सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

१ अध्याये ] वृष्ययोगप्रकरणम् । ३३५

१ अध्याये ] वृष्ययोगप्रकरणम् । ३३५


नेन मिश्राः, नागवृक्षं नागकेसरम्, एतत् त्रिविधमनुलेपनं देवगन्धर्वना-
गसत्वेष्वेव योजयेत्, सत्त्वपरिज्ञानं च शास्त्रान्तरादवगन्तव्यम् ॥ ३३ ॥

उष्ट्रास्थि भृङ्गराजरसेन भावितं दग्धमञ्जनं नलिकायां निहि-
तमुष्ट्रास्थिशलाकयैव स्रोतोऽञ्जनसहितं पुण्यं चक्षुष्यं वशीकरणं-
चेत्याचक्षते ॥ ३४ ॥

उष्ट्रास्थीति । तण्डुलभेदं कृत्वा, भावितं त्रिःसप्तकृत्वः, दग्धमिति ।
अन्तर्धूमम्, अञ्जनमिति । मषीभावमुपगतं, नलिकायामिति । उष्ट्रास्थि-
नलिकायां, स्रोतोऽञ्जनेन तुल्यभागेन सह दृषदि श्लक्ष्णीकृत्य निहितम्,
उष्ट्रास्थिशलाकयैव घटितया चक्षुषोर्योजितं, पुण्यमिति । पवित्रं, चक्षु-
ष्यन्तिमिराद्यपनयाद्, वशीकरणं चेति । यः प्रथमं दृश्यते स वशीभवति,
शेषं सुभगङ्करणमित्युपदेशः ॥ ३४ ॥

एतेन श्येनभासमयूरास्थिमयान्यञ्जनानि व्याख्यातानि ॥३५॥

इति वशीकरणम् ।

एतेनेति । उष्ट्रास्थ्यञ्जनविधानेन, तत्र भासो गोष्ठः, कर्कटकः पक्षी ॥३५॥
इति वशीकरणं षष्ठितमप्रकरणम् ।

वशीकृताऽपि प्र योज्या रन्तुमसमर्थस्य निष्फलैवेति, वृषाय हिता-
वृष्या योगा उच्यन्ते—

उच्चटाकन्दश्चव्या यष्टीमधुकं च सशर्करेण पयसा पीत्वा
वृषीभवति ॥ ३६ ॥

उच्चटा प्रसिद्धा, तस्याः कन्दः, चव्या वणिग्द्रव्यं, यष्टीमधुकं च,
एतद् गोपयसा सह क्वथितं, सशर्करेणेति । शीतीभूतं शर्करां दत्वा-
पीत्वा वृषीभवति व्यवायक्षम इत्यर्थः ॥ ३६ ॥

मेषवस्तमुष्कसिद्धस्य पयसः सशर्कस्य पानं वृषत्वयोगः॥३७॥

मेषः प्रसिद्धः, वस्तः = छागः, तयोरन्यतरस्य, मुष्कः = वृषणं, तेन
सिद्धस्य क्वथितस्य ॥ ३७ ॥

तथा विदार्याः क्षीरिकायाः स्वयंगुप्तायाश्च क्षीरेण पानम्॥३८॥

विदारी प्रसिद्धा तस्याः कन्दं, क्षीरिका = राजादनं, तस्याः फलानि,
स्वयंगुप्ता = कपिकच्छुः, तस्या मूलं, क्षीरेण पानं क्वथितेन वृषत्वयोगः,
असमासनिर्देशात् प्रत्येकं योगः॥ ३८ ॥

तथा प्रियालबीजानां मोरटाविदार्योश्च क्षीरेणैव ॥ ३९ ॥

३३६ सटीके कामसूत्रे [ ७ अधिकरणे,

प्रियालबीजानामिति । अस्थ्यपनीय गृहीतानामित्येको योगः, मोरटाविदार्योरिति द्वितीयः, तत्र, मोरटा = इक्षुमूलम् ॥ ३९ ॥

शृङ्गाटककसेरुकामधूलिकानि क्षीरकाकोल्या सह पिष्टानि सशर्करेण पयसा घृतेन मन्दाग्निनाोत्कारिकां पक्त्वा यावदर्थं भक्षितवाननन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥ ४० ॥

शृङ्गाटकः प्रसिद्धः, तस्य सर्वं ग्राह्यं, कशेरुका प्रतीता, क्व च मल्लिकासंज्ञया ग्राह्या, मधूलिका मधुकफलत्वाद् मधुकं = यष्टीमधु, क्षीरकाकोली वणिग्द्रव्यं, पिष्टा समांशानि, उत्कारिका = अपूपिका, यावदर्थमिति । यावत्तृप्ति भक्षितवान्, अनन्ता इति । बह्वीः ॥ ४० ॥

माषकमालिनीं पयसा धौतामुष्णेन घृतेन मृदूकृत्योद्धृतां वृद्धवत्सायाः गोः पयःसिद्धं पायसं मधुसर्पिर्भ्यामशित्वाऽनन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥ ४१ ॥

माषकमालिनीं माषद्विदलिकां, पयसा धौतामिति । जलेन निस्तुषीकृत्य संशोध्य च धौतां, वृद्धवत्साया इति । वर्करिकायाः, अशित्वेति । शीतीभूतं मधुसर्पिभ्यां विषमाभ्यां सहेत्यर्थः ॥ ४१ ॥

विदारी स्वयंगुप्ता शर्करा मधुसर्पिर्भ्यां गोधूमचूर्णेन पालिकां कृत्वा यावदर्थं भक्षितवाननन्ताः स्त्रियो गच्छतीत्याचार्याः प्रचक्षते ॥ ४२ ॥

गोधूमचूर्णेनेति । कणिक्यया ॥ ४२ ॥

चटकाण्डरसभावितैस्तण्डुलैः पायसं सिद्धं मधुसर्पिर्भ्यां प्लावितं यावदर्थमिति समानं पूर्वेण ॥ ४३ ॥

चटकेति । ग्राम्यपक्षिणोऽण्डानां रसे भावितैस्तण्डुलैः संपादितं पायसं मधुघृतप्लावितं यदि भुङ्क्ते, ततः प्रभूतरतिशक्तिस्तरुणोऽनन्ताः स्त्रिय उपगच्छतीति पूर्वेणान्वयः ॥ ४३ ॥

चटकाण्डरसभावितानपगतत्वचस्तिलान् शृङ्गारककसेरुकस्वयंगुप्ताफलानि गोधूममाषचूर्णैः सशर्करेण पयसा सर्पिषा च पक्वं संयावं यावदर्थं प्राशितवानिति समानं पूर्वेण ॥ ४४ ॥

चटकाण्डरसेति । ग्राम्यचटकस्य स्वयं स्फुटितेऽण्डे स्वयं मृतेन पोतेन रसकः कार्यं, तेन भावितानीत्यर्थः, अपगतत्वच इति । निस्तुषाः, स्वयंगुप्तायाः फलानि न तु मूलं ग्राह्यं, पक्वं संयावमिति पानकम् ॥४४॥