कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
इति वृद्धियोगास्त्रिषष्टितमं प्रकरणम् ।
२ अध्याये ] वृद्धिविधिचित्रयोगप्रकरणम् । ३४३
एतैरेवेति । अश्वगन्धादिभिः कषायैरिति । कल्कीकृतैः, तैलेन परिमर्दनं षाण्मास्यमिति । वर्धनमिति योज्यम् ॥ २९ ॥
दाडिमत्रापुषबीजानि बालुकाबृहतीफलरसश्चेति मृद्वग्निना पक्वेन तैलेन परिमर्दनं परिषेको वा ॥ ३० ॥
दाडिमत्रापुषबीजानीति । बालुकेति । एडवालुका, बृहती बृहत्येव कङ्कूबृहती हस्तिनस्तुम्बा, अनयोः फलरसः परिमर्दनं परिषेको वा वर्धनं षाण्मास्यमिति योज्यम् ॥ ३० ॥
तांस्तांश्च योगानाप्तेभ्यो बुध्येतेति वर्धनयोगाः ॥ ३१ ॥
तांस्तांश्च योगानिति । वर्द्धनस्य योगाः, वृद्धिविधयः ॥ ३१ ॥
इति वृद्धियोगास्त्रिषष्टितमं प्रकरणम् ।
उक्तव्यतिरिक्तकार्यसाधनार्थं प्रकीर्णकन्यायेन चित्रा योगा उच्यन्ते-
अथ स्नुहीकण्टकचूर्णैः पुनर्नवावानरपुरीषलाङ्गलिकामूलमिश्रैर्यामवकिरेत्सा नान्यं कामयेत ॥ ३२ ॥
अथेति । प्रकरणाधिकारार्थं, स्नुहीति । वज्री ग्राह्या, अवकिरेदिति । शिरस्यवचूर्णयेद्, नान्यं कामयेत, तस्या अनेन रक्षितत्वात् ॥ ३२ ॥
तथा सोमलतावल्गुजाभृङ्गलहोपजिह्विकाचूर्णैर्व्याधिघातकजम्बूफलनिर्यासेन घनीकृतेन च लिप्तसम्बाधां गच्छतो रागो नश्यति ३३
सोमेति । सोमलता, अवल्गुजं = बाकुचीबीजं, भृङ्गः = भृङ्गराजः, लोहं = लोहचूर्णम्, उपजिह्विका या वल्मीकं चिनोति । व्याधिघातकः = सुवर्णशेफालिका, तस्याः पत्रत्वङ्निर्यासः, जम्बूफलं तस्य च निर्यासः फाणितीकृतेन, तैस्सह कल्कीकृतेन रागो नश्यति संस्पर्शमात्रेण लिङ्गं नोत्तष्ठतीत्यर्थः ॥ ३३ ॥
गोपालिकाबहुपादिकाजिह्विकाचूर्णैर्माहिषतक्रयुक्तैः स्नातां गच्छतो रागो नश्यति ॥ ३४ ॥
बहुपादिका = रुण्डिका या वर्षासु भवति, स्नातां गच्छतो रागो नश्यति ३४
नीपाम्रातकजम्बुकुसुमयुक्तमनुलेपनं दौर्भाग्यकरं, स्रजश्च ॥३५॥
स्रजश्चेति । कुसुमयुक्ताः पिनद्धा दौर्भाग्यकृतः ॥ ३५ ॥
कोकिलाक्षमलेपो हस्तिन्याः संहृतमेकरात्रे करोति ॥ ३६ ॥
कोकिलाक्षः श्वेतः, संहृतमिति । सङ्कोचम् ॥ ३६ ॥
पद्मोत्पलकदम्बसर्जकसुगन्धचूर्णानि मधुना पिष्टानि लेपोमृग्या विशालीकरणम् ॥ ३७ ॥
३४४ सटीक कामसूत्रे [ ७ अधिकरणे,
पङ्कोत्पलेति। कदम्बमिति, ब्रजकदम्बं, सर्जकसुगन्धौ वीरणस्थाने वर्षासु जायते, विशालीकरणमेकरात्रे ॥ ३७ ॥
स्नुहीसोमार्कक्षारैरवल्गुजाफलैर्भावितान्यामलकानि केशानां श्वेतीकरणम् ॥ ३८ ॥
स्नुहीसोमार्कक्षारैरिति । दग्ध्वा परिस्राव्य च जलं ग्राह्यम्, अवल्गुजाफलैश्च क्षारैः ॥ ३८ ॥
मदयन्तिकाकुटजकाञ्जनिकागिरिकर्णिकाश्लक्ष्णपर्णीमूलैः-स्नानं केशानां प्रत्यानयनम् ॥ ३९ ॥
मदयन्तिका प्रसिद्धा, कुटजको यस्येन्द्रयवाः फलानि, अञ्जनिका कृष्णकुसुमा प्रतीता, गिरिकर्णिका प्रतीता, श्लक्ष्णपर्णी काश्मीरी, केशानामिति । श्वेतीकृतानां प्रत्यानयनं पुनः कृष्णीकरणमित्यर्थः ॥३९॥
एतैरेव सुपकेन तैलेनाभ्यङ्गात्कृष्णीकरणात् क्रमेणास्य प्रत्यानयनम् ४०
एतैरेवेति । कषायकल्कीकृतैः, क्रमेणेति । दिवसक्रमेण स्वयमेव निवर्तते कार्ष्ण्यम् ॥ ४० ॥
श्वेताश्वस्य मुष्कस्वेदैः सप्तकृत्वो भावितेनालक्तकेन रक्तोऽधरः श्वेतो भवति ॥ ४१ ॥
श्वेतेति । मुष्कस्वेदेनेति । वृषणप्रस्वेदेन ॥ ४१ ॥
मदयन्तिकादीन्येव प्रत्यानयनम् ॥ ४२ ॥
मदयन्तिकेति । स्पष्टम् ॥ ४२ ॥
बहुपादिकाकुष्ठतगरतालीसदैवदारुवज्रकन्दकैरुपलिप्तं वंशं वादयतो या शब्दं शृणोति सा वश्या भवति ॥ ४३ ॥
बह्विति । उपलिप्तमिति । औषधजलेन बहिरन्तश्च बहुशः क्षालितोपलिप्तो भवति ॥ ४३ ॥
धत्तूरफलयुक्तोऽभ्यवहार उन्मादकः ॥ ४४ ॥
धत्तूरति । अभ्यवहार इति । यदशनं पानं वा ॥ ४४ ॥
गुडो, जीर्णितश्च प्रत्यानयनम् ॥ ४५ ॥
गुडो भक्षितः प्रत्यानयनम्, अभ्यवहारो वा यदा जीर्णो भवति तदा स्वच्छता ॥ ४५ ॥
हरितालमनःशिलाभक्षिणो मयूरस्य पुरीषेण लिप्तहस्तो यद् द्रव्यं स्पृशति तन्न दृश्यते ॥ ४६ ॥
हरितामालमनःशिलाभक्षिण इति । उपवासं कारितस्य मासेन देयम्॥४६॥
अङ्गारतृणभस्मना तैलेन विमिश्रमुदकं क्षीरवर्णं भवति ॥४७॥