कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पञ्चाशत्तमं प्रकरणम् ॥
२७८ सटीके कामसूत्रे [ ६ अधिकरणे,
यमाश्रित्य कार्यं साधयति, खेदः=परिश्रमः संप्रयोगो हि जीविका तत्र चाकृतखेदा सहसा क्व चित्क्व चित्प्रवृत्ता विमर्दं न सहेत, धर्मः अकिञ्चनविद्वद्ब्राह्मणाभिगमनाद्, यशः कस्यां चित्तिथौ कामसत्रप्रदानाद्, अनुकम्पा अकामयमानायां त्वयि म्रियेऽहमित्येवंवादिनि दया भवति, सुहृद्वाक्यं मम प्रीतिकरः समायातस्तेन सहाद्य शयितव्यमिति, ह्रीः, यो-गुरुस्थानीयोऽभिमतं भाणयति सोऽपि लज्जयाऽभिगम्यते, प्रियसादृश्यं मत्प्रियस्यायं सदृश इत्यनुरागवशात् काम्यते, धन्यतेति । पुण्यवानयमतोऽस्य संयोगात् कीर्तनीयाऽहं भविष्यामि, यत एष गुणवान् कुलीनो धनवान्रूपवांश्च, रागापनयः शुक्रधातोरुद्रिक्तस्य कं चिदभिगम्यापनयनं, साजात्यं सजातिरयमिति विप्रतिपन्नायाः कुलयोषितोऽभिगमनकारणमेतत् , साहवेश्यं सहवेशकोऽयमिति, सातत्यं=नित्यसाहचर्यम्, आयतिः=प्रभावः ॥ १७ ॥
अर्थोऽनर्थप्रतीघातः प्रीतिश्चेति वात्स्यायनः ॥ १८ ॥
अत्राह शास्त्रकारः—परिगणनमेतत्प्रदर्शनं वा, तत्र परिगणने चिकित्सा मैत्री शोकापनयः कलाऽऽगम इत्येवमादीनामपि सम्भवात् , प्रदर्शने चार्थोऽनर्थप्रतीघातः प्रीतिरिति तावद्वक्तव्यं सर्वेषामत्रैवान्तर्भावात्, तत्र संघर्षजिज्ञासापक्षखेदधर्मयशःसुहृद्वाक्यायतिकलाऽऽगमा-अर्थे, भयं वैरमनुकम्पा शोकापनय इत्यनर्थप्रतीघाते, शेषाः प्रीतौ स्नेह इत्यर्थः, हीरपि प्रीत्यंशमेव स्पृशति ॥ १८ ॥
अर्थं तु प्रीत्या न बाधेतास्य प्राधान्यात् ॥ १९ ॥
अर्थमिति । अर्थप्रीत्योर्यथास्वं विषयेषु युगपत्प्रत्युपस्थिते प्रीतिविषयं त्यक्त्वाऽर्थविषयमधिगच्छेदित्यर्थः, अर्थस्य प्राधान्यात्तत्प्रतिबद्धत्वात्तज्जीविकायाः ॥ १९ ॥
भयादिषु तु गुरुतालाघवं परीक्ष्यम् ॥ २० ॥
॥ इति सहायगम्यागम्यगमनकारणचिन्ता ॥
भयादिषु त्वनर्थेषु गुरुतालाघवं परीक्ष्यं कोऽत्र गुरुर्यम्प्रति करिष्यामीति, अर्थानर्थप्रतीकारयोस्तु गुरुतालाघवमग्रे वक्ष्यति ॥ २० ॥
इति सहायगम्यागम्यगमनकारणचिन्ता
पञ्चाशत्तमं प्रकरणम् ॥
एवं सहायं निरूप्य गम्यमभिमुखीकुर्यादिति गम्योपावर्तनमुच्यते—
उपमन्त्रिताऽपि गम्येन सहसा न प्रतिजानीयात् पुरुषाणां सुलभविमानित्वाद् ॥ २१ ॥
१ अध्याये ] गम्योपावर्त्तनप्रकरणम् । २७९
उपेति। स्वयमनुपावर्त्तितेन नायकेनाभिगन्तुं प्रार्थिता न सहसा प्रतिजानीयात् तत्क्षणमेव नाङ्गीकुर्यादित्यर्थः, सुलभावमानित्वात्, तथा- चोक्तं "सुलभामवमन्यते, दुर्लभाभिकाङ्क्षत इति प्रायोवादः," पुनःपुन- रुपमन्त्र्यमाणा तु प्रतिजानीयादित्यर्थोक्तम् ॥ २१ ॥
यदा तु तामुपावर्त्तयेत्तदाऽयं प्रथम उपायः, यत्तेषु प्रणिधानमित्याह—
भावजिज्ञासार्थं च परिचारकमुखान् संवाहकगायनवैहासिकान्
गम्ये तद्भक्तान्वा प्रणिदध्यात् तदभावे पीठमर्दादीन् ॥ २२ ॥
भावजाज्ञासार्थं चेति। परिचारकमुखान्=परिचारकरूपान्, वैहा- सिकः=विदूषकः तस्य गम्यस्य, भक्तान्=सेवापरान्, प्रणिदध्याद्= नियुञ्जीत, पीठमर्दादीत्यादिशब्दाद्विटमालाकारगान्धिकशौण्डिकादयः- सहायाः ॥ २२ ॥
भावोऽभिप्रायः तस्मिन्ननेकप्रकारेऽपि प्राधान्याच्छौचादिभावेष्वेव जिज्ञासनमित्याह—
तेभ्यो नायकस्य शौचाशौचं रागापरागौ सक्तासक्ततां दाना-
दाने च विद्यात् ॥ २३ ॥
तेभ्य इति। नायकस्येति। गम्यसंज्ञकस्य, शुचिसमुदाचाराद् शौचं- भावं तद्विपरीतमशौचं, यतः कश्चित्स्वयमौपरिष्टिकं प्रयुङ्क्ते प्रयोज- यति नोभयं वेति, रागः=संयोगेच्छा, तद्विपरीतोऽपरागः, सक्तां- वक्ष्यमाणलक्षणां, तद्विपरीतामसक्तां, दानं = दातृत्वं, तद्विपरीत- मदानम् ॥ २३ ॥
संभावितेन च सह विटपुरोगां प्रीतिं योजयेत् ॥ २४ ॥
सम्भावितेन चेति। भावान् ज्ञात्वा, संयुज्येतैवं प्रयोग इति निश्चित्य, विटपुरोगामिति। विटो हि जीर्णनागरकवृत्तः, तेन पूर्वप्रहितेन प्रीतिं- योजयेत् ॥ २४ ॥
योजितायां विधिमाह—
लावककुक्कुटमेषयुद्धशुकशारिकाप्रलापनप्रेक्षणककळाव्यपदे-
शेन पीठमर्दो नायकं तस्या उदवसितमानयेत् तां वा तस्य ॥२५॥
लावकेति। लावकादीनां युद्धं, शुकादेः प्रलापनम्=पाठनम्, प्रेक्ष- णकं=नटादिदर्शनं, कला=गीतादिका, तद्व्यपदेशेनानयेद्, उदवसितं= गृहं, तां वेति। नायिकां वा, तस्योद्ववसितम् ॥ २५ ॥
२८० सटीक कामसूत्रे [ ६ अधिकरणे,
आयतस्य प्रीतिकौतुकजननं किञ्चिद् द्रव्यजातं स्वयमिदम-
साधारणोपभोग्यमिति प्रीतिदायं दद्यात् ॥ २६ ॥
प्रीतिकौतुकजननमिति । यत्प्रीतिं जनयति तस्मै हितत्वात्, कौतुकं-
चादृष्टपूर्वत्वाद् , द्रव्यजातं, स्वयमिति। अनुरागख्यापनार्थं नान्येन,
असाधारणेति। भवत एवेदमुपभोगार्हं नान्यस्येत्युक्त्वा देयम्, प्रीति-
दायं यत्पुनर्नादीयते ॥ २६ ॥
यत्र च रमते तया गोष्ठ्यैनमुपचारैश्च रञ्जयेत् ॥ २७ ॥
यत्र चेति । काव्यगोष्ठ्यां कलागोष्ठ्यां वा, उपचारैः सरकताम्बूल-
स्रगादिभिः ॥ २७ ॥
प्रत्यवच्छेदनार्थं विधिमाह—
गते च सपरिहासप्रलापां सोपायनां परिचारिकामभीक्ष्णं प्रे-
षयेत्, सपीठमर्दयाश्च कारणापदेशेन स्वयं गमनम् ॥ २८ ॥
इति गम्योपावर्तनम् ।
गते चेति । सपरिहासेति । सक्रीडप्रकृष्टालापा हि प्रीतिं वर्धयति,
सोपायनामभिज्ञानार्थं सह कौशलिकया प्रेषयेत्, तत्राप्यभीक्ष्णम् अन्तरा
नायिकाऽन्तरप्रवेशो मा भूदिति, सपीठमर्दयाश्चेति । पीठमर्दो हि मन्त्री
संयोगस्य घटयिता, कारणापदेशेन स्वयं गमनमिति । सहसा गमने हि
हेया स्यात् ॥ २८ ॥
उक्तं च श्लोकैराह—
भवन्ति चात्र श्लोकाः—
ताम्बूलानि स्रजश्चैव संस्कृतं चानुलेपनम् ।
आगतस्याहरेत्प्रीत्या कलागोष्ठीश्च योजयेत् ॥ २९ ॥
ताम्बूलानीति । संस्कृतमिति सर्वत्र योज्यं, कलागोष्ठीश्चेति ।
चशब्दात्काव्यगोष्ठीश्च ॥ २९ ॥
द्रव्याणि प्रणये दद्यात्कुर्याच्च परिवर्तनम् ।
संप्रयोगस्य चाकूतं निजेनैव प्रयोजयेत् ॥ ३० ॥
द्रव्याणीति। प्रीतिकौतुकजनकानि परिवर्तनमुत्तरीयांशुकानामङ्गुली-
यानां, तत्रापि प्रणये सति, अनुत्पन्नप्रणयाया दानं परिवर्तनं च कपटं-
ज्ञायेत, आकूतम् = अभिप्रायम्, प्रयोजयेत्प्रकाशयेत् ॥ ३० ॥
यस्तु कथञ्चिदागत्यागत्य गच्छति यत्र योज्यमानं लाघवं जनयति
१ अध्याये ] गम्योपावर्त्तनप्रकरणम् । २८१
तच्च कथं ? योजयेदित्याह—
प्रीतिदायैरूपन्यासैरुपचारैश्च केवलैः ॥
गम्येन सह संसृष्टा रञ्जयेत्तं ततः परम् ॥ ३१ ॥
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे सहायगम्यागम्य-
गमनकारणचिन्ता गम्योपावर्त्तनं प्रथमोऽध्यायः ।
प्रीतिदायैरिति । प्रीत्यर्थं यानि दीयन्ते, उपन्यासैः पीठमर्दादिकृतैर्-
त्रैव किं न सुप्यत इति, केवलैः शुद्धैः, ये सम्प्रयोगमेव सूचयन्ति,
संसृष्टा सम्प्रयुक्ता, ततः परमिति । अनन्तरप्रकरणानुसन्धानम् ॥ ३१ ॥
इति गम्योपावर्त्तनमेकपञ्चाशत्तमं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठे-
ऽधिकरणे सहायगम्यागम्यगमनकारणचिन्ता गम्योपावर्त्तनं प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः ।
उक्तमपि संबन्धं स्पष्टीकुर्वन्नाह--
संयुक्ता नायकेन तद्रञ्जनार्थमेकचारिणीवृत्तमनुतिष्ठेत् ॥ १ ॥
तद्रञ्जनार्थमिति । तद्रञ्जनार्थम् एकचारिणीवृत्तमनुतिष्ठेद्यद्येकचा-
रिणी स्यात्, तथा चोक्तं प्राग्-‘वेश्या वाऽप्येकचारिणी’ इति, यदा तु
नैकचारिणी तदा कान्ताऽनुवृत्तमुच्यते, सम्प्रयुक्तस्य गम्यस्य कान्त
त्वात्, तच्च संक्षेपेण विस्तरेण च ॥ १ ॥
तत्र पूर्वमुद्घाटितबुद्धीनामाह—
सञ्जयेन्न तु सजेत् सक्तवच्च विचेष्टेतेति संक्षेपोक्तिः ॥ २ ॥
सञ्जयेदिति । षञ्ज्-सङ्गे, प्रयोजकव्यापारे णिज्, न तु सजेत्,
स्वयं सक्ता स्यात्, कथं ? तस्यां पुंसो विश्वासयोग इत्याह—सक्तवच्च
विचेष्टेतेति । सक्तमिवात्मानं प्रकाशयेदित्यर्थः, विस्तरोक्तावपि प्रथमं
परतन्त्रा स्याद्, व्याधिं चात्मनः प्रकाशयेद् ॥ २ ॥
मा भूतकार्यहानिरित्याह—
मातरि च क्रूरशीलायामर्थपरायां चायत्ता स्यात् , तदभावे मातृकायाम् ॥ ३ ॥
मातरीति । मातुरयमप्युपदेशो यदपिधानपरयाऽर्थपरया च भवि-
तव्यमिति, तस्यामायत्ता स्यान्न तद्वचनमतिक्रामेदित्यर्थः, मातृकायां-
कृतकमातरि ॥ ३ ॥
३६ का० सू०
२८२ सटीके कामसूत्रे [ ६ अधिकरणे
सा तु गम्येन नातिप्रीयेत प्रसह्म च दुहितरमानयेत् ॥ ४ ॥
सा त्विति । सत्या कृतका वा, नातिप्रीयेत नातिस्निह्येद्, अयमु-
पदेशो यदि प्रीयेत कार्यमेव हन्यादित्यर्थः, अप्रीयमाणाया व्यापारमा-
ह—प्रसह्य च दुहितरमानयेदिति । गम्यमभिभूय कार्यवशाद् गम्यान्त-
रं नयेदित्यर्थः ॥ ४ ॥
तत्र तु नायिकायाः सन्ततमरतिर्निर्वैदो व्रीडा भयं च न त्वेव
शासनातिवृत्तिः ॥ ५ ॥
तत्र त्विति । तस्मिन्नामने सति, नायिकायाः कालविशुद्ध्यर्थमाह-
सन्ततमिति । अरतिः = असुखं, रम्येऽपि स्याद्, निर्वेदः = निर्विण्णता,
व्रीडा, कथं ? पुनर्मया द्रष्टव्य इति, भयं किमपि प्रतिविधास्यतीति, न
त्वेवेति । काममरत्यादयः स्युर्न पुनर्मातुराज्ञामतिक्रामेदित्यर्थः ॥ ५ ॥
व्याधिं च कृतकमेकमनिमित्तमजुगुप्सितमचक्षुर्ग्राह्यमनित्यं-
ख्यापयेत् ॥ ६ ॥
व्याधिं चेति । व्याधिं च कृतकं ख्यापयेत्, किं विशिष्टमित्याह-एक-
मिति । अनन्यं ख्यापयेद्, येन कृतको ज्ञायेत, अनिमित्तम् = आकस्मिकम्,
अजुगुप्सितम् = अनिन्दितं, निन्दिते ह्यनभिगमनीया स्याद्, अचक्षु-
रिति । इन्द्रियोपलक्षणार्थं चक्षुर्ग्रहणं, शिरोऽर्तिमुदरशूलं च, अनित्य-
मस्थायिनम् ॥ ६ ॥
अस्मिन्ख्यापिते किं फलमित्याह—
सति कारणे तदपदेशं च नायकानभिगमनम् ॥ ७ ॥
सतीति । कारणे कामुकान्तराभिगमने, तदपदेशं = व्याध्यपदेशम् ॥७ ॥
अनभिगमने च व्याधिपीडाख्यापनार्थं विधिमाह—
निर्माल्यस्य तु नायिका चेटिकां प्रेषयेत्ताम्बूलस्य च ॥ ८ ॥
निर्माल्यस्य त्विति । कृते, इत्यध्याहार्यं, नायिकेत्युक्ते न माता चेटिकां-
प्रेषयेद्, अनेनापि सुखं स्थास्यामीत्युक्त्वा ताम्बूलस्योपयुक्तस्य वा कृते॥८॥
वृत्तं च प्रत्यक्षे परोक्षे वा कान्तेन, तत्र पूर्वमधिकृत्य रहोगतमाह—
व्यवाये तदुपचारेषु विस्मयः, चतुःषष्ट्यां शिष्यत्वं, तदुपदि-
ष्टानां च योगानामाभीक्ष्ण्येनोनुयोगः, तत्सात्म्याद्रहसि वृत्तिः,
मनोरथानामाख्यानं, गुह्यानां वैकृतप्रच्छादनं, शयने परावृत्त-
स्यानुपेक्षणम्, आनुलोम्यं गुह्यस्पर्शने, सुप्तस्य चुम्बनम्,
१ अध्याये ] कान्ताऽनुवृत्तप्रकरणम् । २८३
आलिङ्गनं, च ॥ ९ ॥
व्यवाय इति। व्यवाये = मैथुने, नायकसम्बन्धिनि, तदुपचारेषु मैथु-
नोपचारेषु च सरकताम्बूलादिषु, विस्मयोऽननुभूतपूर्वं सर्वमेतदिति,
चतुःषष्ट्यां पाञ्चालिक्यां शिष्यत्वं, तद्विज्ञाय कर्तव्यं शिक्षय मामिति,
योगानामिति। चातुःषष्टिकानां तेनोपदिष्टानामाभीक्ष्ण्येनानुयोगः, पश्चा-
त्तस्मिन्नेव नायके पुनर्योजना, येनायमवगच्छेदस्मत्सुखार्थमेवास्या यत्न-
इति, तत्सात्म्यादिति। यथा तस्य सुखं तथैकान्ते वर्तेतेत्यर्थः, मनोरथे-
ति। रहसीत्यनुवर्तते, मम मनोरथा एवमासन् कदा त्वया सह दीर्घ-
रजन्यां सपरिहासः सम्प्रयोगः स्यादिति, गुह्यानामिति। नाभिकक्षोरु-
जघनस्य यद्वैकृतं वैरूप्यं, किञ्चित्तस्य प्रच्छादनं, स्प्रष्टुं द्रष्टुं न दद्यादि-
त्यर्थः, मा भूद्वैराग्यमस्येति, शयने परावृत्तस्यानुपेक्षणं, स्नेहख्याप-
नार्थमभिमुखं स्वपेदित्यर्थः, गुह्यस्पर्शन आनुलोम्यं, कक्षां वराङ्गं च स्पृ-
शन्तं न वारयेद्, मा भूत्सम्प्रयोगेच्छाविघात इति, सुप्तस्य चुम्बनमालि-
ङ्गनं च, येन स्नेहात्स्वप्तुमपि न ददातीति जानीयात् ॥ ९ ॥
प्रत्यक्ष एव बहिर्गतं वृत्तमाह—
प्रेक्षणमन्यमनस्कस्य राजमार्गे च प्रासादस्थायाः, तत्र विदि-
ताया व्रीडाशाठ्यनाशः, तत् द्वेष्ये द्वेष्यता, तत्प्रिये प्रियता, तद्रम्ये
रतिः, तमनु हर्षशोकौ, स्त्रीषु जिज्ञासा, कोपश्चादीर्घः, स्वकृतेष्वपि
नखदशनाचिह्नेष्वन्याशङ्का ॥ १० ॥
प्रेक्षणमिति। अन्यचित्तं पश्येत् , किमयमुत्कण्ठयोद्वेगाद्वाऽन्यमन-
स्क इति, राजमार्गे वर्तमानस्य प्रेक्षणं, तत्रापि प्रासादस्थायाः, कर्त्रर्थेयं-
षष्ठी, तत्रेति। प्रेक्षणे, विदिताया नायकस्य माम् पश्यतीति, व्रीडा = लज्जा
स्यात्, सैव शाठ्यनाश इत्युच्यते, तद्धेतुत्वादस्या यदि व्रीडां न दर्श-
येत्, कृतकस्नेहोऽस्याः, यन्मामसकृत्पश्यतीति, शाठ्यं सम्भाव्येत, तद्द्वे-
ष्य इति। नायकद्वेष्ये कस्मिंश्चित् प्रियेऽपि द्वेषणं ख्याप्यं, तत्प्रिये
द्वेष्येऽपि प्रियता, तथा च तदानुलोम्यं ख्यापितं भवति, तद्रम्य इति।
यद्यसावसम्प्रयोगशीलस्तदा रम्ये प्रदेशेऽनया रतिः कार्या, येन तद्गत-
स्य सम्प्रयोगेच्छा भवति, तमन्विति। तस्य हर्षशोकाभ्यां हर्षशोकौ,
स्त्रीषु जिज्ञासा कार्या, किमेवं स्यादित्याह-कोपश्चादीर्घः, यदि तत्र स्नेह-
ईर्ष्या तदा कोपः स्नेहख्यापनार्थं कार्यः, स चादीर्घः, कदा चिद्विरागः-
स्याद्, अन्याशङ्केति। अन्यया तव कृतानि न मयेत्याशङ्क्य तत्स्नेहब-
न्धनमीर्ष्यां ख्यापयितुम् ॥ १० ॥
२८४ सटीके कामसूत्रे [ ६ अधिकरणे,
अनुरागस्यावचनमाकारतस्तु दर्शयेन्मदस्वप्नव्याधिषु तु निर्वचनं, श्लाघ्यानां नायककर्मणां च ॥ ११ ॥
अनुरागस्येति। जातरागाऽस्मिकामयस्व मामिति, न वाच्यं लज्जापरिहारार्थं, कथमनुरागं ख्यापयेदित्याह—आकारतस्तु दर्शयेद्, यथा जानाति कामातुरेति, तत्राप्यपरिज्ञाने मदस्वप्नव्याधिषु निर्वचनं, कृतमत्ता कृतसुप्ता च ब्रूयाद्, अगत्या व्याधिमपदिशेद्, असम्भोगेनैव व्याधिताऽस्मीति, श्लाघ्यानामिति। श्लाघनीयानां देवकुलतडागादीनां धर्मयशोऽर्थानां निर्वचनं साधु कृतमिति ॥ ११ ॥
तस्मिन्ब्रुवाणे वाक्यार्थग्रहणं, तदवधार्य प्रशंसा, विषये भाषणं, तद्वाक्यस्य चोत्तरेण योजनं, भक्तिमांश्चेत् ॥ १२ ॥
तस्मिन्निति। नायके किंचिद् वस्तुब्रुवाणे वाक्यार्थग्रहणम्, इदमनेकमिति, न त्ववधीरयेदन्यथा मयि जातावज्ञेत्याशङ्केत, तदवधार्येति। न केवलमर्थग्रहणं तदुक्तमवधार्य प्रशंसा कर्तव्या, सुभाषितमुक्तं कोऽयो नाम जानात्येवमभिधातुमिति, विषये भाषणं, शब्दस्पर्शादियूक्तिः कर्तव्या, कस्मिन्विषये स्वाभिरुचिरिति ज्ञापनार्थं तथैवानुतिष्ठेद्, वाक्योत्तरेण योजनं बुद्धिवैदग्ध्यख्यापनार्थं, तत्रापि भक्तिमांश्चेद् यदि भवान् अजातस्नेहस्य वचने प्रत्युतावधीर्यमाणं वैलक्ष्यं स्यात्॥ १२ ॥
कथास्वनुवृत्तिरन्यत्र सपत्न्याः ॥ १३ ॥
कथास्वनुवृत्तिस्तेन कथ्यमानास्वनुवर्तनं तन्मुखावलोकनहुंकारादाम्, अन्यथाऽस्या मध्यवज्ञेति मन्येत, अन्यत्रेति। सपत्न्याः सपत्नीजायामीर्ष्याकोपख्यापनार्थं नानुवृत्तिः ॥ १३ ॥
[निः]श्वासे जृम्भिते स्खलिते पतिते वा तस्य चार्तिमाशंसीत ॥ १४ ॥
निःश्वासे=दीर्घनिःश्वसिते, जृम्भिते=क्षणं क्षणं जृम्भिकायां, स्खलिते=अर्थविस्मरणे, पतिते वा समेत्य पिच्छिले भूमिभागे पतने, तस्य [नाय]कस्यार्तिमाशंसीत, मा भूत्पीडेति, तेषामनिष्टसूचकत्वात् ॥ १४ ॥
क्षुतव्याहृतविस्मितेषु जीवेत्युदाहरणम् ॥ १५ ॥
क्षुतं = छिक्का, तदादिषु, जीवेत्युक्तिः स्नेहसूचिका ॥ १५ ॥
दौर्मनस्ये व्याधिदौर्हृदापदेशः ॥ १६ ॥
दौर्मनस्य इति। नायकान्तरसम्बन्धनिष्ठुरश्रवणाद् दौर्मनस्ये जाते, कारणं पृच्छतेऽपि तस्मै न कथयेत्, तद्गतस्नेहप्रच्छादनार्थं, तु व्याधिदौर्हृदापदेशः, व्याधेः शत्रुत्वं व्यपदिशेद्, चिरानुबन्धो मे