सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

इति वृष्ययोगप्रकरणम् ।

३३८ सटीक कामसूत्रे [ ७ अधिकरणे

तपोयुक्तः प्रयुञ्जीत शिष्टैरनुगतान् विधीन् ।
ब्राह्मणैश्च सुहृद्भिश्च मङ्गलैरभिनन्दितान् ॥ ५१ ॥

इति वृष्ययोगप्रकरणम् ।
इति श्रीवात्स्यायनीये कामसूत्रे औपनिषदिके सप्तमेऽधिकरणे सुभगङ्करणं वशीकरणं वृष्ययोगाः प्रथमोऽध्यायः ।

तपोयुक्त इति । प्रयुञ्जीत सर्वसिद्धीनान्तपोमूलकत्वाद्, शिष्टराचारविद्भिः, विधीनिति । अविधिपूर्वं हि सुभगङ्करणादिः क्रियमाणो न सिद्ध्यति, मङ्गलैः प्रशस्तवचनादिभिः ॥ ५१ ॥

इति वृष्ययोगा एकषष्टितमम्प्रकरणम् ।
इति वात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायामौपनिषदिके सप्तमेऽधिकरणे सुभगङ्करणं वशीकरणं वृष्ययोगाः प्रथमोऽध्यायः ।


द्वितीयोऽध्यायः ।

द्विविधं रतमपत्यफलं रतिफलञ्च, पूर्वत्र वृष्ययोगा उक्ताः, द्वितीये नष्टरागप्रत्यानयनमुच्यते, कस्य चित्स्वभावतोऽवस्थाया वा विनष्टोरागः प्रयोगात्प्रत्यानीयते—

यदाह—

चण्डवेगां रञ्जयितुमशक्नुवन्योगानाचरेत् ॥ १ ॥

चण्डवेगामिति । रञ्जयितुं सुखयितुमशक्नुवन् नष्टरागत्वाद्, योगानिति । प्रयोगान् ॥ १ ॥

नष्टो रागो द्विविधः—मन्दो ध्वस्तश्च, तत्र मन्दः प्रवर्त्तकोऽप्रवर्त्तकश्च, तत्र पूर्वमधिकृत्याह—

रतस्योपक्रमे संबाधस्य करेणोपमर्दनं तस्या रसप्राप्तिकाले च रतयोजनमिति रागप्रत्यानयनम् ॥ २ ॥

रतस्येति । संप्रयोगस्य, उपक्रम इति । अयमारम्भे, यद्यपि मन्दो रागो रते प्रवर्त्तयति स्तब्धलिङ्गत्वात्, तथाऽपि प्रथमतः सम्बाधस्य भगस्य करेणोपमर्दनं गजहस्तेन क्षोभणङ्कार्यं, तस्या इति । चण्डवेगायाः करोपमर्दनाद्रसप्राप्तिकाले, रतयोजनमिति । यन्त्रयोजनं, रागप्रत्यानयनमिति। स्त्रीच्छया तावन्तं कालं रागस्य प्रवर्त्तितत्वात् ॥ २ ॥

अप्रवर्त्तकमधिकृत्याह—

औपरिष्टकं मन्दवेगस्य गतवयसो व्यायतस्य रतश्रान्तस्य च रागप्रत्यानयनम् ॥ ३ ॥

२ अध्याये ] नष्टरागप्रत्यानयनप्रकरणम् । ३३९

मन्दवेगस्येति । यस्योत्पन्नोऽपि रागो न प्रवर्तयति लिङ्गस्यानति-स्तब्धत्वात् तस्यौपरिष्टकेन रागप्रत्यानयनं तेनैव विसृष्टिसुखस्योत्पादनाद्, गतवयस इति । वृद्धस्य, व्यायतस्य चेति । मेदस्विनः, उभयस्यापि ध्वस्तो रागो लिङ्गस्य दुःखेनोत्थाप्यमानत्वात् ताभ्यामेवौपरिष्टकमेव रागप्रत्यानयनं रतयोजने प्रवर्त्तयितव्यमसमर्थत्वात् ॥३॥

अपद्रव्याणि वा योजयेत् ॥ ४ ॥

अपेति । अपद्रव्याणि च योजयेद्, यस्य प्रवर्तकोऽप्रवर्तकश्च रागः-स कृत्रिमाणि साधनप्रकाराणि च योजयेत् ॥ ४ ॥

तान्यविद्धस्य विद्धस्य वा लिङ्गस्य, तत्र पूर्वमधिकृत्याह—

तानि सुवर्णरजतताम्राकालायसगजदन्तगवलद्रव्यमयाणि ॥ ५ ॥

तानीति । सुवर्णादयो द्रव्याणि येषामपद्रव्याणामिति समासः, तत्र कालायसं = लोहं, गवलं = शृङ्गं प्रतीतम्, द्रव्यशब्दः प्रत्येकं योज्यः ॥ ५ ॥

त्रापुषाणि सैसकानि च मृदूनि शीतवीर्याणि कर्मणि च धृष्णूनि भवन्तीति बाभ्रवीया योगाः ॥ ६ ॥

त्रापुषाणि त्रपुषो विकारत्वात्, "त्रपुजतुनोः षुक्" तेषां गुणानाह-मृदूनीति । मृदुत्वात् साधनस्पर्शं नयन्ति, शीतवीर्यत्वञ्च प्रवेशकाले शीतलं स्पर्शं, कर्मणि च व्यवहारे धृष्णूनि घर्षणशीलानि भवन्ति, अत्युत्तेजकत्वाद्, दारुमयाणि तु विपरीतानीत्यभिप्रायः ॥ ६ ॥

दारुमयाणि साम्यतश्चेति वात्स्यायनः ॥ ७ ॥

साम्यतश्चेति । किञ्चिदेव कस्याश्चित् प्रियम्भवति, अतो दारुमयाण्यपि योज्यानीति मन्यते ॥ ७ ॥

तानि प्रकारान्तरेण दर्शयन्नाह—

लिङ्गप्रमाणान्तरं विन्दुभिः कर्कशपर्यन्तं बहुलं स्यात् ॥ ८ ॥

लिङ्गप्रमाणान्तरमिति । यत् स्तब्धस्य लिङ्गस्यानाहः प्रमाणं, तदन्तरं छिद्रं यस्य, बिन्दुभिरिति । उत्कोणैः कर्कशपर्यन्तं कर्कशपृष्ठमित्यर्थः, तलद्वयमिव पिनद्धं स्तब्धालिङ्गं संपीड्य तिष्ठति ॥ ८ ॥

एते एव द्वे संघाटी ॥ ९ ॥

एते एवेति । वलये द्वे चतुर्षु त्रिषु वा स्थानेषु विशिष्टसन्धिनौ घटित ॥ ६ ॥

त्रिप्रभृति यावत्प्रमाणं वा चूडकः ॥ १० ॥

त्रीति । त्रिप्रभृति यावत्प्रमाणं लिङ्गस्यायामस्तावत्प्रमाणश्चूडकः ॥ १० ॥

एकामेव लतिकां प्रमाणवशेन वेष्टयेदित्येकचूडकः ॥ ११ ॥

३४०सटीके कामसूत्रे[ ७ अधिकरणे,

एकामेव लतिकामिति। लताऽऽकारा सीसकादिमयी, प्रमाणवशे-
नेति। लिङ्गस्यायामपरिणाहवशेन वेष्टयेदेकचूडकः ॥ ११ ॥

उभयतो मुखच्छिद्रः स्थूलकर्कशव्रणगुटिकायुक्तः प्रमाणवश-
योगी कट्यां बद्धः कञ्चुको जालकं वा ॥ १२ ॥

उभयत इति। द्वयोः पार्श्वयोः, मुखच्छिद्र इति। येन भागेन लिङ्गं प्रवे-
श्यते तन्मुखन्तद्वद्वयोः पार्श्वयोश्छिद्रं कटिबन्धनसूत्रप्रक्षेपणार्यं यस्य, क-
र्कशव्रणगुटिकायुक्त इति। उत्कीर्णैः कर्कशविन्दुभिर्युक्तः कञ्चुकः सर्व-
लिङ्गमवच्छाद्यावस्थितत्वाद्, यस्य जालकमिति, प्रतीतिः स द्विधा-खर-
कञ्चुको यो मसृणपृष्ठः, तदुभयमपि समन्तात् कञ्चुकः, यस्तु मणिभा-
गमाच्छाद्य तिष्ठति सोऽर्धकञ्चुको यस्य मणिरक्ष इति प्रतीतिः, गुलि-
कामन्तरान्तरा मुक्तसन्धियतयोत्कर्णाभिर्युक्तो जालकं तद् द्विविधम्,
उत्कीर्णजालकं यदिदमुक्तं, वलयं बहुच्छिद्रं कृत्वा दृढसूत्राण्यवबध्य
छिद्रस्फोटितगुलिकादिभिर्विद्धगुलिकां दत्वा विरच्यते, तन्मणिजालकं-
तस्याग्रे विधानिकायोजनं कार्यं, प्रमाणवशयोगीति। उभयोरपि घटित-
लिङ्गस्यायामपरिणाहावपेक्ष्य समन्तात्कञ्चुकस्य जालकस्य च योग-
इत्यर्थः ॥ १२ ॥

तदभावेऽलाबुनालकं वेणुश्च तैलकषायैः सुभावितः सूत्रेण
कट्यां बद्धः श्लक्ष्णा काष्ठमाला वा ग्रथिता बहुभिरामलकास्थिभि-
र्संयुक्तेत्यपविद्धयोगाः ॥ १३ ॥

तदभाव इति। यथोक्तसंस्थानघटनाभावे वेण्वादीनां योजनं तेषां-
लिङ्गसंस्थानत्वाद्, अत्र वेण्वलाबुनालयोरग्रं तु प्रमृष्टं कार्यं सूत्रेण क-
ट्यां बद्ध इति। प्रमाणवशेन निर्मोकवदाकृष्य चर्म, सुभावित इति।
तैलकषायैः कषायितैस्तैलैः स्नेहितः कर्मण्यो भवति, श्लक्ष्णा काष्ठमाला
वेति। मसृणाभिः काष्ठगुलिकाभिरन्तरान्तराऽऽमलकास्थीनि दत्वा
ग्रथिता माला, तया तथा लिङ्गस्य वेष्टनं यथा सुश्लिष्टं भवति ॥ १३ ॥

विद्धमधिकृत्याह —

न त्वविद्धस्य कस्य चिद् व्यवहृतिरस्तीति ॥ १४ ॥

न त्विति। अविद्धस्य लिङ्गस्येति सम्बन्धः, व्यवहृतिः = संप्रयोगः ॥१४॥

दाक्षिणात्यानां लिङ्गस्य कर्णयोरिव व्यधनं बालस्य ॥ १५ ॥

बालस्येति। कर्णयोर्बालावस्थायामेव व्यधनं तथा लिङ्गस्य यूनां-
च तन्नान्त्यस्य वा लिङ्गस्य ॥ १५ ॥

२ अध्याये ] नष्टरागप्रत्यानयनप्रकरणम् । ३४१

व्यधनविधिमाह—

युवा तु शस्त्रेण छेदयित्वा यावद्रुधिरस्यागमनं तावदुदके तिष्ठेत् ॥ १६॥

युवा तु शस्त्रेणेति। भेदियित्वेत्यनेन कुशलेन बहिश्चर्माकृष्यान्यत्र स्थापयित्वा शिरां त्यक्त्वा तिर्यग् छेदयेद् यथोभयतश्छिद्रम्भवति, उदके तिष्ठेद्रुधिरस्तम्भनार्थम् ॥ १६ ॥

वैशद्यार्थं च तस्यां रात्रौ निर्बन्धाद् व्यवायः ॥ १७ ॥

वैशद्यार्थमिति। छिद्रस्यासङ्कोचार्थं, निर्बन्धाद् व्यवाय इति। बहून् वारान् मैथुनं कार्यं, ममत्वे हि तत्प्रतीकारस्य पीडाऽभावात् ॥ १७ ॥

ततः कषायैरेकदिनान्तरितं शोधनम् ॥ १८ ॥

ततः कषायैरिति। पञ्चकषायशोधनं प्रक्षालनं व्रणस्य ॥ १८ ॥

वेतसकुटजशङ्कुभिः क्रमेण बर्द्धमानस्य वर्धनैर्बन्धनम् ॥ १९ ॥

वेतसादिशङ्कुभिः कीलकादिभिः क्रमेण बर्द्धनन्तेषां क्रमेण बर्द्धमानत्वात् ॥ १९ ॥

यष्टीमधुकेन मधुयुक्तेन शोधनम् ॥ २० ॥

यष्टीमधुकेन मधुयुक्तेन प्रलेपनं शोधनं शुद्धं हि व्रणं रोहति ॥२०॥

ततः सीसकपत्रकर्णिकया बर्धयेत् ॥ २१ ॥

तत इति। उत्तरकालं, सीसकपत्रकर्णिकयेति। सीसकस्य बर्द्धनहेतुत्वात्, तत्पत्रन्तु तालपत्रवत्संवेष्टितं क्षिप्रं बर्द्धयेत् ॥ २१ ॥

म्रक्षयेद्बल्लातकतैलेन ॥ २२ ॥
इति व्यधनयोगाः ।

म्रक्षयेद् भल्लातकतैलेन प्रवेशनार्थम् ॥ २२ ॥

तस्मिन्ननेकाकृतिविकल्पान्यपद्रव्याणि योजयेत् ॥ २३ ॥

तस्मिन्निति। बहुच्छिद्रे, अनेकाकृतिविकल्पानीति। अनेकसंस्थानेन कल्पितानि ॥ २३ ॥

वृत्तमेकतो वृत्तमुदूखलकं कुसुमकं कण्टकितं कङ्कास्थि गज-
करकमष्टमण्डलकं भ्रमरकं शृङ्गाटकमन्यानि वोपायतः कर्मतश्च
बहुकर्मसहता चैषां मृदुकर्कशता यथासात्म्यमिति ॥ २४ ॥
इति नष्टरागप्रत्यानयनं द्विषष्टितमं प्रकरणम् ।

वृत्तमिति। वर्तुलं मध्येऽस्य द्रोणिका कार्या यत्र चर्मपाशस्तिष्ठति, एकतो वृत्तमिति। अन्यतो दीर्घमष्टमीचन्द्रसदृशन्द्रोणिका तथैव, उदूखलकमुलूखलाकृति मध्ये निम्नं यत्र पाशस्तिष्ठति, कुसुमकं पद्मकलिकाकृति

३४२ सटीक कामसूत्रे [ ७ अधिकरणे,

मध्येऽस्य द्रोणिका, कण्टकितं कारविल्लसंस्थानन्द्रोणिका तथैव, द्वयोरप्यायामेन योजनं, कङ्कास्थिसमं चतुरस्रन्द्रोणिका तथैव, गजकराकृति तस्य ग्रीवाशिरोऽन्तान्तरभागेन द्रोणिका, अष्टमण्डलक-मणाश्रि तस्योध्वाधःकोणेन द्रोणिका, भ्रमरकंशकटाकृति पार्श्वतः कीलिकायोगाच्च चलचक्रमायामेन द्रोणिका, द्वयोरपि कोणेन प्रवेशनाम्, अन्यानि च योजयेत्, तत्राप्युपायतो य उपायतारते प्रतिपद्यन्ते, कर्मतश्चेति । यानि चर्मपाशेन संयोज्य कर्माणि निरपायांव्यापार्यन्ते, यथासात्म्यमिति । मृदुमध्यातिमात्रेण सम्बाधस्य कार्कश्यंबुद्ध्वा तदनुरूपं कार्कश्यं विधेयं मार्दवं च येषां मसृणता विद्यते ॥ २४ ॥

इति नष्टरागप्रत्यानयनन्द्विषत्प्रितं प्रकरणम् ।

यथाऽपद्रव्यसंयोगाल्लिङ्गं कर्मण्यं तथाऽऽकारस्य वर्द्धनमपीति वृद्धिविधय उच्यन्ते—

एवं वृक्षजानां जन्तूनां शूकैरुपहितं लिङ्गं दशरात्रं तैलेन
मृदितं पुनरुपतूंहितं पुनः प्रमृदितमिति जातशोफं खट्वायामधोमुखस्तदन्तरे लम्बयेत् ॥ २५ ॥

एवमिति। वृक्षजातानामन्येषामनुपयोगित्वाद्, जन्तूनामिति। कन्दलिकानां, शूकैर्लोमभिः, उपतूंहितमिति। संदंशिकाया जन्तून् गृहीत्वा शूकैः पार्श्वेषु लिङ्गं ताडयेत्, तूंह हिंसायामिति धातुपाठात्, तैलमृदितमाकृष्य, जातशोफमिति। जातश्वयथु, शुल्वान्तरेणेति खट्वाववक्रान्तरेण लम्बयेद् दैर्घ्यार्थम् ॥ २५ ॥

तत्र शीतैः कषायैः कृतवेदनानिग्रहं सोपक्रमेण निष्पादयेत् ॥ २६ ॥

तत्रेति। ईप्सिते प्रमाणे जाते शीतैः पञ्चकषायैः, कृतवेदनानिग्रहमिति। परिषिच्य परिषिच्यापनीतवेदनम्, अन्यथा शोफो बर्द्धते वेदना चेति॥२६॥

स यावज्जीवं शूकजो नाम शोफो विटानाम् ॥ २७ ॥

स इति। स पूर्वोक्तः शूकजा नाम शोफो यावज्जीवं चिरस्थायी विटानां भवति ॥ २७ ॥

अश्वगन्धाशवरकन्दजलशूकबृहतीफलमाहिषनवनीतहस्तिकर्णवज्ज्रवल्लीरसैरेकैकैन परिमर्दनं मासिकं वर्धनम् ॥ २८ ॥

शबरकन्दकं = शबरमूलं, जलशूकं लोकप्रतीतं, हस्तिकर्णं - बृहत्पत्रम्, अटव्यां भवति, वज्रवल्लो = अस्थिसंहारः, मसिकमिति बर्द्धितं मासे तिष्ठति ॥ २८ ॥

एतैरेव कषायैः पक्वेन तैलेन परिमर्दनं षाण्मास्यम् ॥ २९ ॥