक्रमेत न चुम्बनादिकम् ॥ १३ ॥

तदसहमानामुत्थितां द्वितीयेऽहनि प्रकृतिवर्तिनीमभियोगार्थिनीं-
विद्याद् अदृश्यमानां तु दूतीसाध्याम् ॥ १४ ॥

तदिति संश्लेषणम्, उत्थितां शयनात्, प्रकृतिवर्तिनीमकुपिताम्, अभियोगार्थिनीं विद्याद्, दृश्यमानां पुनरभियुञ्जीतेत्यर्थः, अस्या अप्रगल्भत्वाद्, अदृश्यमानां तु प्रकृतिवर्तिनीं दूतीसाध्यां विद्यात्, तद्विषयत्वात् ॥ १४ ॥

चिरमदृष्टाऽपि प्रकृतिस्थैव संसृज्यते कृतलक्षणां तां दर्शिता-
कारामुपक्रमेत ॥ १५ ॥

यदा तु तदसहमानोत्थिता चिरं बहून्दिवसानदृष्टा सती पुनरपि प्रकृतिस्थैवाकुपिता संसृज्यते संसर्गं करोतीति, यद्यप्येवं तथाऽपि, कृतलक्षणां तामिति। जातावसरां दर्शिताकारामुपक्रमेताभियुञ्जीत, तस्या-अतिशयेनाप्रगल्भत्वात् ॥ १५ ॥

अनभियुक्ताऽप्याकारयति विविक्ते चात्मानं दर्शयति ॥ १६ ॥

२४० सटीके कामसूत्रे [ ५ अधिकरणे,

अनभियुक्तेति । अभियुक्ता सुतरां तावद्भावसूचकमाकारं दर्शयत्येव ॥१६॥

सवेपथुगद्गदं वदति ॥ १७ ॥

तत्र च यदि वदति सवेपथु सगद्गदम् ॥ १७ ॥

स्विन्नकरचरणाङ्गुलिः स्विन्नमुखी च भवति ॥ १८ ॥

स्विन्नकरचरणाङ्गुलिः स्विन्नमुखी च भवत्येकान्तेनाहितभावत्वात् ॥ १८ ॥

शिरःपीडेन संवाहने चोर्वोरात्मानं नायके नियोजयति ॥१९॥

आतुरा संवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शमावेदयति श्लेषयति च ॥ २० ॥

आतुरेति । कामातुरैकान्तेन प्रगल्भा, एवमवस्थाऽपि विविक्ते, संवाहिका चेति । कदा चिदप्रगल्भसंवाहनद्वारेण प्रवृत्तिं दर्शयति, स्पर्शमावेदयतीत्यात्मीयं नायकं ज्ञापयति ॥ २० ॥

विस्मितभावा निद्राऽन्धा वा परिस्पृश्योरुभ्यां बाहुभ्यामपि तिष्ठति ॥ २१ ॥

विस्मितभावेति । विस्मिताख्यो भावो यस्याः, स्पर्शं निवेदयमाना तत्स्पर्शसुखाज्जातविस्मया सती तेनैव द्वितीयबाहुना श्लेषं करोति, निद्राऽन्धा वेति । वा शब्दो भिन्नक्रमः, उभाभ्यां बाहुभ्यां कृतकनिद्रा परिस्पृश्याप्यूरुभ्यां तिष्ठति ॥ २१ ॥

अलिकैकदेशमूर्वोरुपरि पातयति ॥ २२ ॥

अलिकैकदेशमग्रभागं पातयति ॥ २२ ॥

ऊरुमूलसंवाहने नियुक्ता न प्रतिलोमयति ॥ २३ ॥

संवाहयन्ती न प्रतिलोमयति, तत्संवाहनस्येष्टत्वात् ॥ २३ ॥

तत्रैव हस्तमेकमविचलं न्यस्यति ॥ २४ ॥

तत्रैवेति । ऊरुमूले, अविचलं, न्यस्यति लज्जया न व्यापारयति, मा भूज्जघनपार्श्वसंस्पर्श इति ॥ २४ ॥

अङ्गसंदंशेन च पीडितं चिरादपनयति ॥ २५ ॥

अङ्गसन्दंशेन चेति । ऊरुद्वयसंदंशेन नायकेन पीडितं चिरादपनयति, मा भूदिच्छाविघातोऽस्येति ॥ २५ ॥

प्रतिगृह्यैवं नायकाभियोगान् पुनर्द्वितीयेऽहनि संवाहनायोपगच्छति ॥ २६ ॥