सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

इति भावपरीक्षा पञ्चचत्वारिंशं प्रकरणम् ।

२४२ सटीक कामसूत्रे [ ४ अधिकरणे,

प्रत्युत्तरेण पश्येच्चेदाकारस्य परिग्रहम् ।
ततोऽभियुञ्जीत नरः स्त्रियं विगतसाध्वसः ॥ ३२ ॥

प्रत्युत्तरेणेति । नायकेन दर्शितस्याकारस्य परिग्रहं नायिकया प्रत्युत्तरेण प्रत्याकारेण प्रक्रियमाणं पश्येत्, तत इति । दृष्टात् परिग्रहाद्, विगतसाध्वस इति । निःशङ्कः, किं सेत्स्यति न वेति शङ्काशून्यः ॥ ३२ ॥

द्विविधाः-स्त्रियः, स्फुटा अस्फुटाश्च, तत्र स्फुटासु नायं विधिरिति दर्शयन्नाह—

आकारेणात्मनो भावं या नारी प्राक्प्रयोजयेत् ।
क्षिप्रमेवाभियोज्या सा प्रथमे स्वेव दर्शने ॥ ३३ ॥

आकारेणेति । नारी याऽन्यदृष्टपूर्वा, प्राक् प्रदर्शयेद् भावम्, प्रथमे स्वेव दर्शने, न द्वितीयादिदर्शनमपेक्षते ॥ ३३ ॥

श्लक्ष्णमाकारिता या तु दर्शयेत्स्फुटमुत्तरम् ।
साऽपि तत्क्षणसिद्धेति विज्ञेया रतिलालसा ॥ ३४ ॥

श्लक्ष्णमाकारितेति । अस्फुटमाकारं ग्राहिता, स्फुटमुत्तरं प्रत्याकारम्, रतिलालसेति । रतिश्रद्धा ॥ ३४ ॥

अस्फुटासु विधिमाह—

धीरायामप्रगल्भायां परीक्षायां च योषिति ।
एष सूक्ष्मो विधिः प्रोक्तः सिद्धा एव स्फुटं स्त्रियः ॥ ३५ ॥

इति वात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे
भावपरीक्षा तृतीयोऽध्यायः ।

धीरायामिति । धीरायां शनैः प्रवर्त्तते, अप्रगल्भा न शनैरपि परीक्षणीया विमृष्य स्फुटा इति, अनन्तरोक्ते द्वे, याश्चाभियोगमात्रसाध्या उक्तास्ताः स्फुटाः सिद्धा एव ॥ ३५ ॥

इति भावपरीक्षा पञ्चचत्वारिंशं प्रकरणम् ।

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे भावपरीक्षा तृतीयोऽध्यायः ।

४ अध्याये ] दूतीकर्मप्रकरणम् । २४३

चतुर्थोऽध्यायः ।

अभियुञ्जानः प्रवृत्तिं परीक्षेत, यत्र स्वयमभियोगासम्भवस्तत्र दूतीप्रयोग इति दूतीकर्माण्युच्यन्ते यदाह—

दर्शितेङ्गिताकारां तु प्रविरलदर्शनामपूर्वां च दूत्योपसर्पयेत् ॥ १ ॥

दर्शितॆङ्गिताकारामिति । इङ्गिताकारौ दर्शयित्वा; का चिदात्मानं दर्शयति न दर्शयति च, कार्ययोगात्, तामपूर्वां चापरिचितां, न दर्शितेङ्गिताकारामित्यर्थः, दूत्योपसर्पयेदात्मसमीपं ढौकयेत् ॥ १ ॥

तत्र मूलभूतस्तिस्रो दूत्यः—निसृष्टार्था परिमितार्था पत्रहारी चेति, तासां सामान्येन कर्माण्वाह—

सैनां शीलतोऽनुप्रविश्याख्यानकपटैः, सुभगङ्करणयोगैः, लोकवृत्तान्तैः, कविकथाभिः, पारदारिककथाभिश्च, तस्याश्च रूपविज्ञानदाक्षिण्यशीलानुप्रशंसाभिश्च तां रञ्जयेत् ॥ २ ॥

सैनामिति । शीलत इति । शीलेनादावनुप्रविश्य, विश्वासार्थं शीलवती भूत्वेत्यर्थः आख्यानकपटैरिति । येषु पटेष्वाख्यानकानि चित्रलिखितानि, सुभगङ्करणयोगैर्वक्ष्यमाणैः, लोकवृत्तान्तैः=पुराणनिबन्धनैः, कविकथाभिरिति । कविभिर्निबद्धाभिर्बिन्दुमतीप्रभृतिभिः, अन्ते पारदारिककथाभिर्गौतमबृहस्पत्यादिदाराणामिन्द्रचन्द्रादिभिरपहरणकथाभिः, अनुप्रविश्य किं कुर्यादित्याह—तस्या इति । नायिकाया रूपं वर्णं संस्थानं च, विज्ञानं शास्त्रकलासु, दाक्षिण्यम्=आनुकूल्यं, शीलं=सुस्वभावता, तेषां प्रशंसाभिः ॥ २ ॥

कथमेवंविधायास्तवायमित्थम्भूतः पतिरिति चानुशयं ग्राहयेत् ॥ ३ ॥

कथमेवंविधायाः=यथोक्तगुणायाः, इत्थंभूतो वैरूप्यादिप्रकारमापन्नः, अनुशयं=विप्रतीसारं, ग्राहयेद्, न भद्रकं पतितं यदहमनेनोढेति ॥ ३ ॥

न तव सुभगे ! दास्यमपि कर्तुं युक्त इति ब्रूयात् ॥ ४ ॥

सुभगे ! इत्यामन्त्रणं जनसौभाग्यख्यापनार्थं, दास्यमपि किमु तव पतित्वम् ॥ ४ ॥

मन्दवेगतामीर्ष्यालुतां शठतामकृतज्ञतां चासम्भोगशीलतां-
कदर्यतां चपलतामन्यानि च यानि तस्मिन्गुप्तान्यस्या अभ्याशे

२४४ सटीके कामसूत्रे [ ४ अधिकरणे,

सति सद्भावेऽतिशयेन भाषेत ॥ ५ ॥

मन्दवेगतां च भाषेत, यदि सा चण्डवेगा, उपलक्षणं चैतद्, शीघ्र-
वेगतां च यदि चिरवेगा, असंभोगशीलतामिति । विषयान्भोक्तुमशी-
लतां, कदर्यतामहीनकामताम्, अन्यानि चेति । पारुष्यनैर्घृण्यदाम्भि-
कत्वादीनि, तस्मिन्पत्यौ, अस्या अभ्यास इति । नायिकायाः समीपे यथा-
ऽन्यो न शृणोति, सति सद्भाव इति । विश्वासे सति, अतिशयेन भाषेत,
येन सा तथैव प्रतिपद्येत ॥ ५ ॥

येन च दोषेणोद्विग्नां लक्षयेत्तेनैवानुप्रविशेत् ॥ ६ ॥

येन चेति । प्रत्यक्षीकृतेन तद्दोषेण तेनैवैनामनुप्रविशेत्, कथितमेव
मया यथाऽयं दोषबहुल इति ॥ ६ ॥

यदाऽसौ मृगी तदा नैव शशतादोषः॥ ७ ॥

नैव शशतादोषः, किं त्वश्वत्वदोषो वाच्यः ॥ ७ ॥

एतेनैव वडवाहस्तिनीविषयश्चोक्तः ॥ ८ ॥

एतेनैवेति । अनन्तरोक्तेन स्वजातीयन्यायेन, वडवाहस्तिनीविषयो
न दोषो वृषत्वमश्वत्वं च, किं तु शशत्वं दोषः ॥ ८ ॥

दूत्योपसर्पयेदिति सामान्येनोक्तमत्र गोणिकापुत्रदर्शनमाह—

नायिकाया एव तु विश्वास्यतामुपलभ्य दूतीत्वेनोपसर्पये-
त्प्रथमसाहसायां सूक्ष्मभावायां चेति गोणिकापुत्रः ॥ ९ ॥

विश्वास्यतामुपलभ्य दूतीत्वेनोपसर्पयेत्, कस्मिन्विषय इत्याह—प्र-
थमसाहसायामिति । या प्रथमं चारित्रं खण्डयति, सूक्ष्मभावायामस्फुट-
भावायाम्, एतदनुमतमप्रतिषिद्धत्वात् ॥ ९ ॥

सा नायकस्य चरितमनुलोमतां कामितानि च कथयेत् ॥१०॥

चरितं शोभनमनुलोमतामानुलोम्यं कामितानि चेति, त्रिविधं कामि-
तं, रतस्यारम्भे मध्येऽवसाने च ॥ १० ॥

प्रसृतसद्भावायां च युक्त्या कार्यशरीरमित्थं वदेत् ॥ ११ ॥

प्रसृतसद्भावायां नायिकायां सत्याम् अन्यथाक्तं दोषकरमपि स्याद्,
युक्त्या, न यथा कथंचिद्, यदर्थं दूतीकल्पस्तत्कार्यशरीरम्, इत्थमिति ।
वक्ष्यमाणप्रकारम् ॥ ११ ॥

शृणु विचित्रमिदं सुभगे ! त्वां किल दृष्ट्वाऽमुत्रासावित्थं गोत्र-
पुत्रो नायकश्चित्तोन्मादमनुभवति प्रकृत्या सुकुमारः कदा चिदन्य-

४ अध्याये ] दूतीकर्मप्रकरणम् । २४५

त्रापरिक्लिष्टपूर्वस्तपस्वी ततोऽधुना शक्यमनेन मरणमप्यनुभवितु-
मिति वर्णयेत् ॥ १२ ॥

चित्रमिदं, यदार्याभिः काम्यमानोऽपि त्वां दृष्ट्वाऽपि चित्तोन्माद-
मनुभवति, एवं च सुभगे ! इत्यामन्त्रणमर्थवद्भवति, किलेति । त्वं दृष्टा-
ऽसीति, परोक्षं ममेत्याह, इत्थं गोत्रपुत्रः, न यस्य कस्य चित्पुत्रः, कार्य-
स्य बलीयस्त्वं दर्शयन्नाह—प्रकृत्येति । अन्यत्रेति । अन्यस्याम्, अपरिक्कि-
ष्टपूर्वस्तद्वचनसिद्धत्वात्स्त्रीणां, तपस्वीति । अनुकम्पायां, शक्यमनेन मर-
णमप्यनुभवितुं विनश्यतीत्यर्थः ॥ १२ ॥

तत्र सिद्धा द्वितीयेऽहनि वाचि वक्त्रे दृष्ट्यां च प्रसादमुपलक्ष्य
पुनरपि कथां प्रवर्तयेत् ॥ १३ ॥

तत्रेति । तस्मिन्नभिधीयमाने, सिद्धा=न प्रत्याख्याता, वाचि वक्त्रे
दृष्ट्यां च त्रिष्वपि, प्रसादं=प्रसन्नतां:, कथां प्रवर्तयेत्सामान्याम् ॥ १३ ॥

शृण्वत्यां चाहल्याऽविमारकशाकुन्तलादीन्यन्यान्यपि लौकि-
कानि च कथयेद्युक्तानि ॥ १४ ॥

शृण्वत्यां स्वकथाम्, अहल्या=गोतमभार्या, तयोत्कण्ठितया देवराजः-
कामितः, अग्निहोत्रकेणाग्निपरिचरणे वधूर्नियुक्ता, सा च कुण्डादुत्थि-
तेन मूर्तिमत्ताऽग्निना कामिता, जातगर्भा च तां श्वशुरः कुलदोषभयाद-
टव्यां तत्याज, प्रसूतां च सह सुतेन शबरसेनापतिरपत्यबुद्ध्या सं-
बर्धितवान् , तत्पुत्रश्चाजाविकसमूहेन बालवयस्त्वात्क्रीडमानः परिश्रमं-
स्तत्क्षीरपानान्महाबलोऽभूद्, येन शिशुरेव हस्तग्रहणादजाविकं जघान,
सेनापतिरप्यन्वर्थमस्य नाम चक्रेऽविमारक इति, ततः प्रवृद्धयौवनः-
कदा चिद्राज्ञोऽटव्यां समावासितस्य दुहितरं हस्तिना व्यापाद्यमानां तं-
हत्वा ररक्ष, ततो जातोत्कण्ठा सा स्वयमेव पाणिं ग्राहितवती, तद्यु-
क्तानि=पारदारिकयुक्तानि ॥ १४ ॥

वृषतां चतुःषष्टिविज्ञतां सौभाग्यं च नायकस्य, श्लाघनीयतां-
चास्य प्रच्छन्नं संप्रयोगं भूतमभूतपूर्वं वा वर्णयेदाकारं चास्य
लक्षयेत् ॥ १५ ॥

वृषतां=व्यवायितां, चतुःषष्टिविज्ञतामिति । गीतादिकायां पाञ्चालि-
कायां च विज्ञतां, सौभाग्यं पुरुषेणाप्यभिलष्यत इति, श्लाघनीयेति ।
यां स्त्रियं श्लाघते, प्रच्छन्नं लोकस्याविदितम्, एवं चाभूतमपि भूतमिव
जातम्, आकारमिति । आक्रियते गृह्यते भावो येनेति, वाक्कायव्यापारोऽत्र

२४६ सटीक कामसूत्रे [ ४ अधिकरणे,

गृह्यते ॥ १५ ॥

सविहसितं दृष्ट्वा संभाषते ॥ १६ ॥

सविहसितमिति । सम्भाषणक्रियाविशेषणमेतत् ॥ १६ ॥

आसने चोपनिमन्त्रयते ॥ १७ ॥

उपनमन्त्रयते, इदमासनमास्यतामिति ॥ १७ ॥

क्वासितं क्व शयितं क्व भुक्तं क्व चेष्टितं किं वा कृतमिति पृच्छति ॥ १८ ॥

चेष्टितं भ्रान्तं, कृतमवश्यकर्तव्यमिति पृच्छति, तेन द्वारेण नायकसम्बद्धं किञ्चिदभिधास्यतीति ॥ १८ ॥

विविक्ते दर्शयत्यात्मानम् ॥ १९ ॥

विविक्ते दर्शयत्यात्मानं, रहस्यं किञ्चिद्वक्ष्यतीति ॥ १९ ॥

आख्यानकान्यनुयुङ्क्ते ॥ २० ॥

आख्यानकान्यनुयुङ्क्तेऽधृतिकथनार्थं नायककथां वा करिष्यतीति ॥ २० ॥

चिन्तयन्ती निःश्वसिति विजृम्भते च ॥ २१ ॥

चिन्तयन्तीति । अन्यगतमानसा, निःश्वसिति विजृम्भते मदनलालसा ॥ २१ ॥

प्रीतिदायं च ददाति ॥ २२ ॥

प्रीतिदायमिति । यत्प्रीत्या दीयते कटकमुत्तरीयं वा तदस्यै ददाति ॥ २२ ॥

इष्टेषूत्सवेषु च स्मरति ॥ २३ ॥

इष्टेषु कार्येषूत्सवेषु च स्मरति, कथमद्य नायातेति ॥ २३ ॥

पुनर्दर्शनानुबन्धं विसृजति ॥ २४ ॥

पुनर्दर्शनानुबन्धमिति । पुनर्मया द्रष्टव्याऽसीति ॥ २४ ॥

त्वद्दर्शनवन् नामश्रवणमपि तं सुखयतीति दूत्या कथायां प्रवर्त्तितायामाह—

साधुवादिनी सती किमिदमशोभनमभिधत्स इति कथामनुबध्नाति ॥ २५ ॥

साधुवादिनीति । साधुवादिनी सती किमिदमशोभनमयुक्तमभिधत्स इत्यभिधाय; कथामनुबध्नाति प्रवर्तयति ॥ २५ ॥

४ अध्याये ] दूतीकर्मप्रकरणम् । २४७

नायकस्य शाठ्यचापल्यसम्बद्धान्दोषान्ददाति ॥ २६ ॥

दोषान्ददातीति । शठोऽसौ न निर्व्याजं व्यवहरति लोके, चपलश्च नैकस्यां रमत इति ॥ २६ ॥

पूर्वप्रवृत्तं च तत्सन्दर्शनं कथाऽभियोगं च स्वयमकथयन्ती तयोच्यमानमाकाङ्क्षते ॥ २७ ॥

तत्सन्दर्शनमिति । नायकदर्शनं यत्तस्याः पूर्वप्रवृत्तं यत्र यदा यथा, कथाऽभियोगं च, पुनः पुनः कथायोगं पूर्ववृत्तं स्वयमकथयन्ती लज्जया, तयोच्यमानं=दूत्या कथ्यमानं, काङ्क्षते तेनापि सुखं स्थीयते ॥ २७ ॥

नायकमनोरथेषु च कथ्यमानेषु सपरिभवं नाम हसति न च निर्वदतीति ॥ २८ ॥

नायकमनोरथेष्विति । स सुदिवसो भविष्यति, यत्र पादपतनैः प्रसादिताया अधरं पास्यामीत्येवमादिषु, दूत्या कथ्यमानेषु, सपरिभवमिव हसति दुराशा तस्य धूर्तस्येति, न च निर्वदति, निश्चयेनाभिधत्ते, सिद्ध्यत्येव तस्य मनोरथ इति ॥ २८ ॥

दूतीविषये नायिकाया आकारे लक्षिते किं फलमित्याह—

दूत्येनां दर्शिताकारां नायकाभिज्ञानैरुपबृंहयेत् ॥ २९ ॥

नायकाभिज्ञानैरिति । यानि नायकस्य तया सह पूर्वं वृत्तानि, तैरुपबृंहयेदत्यन्तमनुरक्तां कुर्यात् ॥ २९ ॥

असंस्तुतां तु गुणकथनैरुरागकथाभिश्चावर्जयेत् ॥ ३० ॥

असंस्तुतामिति । अपरिचिताम्, अभिज्ञानासम्भवाद्, नायकस्य गुणकथनैरुरागकथाभिश्चावर्जयेदभिमुखीकुर्यात् ॥ ३० ॥

अत्राचार्याणां मतभेदमाह—

नासंस्तुतादृष्टाकारयोर्दूत्यमस्तीत्यौद्दालकिः ॥ ३१ ॥

नासंस्तुतादृष्टाकारयोरिति । ययोर्न परिचयो न चाकारदर्शनं च, तस्मिन्विषये न दूत्या कर्म विषयो वाऽस्ति, यत्रेदमुक्तम्—

‘कृतपरिचयां दर्शितेङ्गिताकारां कन्यामिवोपायतोऽभियुञ्जीत’ ॥ ३१ ॥

संसृष्टाकारयोरसंस्तुतयोरप्यस्तीति बाभ्रवीयाः ॥ ३२ ॥

संसृष्टाकारयोरिति । यौ परस्परस्य संसृष्टाकारौ, तयोरसंस्तुतयोरप्यस्त्याकारस्यैव दूत्यनिमित्तत्वाद्, यथोक्तम्—

‘आकारेणात्मनो भावं या नारी प्राक्प्रदर्शयेत् ।
क्षिप्रमेवाभियोज्या सा प्रथमे चैव दर्शने’ ॥ ३२ ॥

२४८ सटीक कामसूत्रे [ ४अधिकरणे,

संस्तुतयोरप्यसंसृष्टाकारयोरस्तीति गोणिकापुत्रः ॥ ३३ ॥

असंसृष्टाकारयोरिति । व्यामिश्रभावत्वात्तदाकारोऽपि संसृष्टशुद्धौ भवति, ततश्च तयोस्संस्तुतयोरपि, यत्रेद्मुक्तम्--
इत्यादि ॥ ३३ ॥
‘धीरायामप्रगल्भायाम्-

असंस्तुतयोरदृष्टाकारयोरपि दूतीप्रत्ययादिति वात्स्यायनः ॥३४॥

दूतीप्रत्ययादिति । दूतीसामर्थ्यादसंसतुतोरपि, अस्मिन्पक्षे त्रितयाभावेऽपि दूत्यमस्ति, यत्रे॒दं वक्ष्यति- कौतुकाख्यानुरूपौ युक्ताविमौ परस्परस्येति ॥ ३४ ॥

तासां मनोहराण्युपायनानि ताम्बूलमनुलेपनं स्रजमङ्गुलीयकं वासो वा तेन प्रहितं दर्शयेत् ॥ ३५ ॥

तासामिति । असंस्तुतानां नायिकानाम्, मनोहराण्युपायनानि कौश-लिकास्ताम्बूलादीनि ॥ ३५ ॥

तेषु नायकस्य यथाऽर्थं नखदशनपदानि तानि तानि च चिह्नानि स्युः ॥ ३६ ॥

तेष्विति । उपायनेषु, यथाऽर्थमिति । यथाप्रयोजनं च संप्रयोगसूचकमेव चिह्नं स्यात् ॥ ३६ ॥

वाससि च कुङ्कुमाङ्कमञ्जलिं निदध्यात् ॥ ३७ ॥

कुङ्कुमाङ्गमञ्जलिमिति । कुङ्कुमेनाङ्कितमञ्जलिं निदध्याद्यथा प्रतिबिम्बमुत्पद्यते, स्वदाराधनपरोऽयं जन इति ख्यापनार्थम् ॥ ३७ ॥

पत्रच्छेद्यानि नानाऽभिप्रायाकृतीनि दर्शयेद्, लेखपत्रगर्भाणि कर्णपत्राण्यापीडांश्च ॥ ३८ ॥

नानाऽभिप्रायाकृतीनीति । नानाऽभिप्राया रतिशोकक्रोधविस्मयादिभावसूचना आकृतिः संस्थानं येषां, लेखपत्रगर्भाणि, मध्ये लेखपत्रंप्रक्षिप्य वेष्टितानि, आपीडांश्च लेखपत्रगर्भान् ॥ ३८ ॥

तेषु स्वमनोरथाख्यापनम् प्रतिप्राभृतदाने चैनां नियोजयेत् ॥३९॥

मनोरथाख्यापनमिति । लेखे लिखित्वा; आचक्षीत, प्रतिप्राभृतं=प्रतिकौशलिकाम् ॥ ३९ ॥

एवं कृतपरस्परपरिग्रहयोश्च दूतीप्रत्ययः समागमः ॥ ४० ॥

कृतपरस्परपरिग्रहयोरिति । कृतान्योन्यस्वीकारयोः, दूतीप्रत्ययः, तयैव तदानीं निर्दिश्यमानत्वात् ॥ ४० ॥

४ अध्याये ] दूतीकर्मप्रकरणम् । २४९

स तु देवताऽभिगमने यात्रायामुद्यानक्रीडायां जलावतरणे विवाहे यज्ञव्यसनोत्सवेष्वग्न्युत्पाते चौरविभ्रमे जनपदस्य चक्रारोहणे प्रेक्षाव्यापारेषु तेषु तेषु च कार्येष्विति बाभ्रवीयाः ॥ ४१ ॥

देवताऽभिगमने, देवतामभिपूजयितुं यद्गमनं तत्र, यात्रायां कस्याञ्चिद्देवतायाः, जलावतरण इति । यदा स्नातुं जनसमूहो जलमवतरति, न चालक्ष्यते स्थानात्स्थानान्तरगमनम्, अग्न्युत्पाते, दह्यमानात्प्रातिवेश्यगृहाद् गृहान्तरगमनं संभवति, चौरविभ्रमे, चौराः किल पतन्तीत्यन्यत्र सुप्यते, चक्रारोहणे, जनपदं निवेशयितुं शिविकारोपणे, तदा ह्यनुष्ठापितप्रकारत्वात्स्त्रीजनो न रक्षितो भवति, तेषु तेषु च कार्येष्विति । तेषु तेषु जनानां संमर्दः शून्यता वा ॥ ४१ ॥

सखीभिक्षुकीक्षपणिकातापसीभवनेषु सुखोपाय इति गोणिकापुत्रः ॥ ४२ ॥

सुखोपाय इति । यदैवेच्छति तदैव भवति ॥ ४२ ॥

तस्या एव तु गेहे विदितनिष्क्रमप्रवेशे चिन्तितात्ययप्रतीकारे प्रवेशनमुपपन्नं च निष्क्रमणमविज्ञातकालं च तन्नित्यं सुखोपायं चेति वात्स्यायनः ॥ ४३ ॥

तस्या एवेति । नायिकायाः, निष्क्रम्यते प्रविश्यते च येन मार्गेण तदुभयं विदितं वीक्षितं यत्र, गेह इति । तत्राप्यविज्ञातकालमनियतकालं, प्रवेशनं निष्क्रमणं चोपपन्नं युक्तमनुपलक्ष्यमाणत्वात् , तदिति । प्रवेशनं निष्क्रमणं चानित्यं, तस्याः सदा संनिहितत्वाद्, न सख्यादिगृहेषु, सुखोपायं च, विदितमार्गत्वात्प्रतिविहितदोषत्वाच्च ॥ ४३ ॥

सामान्येन कर्माण्युक्त्वा दूतीभेदं प्रदर्शयन्नाह—

निसृष्टार्था परिमितार्था पत्रहारी स्वयंदूती मूढदूती मायादूती मूकदूती वातदूती चेति दूतीविशेषाः ॥ ४४ ॥

निसृष्टार्थेति ॥ ४४ ॥

नायकस्य नायिकायाश्च यथामनीषितमर्थमुपलभ्य स्वबुद्ध्या कार्यसम्पादिनी निसृष्टार्था ॥ ४५ ॥

यथामनीषितमिति । यथेप्सितम् , अयमेनां जिगमिषुरियमेनमिति, स्वबुद्ध्या = स्वप्रज्ञया, कार्यसम्पादिनीति । यथा तावनुरज्येते, यथा कृतपरस्परपरिग्रहौ संप्रयुज्येते, तत्तद्विधं कार्यं सम्पादयति दूती, निसृष्टा-

३२ का० सू०

२६० सटीके कामसूत्रे [ ५ अधिकरणे,

र्थेति। इदं करणीयमित्येतावतोऽर्थस्य निसृष्टत्वात् ॥ ४५ ॥

अस्या विषयमाह—

सा प्रायेण संस्तुतसम्भाषणयोः ॥ ४६ ॥

सम्भाषत इति सम्भाषणः, 'कृत्यल्युटो बहुलम्' इति ल्युट्, संस्तुतौ च तौ सम्भाषणौ च, यदि वा संस्तुतं च संभाषणं च ययोरस्तीति मत्वर्थीयोऽकारः, तयोः प्रायेण दृश्यते ॥ ४६ ॥

नायिकया प्रयुक्ता संस्तुतासम्भाषणयोरपि ॥ ४७ ॥

अन्यतरप्रयुक्तविषयस्य सिद्धिगोचरत्वाद्, नायिकया प्रयुक्ता, प्रायेण संस्तुतासम्भाषणयोरपि परिचितावेव केवलं, न तु सम्भाषणमनयोरस्ति यत इदमुक्तम्—
'आदौ परिचयं कुर्यात्ततश्च परिभाषणम्' इति,
तत्रासंभाषमाणोऽपि नायकः संस्तुतत्वात्सुसाध इति प्रायेण दृश्यते, न तु नायिकेति न प्रायेण ॥ ४७ ॥

कौतुकाच्चानुरूपौ युक्ताविमौ परस्परस्येत्यसंस्तुतयोरपि ॥ ४८ ॥

युक्ताविति। युक्ताविमौ समानरूपशीलवयस्कत्वात्परस्परसंयोजने, निसृष्टार्थाया यद्वा कौतुकमुत्पद्यते तस्माच्चासंस्तुतयोरपि द्रष्टव्या न तु प्रायेण, तथाविधार्थस्य कादाचित्कत्वात् ॥ ४८ ॥

कार्यैकदेशमभियोगैकदेशं चोपलभ्य शेषं सम्पादयतीति परिमितार्था ॥ ४९ ॥

कार्यस्याभियोगस्य चैकदेशमसमापितमन्यतरस्मादुपलभ्य, शेषम् = असमापितं, सम्पादयतीति परिमितार्था, परिमितः परिच्छिन्नोऽर्थोऽस्याइति ॥ ४९ ॥

विषयमाह—

सा दृष्टपरस्पराकारयोः प्रविरलदर्शनयोः ॥ ५० ॥

सेति। दृष्टपरस्पराकारयोरिति। आकारग्रहणेन दृष्टं परस्परं याभ्यां किञ्चित्तयोः कार्यशेषं संभाषणं, प्रविरलदर्शनयोरभियोगमात्रशेषम् ॥५०॥

संदेशमात्रं प्रापयतीति पत्रहारी ॥ ५१ ॥

सन्देशमात्रमिति। कार्यस्य स्थिरत्वात्तन्मात्रं, पत्रेण वचसा वा प्रापयतीति पत्रहारीत्यर्थः ॥ ५१ ॥

कस्मिन्विषय इत्याह—

सा प्रगाढसद्भावयोः संसृष्टयोश्च देशकालसम्बोधनार्थम् ॥ ५२ ॥

४ अध्याये ] दूतीकर्मप्रकरणम् । २५१

सेति। प्रगाढसद्भावयोः सम्प्रयोगं प्रत्यभिमुखीभूतत्वात् , संसृष्टयोश्च कृतसंसर्गयोर्द्रष्टव्या, किमर्थमित्याह—देशकालेति। अस्मिन्काले स्थाने वाऽनयोः समागम इति, प्रबोधनार्थमन्यतरेण प्रयुज्यते, आसा·मुक्तेष्वेव कर्मसु यथासम्भवं कर्म द्रष्टव्यम् ॥ ५२ ॥

निसृष्टार्था द्विविधा-तत्रैका परार्था या परेण प्रयुज्यते, द्वितीयाऽऽत्मार्था सा स्वयंदूतीति द्वितीयं नाम लभते, तस्या विधिमाह—

दौत्येन प्रहिताऽन्यया स्वयमेव नायकमभिगच्छेदजानती नाम तेन सहोपभोगं स्वप्ने वा कथयेद्, गोत्रस्खलिते भार्यां चास्य निन्देत्, तद्रूव्यपदेशेन स्वयमीर्ष्या दर्शयेद्, नखदशनचिन्हितं वा किं चिद्दद्याद्, भवतेऽहमादौ दातुं सङ्कल्पितेति चाभिदधीत, मम त्वद्भार्याया वाऽऽकाररमणीयतेति विविक्ते पर्य्यनुयुञ्जीत, सा स्वयंदूती ॥ ५३ ॥

दौत्येनेति। दूतक्रीयया, अन्यया नायिकया प्रहिता या स्वयमेव नायकमभिगच्छेत्कामयेत्सा स्वयंदूतीति संबन्धः, अभिगमोपायोपदेशमाह —अजानतो नामेति। अद्य स्वप्ने त्वयाऽहं किलापभुक्तेति, गोत्रस्खलितं निन्देद्, नैतदीदृशं तदस्मदीयं नाम भूतं येन त्वया भार्याऽऽहूयत इति, भार्यां चास्य निन्देद् युक्तमाह्लातुं यदेयं रूपवती गुणवती वा स्याद्, तद्रूपव्यपदेशेनेति। गोत्रस्खलितमपदिश्य स्वयमीर्ष्या दर्शयेत् सा हि दर्शिता कामं सूचयति, नखादिचिन्हितं भावसूचनार्थं, कचिदिति। ताम्बूलशेखरपूगादिकं ददती चानुरागख्यापनार्थमिदं ब्रूयादित्याह-भवतइति। आकाररमणीयतेति । रमणहिततेति, विविक्तं तमपर्य्यनुयुञ्जीत, किमयं ? प्रतिपत्स्यत इति ॥ ५३ ॥

तस्या विविक्ते दर्शनं प्रतिग्रहश्च ॥ ५४ ॥

तस्या इति। स्वयं दूत्याः, विविक्ते दर्शनं प्रतिग्रहश्चाभियोगश्चास्या·नायकेन कार्यं, यदि तामभिगच्छेद् ॥ ५४ ॥

नायिकाऽपि कदा चिदातुरा विश्वास्यामपश्यन्ती स्वयं दूत्यं प्रतिपद्यत इत्याह--

दूतीच्छलेनान्यामभिसन्धायस्याः सन्देशश्रावणद्वारेण नायकं साधयेत् तां चोपहन्यात्साऽपि स्वयंदूती ॥ ५५ ॥

दूतीच्छलेनेति। दूतीव्याजेनान्यं काश्चिदमिसंधाय; देवदत्तया प्रहिताऽहमिति, तस्या नायिकायाः सन्देशश्रावणद्वारेण नायकं साध-

२५२ सटीक कामसूत्रे [ ५ अधिकरणे,

येत्, तां तु नायिकामुपहन्याद् दोषख्यापनेनेति, स्वयंदूती साऽपि स्वयं सिद्धये प्रवृत्तत्वान्निस्सृष्टार्था एव द्रष्टव्या ॥ ५५ ॥

एतया नायकोऽप्यन्यदूतश्च व्याख्यातः ॥ ५६ ॥

एतयेति। स्वयं दूत्या, दूतो व्याख्यातो त्रिविधः ॥ ५६ ॥

यदा सैव नायिका गूढत्वान्न स्वयं दूत्यं प्रतिपद्यते, तदा नायकं-तद्भार्ययाऽऽकारयेदित्याह--

नायकभार्यां मुग्धां विश्वास्यायन्त्रणयाऽनुप्रविश्य नायकस्य चेष्टितानि पृच्छेद्, योगाञ्शिक्षयेत्, साकारं मण्डयेत्, कोपमेनां ग्राहयेद्, एवं च प्रतिपद्यस्वेति श्रावयेत्, स्वयं चास्यां नखदशनपदानि निर्वर्तयेत्, तेन द्वारेण नायकमाकारयेत्सा मूढदूती॥५७॥

नायकभार्यां चेति । मुग्धां = मूढां, विश्वास्य = विश्वासं प्राप्य, अयन्त्रणयेति । तस्या आत्मनश्च विविक्ते वियोगावेगेनानुप्रविश्य चेष्टितानि पृच्छेत्, साऽभिमुखा विश्वासिता निर्विशेषा सती नायकचेष्टितानि कथयति, योगाञ् शिक्षयेदिति । बुद्ध्वा चेष्टितानि, तदनुरूपान् योगाञ् शिक्षयेद्, योगज्ञां नायको ज्ञास्यतीति, साकारं मण्डयेत्, स्वाभिप्रायसूचनार्थं, कोपमस्मिन्ग्राहयेद्, आत्मनोऽपीर्ष्यां दर्शयितुं; चपलोऽयमन्यस्यां सक्तः किमस्ति ? येन न कुप्यसीति, एवं च प्रतिपद्यस्व, यथाऽहमाचक्ष इति तां श्रावयेत्, तत्प्रतिपत्त्या नामानुकूल्यं ज्ञास्यतीति, स्वयं चास्यां भार्यायां नखदशनपदानि विदधीत संप्रयोगाभिलाषख्यापनार्थं, तेनेति । यथोक्तेन द्वारेण, नायकमाकारयेदाकारं ग्राहयेद्, येनासौ संप्रयोगार्थिनीति विद्यात्, सेति । भार्या मूढदूती, दूत्यर्थापरिज्ञानादियं पत्रहारीप्रकारा द्रष्टव्या ॥ ५७ ॥

तस्यास्तयैव प्रत्युत्तराणि योजयेत् ॥ ५८ ॥

तस्या इति । नायिकायाः, तयैवेति । मूढदूत्या, प्रत्युत्तराणि = प्रत्यभियोगान् योजयेत् ॥ ५८ ॥

'नायकोऽप्यन्यदूतश्च व्याख्यातः' इत्युक्तं, तत्रागोचरे लज्जायां वा यदि स्वयं दौत्यं न प्रतिपद्येत, तदा स्वभार्यया तामाकारयेदित्याह--

स्वभार्यां वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा। तयैवाकारयेदात्मनश्च वैचक्षण्यं प्रकाशयेत्, सा भार्यादूती तस्यास्तयैवाकारग्रहणम् ॥ ५९ ॥

मूढाम् = अज्ञां, विज्ञा हि विकल्पयति, किमिति ? मामनया योजयतीति,

४ अध्याये ] दूतीकर्मप्रकरणम् । २६३

विश्वासेन हेतुना योजयित्वा, तयैवाकारयेत् = स्वभार्ययाऽऽकारं ग्राहयेत्,
प्रकाशयेत्, तदैवात्मनश्च कलासु वैचक्षण्यं कलाकौशलं तयैव प्रकाश-
येत्, सा भार्यादूती पत्रहारीप्रकारा, तयैव = भार्यादूत्या, तस्याः = ना-
यिकायाः, आकारग्रहणं प्रत्युत्तरग्रहणमित्यर्थः ॥ ५९ ॥
यदि स्वभार्याया न गोचरस्तदा किं प्रतिपद्येतेत्याह--

बालां वा परिचारिकामदोषज्ञामदुष्टेनोपायेन प्रहिणुयात्, तत्र
स्रजि कर्णपत्रे वा गूढलेखनिधानं नखदशनपदं वा सा मूकदूती,
तस्यास्तयैव प्रत्युत्तरप्रार्थनम् ॥ ६० ॥

बालां वा परिचारिकां न यां कां चिद्, अदोषज्ञाम् = अधूर्ताम्, अदुष्टे-
नेति । बालक्रोडनकाद्युपायेन, नायिकागृहं प्रति प्रतिदिनं प्रहिणुयात् ,
तत्रेति । तस्यां जातपरिचयायां गूढलेखविधानं च वाचयित्वा, मां नाय-
कोऽप्याकारयतीति, सा प्रतिपद्यते, नखदशनपदानि च स्रजि कर्णपत्रे वा
निदध्यादिति योज्यं, सा मूकदूती, अर्थानभिलपनादियं पत्रहारी-
प्रकारा, तस्या नायिकायास्तयैव प्रत्युत्तरप्रार्थनं, यदि तया कर्ण-
पत्रात् पत्रं गृहीतं किमन्यन्मृगयस इति ॥ ६० ॥
यत्र बालाया अप्यगोचरस्तत्र किं प्रतिपद्येतेत्याह-

पूर्वप्रस्तुतार्थलिङ्गसम्बद्धमन्यजनाग्रहणीयं लौकिकार्थं द्व्यर्थं वा
वचनमुदासीनया श्रावयेत्सा वातदूती, तस्या अपि तयैव प्रत्यु-
त्तरप्रार्थनमिति तासां विशेषाः ॥ ६१ ॥

पूर्वप्रस्तुतेति । नायकयोर्यत्पूर्वप्रस्तुतं प्रवृत्तं कार्यं तस्य चिह्नं तेना-
भिज्ञानार्थं सम्बद्धं वचनम्, अन्यजनाग्रहणीयं, ताभ्यामेव तदर्थस्य
ग्रहणाद्, अत्र म्लेच्छितकविकल्पकला द्रष्टव्या, लौकिकार्थं च लोक-
विदितार्थं, द्व्यर्थमप्रस्तुतार्थस्यापि वाचकत्वाद्, उदासीनया न क्व
चित्प्रतिबद्धया, एवं च सा वातदूतीत्युच्यते, पत्रहारीप्रकारैव चेति,
तयैव प्रत्युत्तरप्रार्थनं, तया हि प्रश्नस्य प्रतिप्रश्नं याचेतेत्यर्थः, तासां-
विशेषा निसृष्टार्थाऽऽदीनां स्वयं दूत्यादयो विशेषाः, एवमन्येऽपि विशेषा-
यथासंभवमत्रैव द्रष्टव्याः, यथाहुर्बाभ्रवीयाः--
'पुत्रिका चित्ररूपाणि पशवः शुकसारिकाः ।
सर्वेषां गूढभावानां दूतकर्माणि कुर्वते, इति ॥ ६१ ॥
यास्तिस्रो दूत्य उक्तास्ताः का इत्याह--
भवन्ति चात्र श्लोकाः-
विधवेश्यानिका दासी भिक्षुकी शिल्पकारिका ।

२५४ | सटीके कामसूत्रे | [ ५ अधिकरणे,

प्रविशत्याशु विश्वासं दूतीकार्यं च विन्दति ॥ ६२ ॥

प्रविशति गृहमिति शेषः, विश्वासं दूतीकार्यं च; बिन्दति=लभते ॥६२॥
सङ्क्षेपेण दूतीकर्माण्र्याह—

विद्वेषं ग्राहयेत्पत्यौ रमणीयानि वर्णयेत् ।
चित्रान्सुरतसम्भोगानन्यासामपि दर्शयेत् ॥ ६३ ॥

विद्वेषं ग्राहयेदिति । तस्य रूपादिप्रशंसाभिः 'अनुशयं ग्राहयेद्' इत्यादिना, रमणीयानि वर्णयेद् 'नायकस्य चरितमनुलोमतां कामितानि च कथयेद्' इत्यनेन, चित्रान्सुरतसम्भोगान्दर्शयेद् 'वृषतां चतुःषष्टिविज्ञतां संवर्णयेद्' इत्यनेन, अन्यासामपि तत्सखीनामग्रतो न केवलं नायिकाया यतस्तास्तस्यै कथयन्ति ॥ ६३ ॥

नायकस्यानुरागं च पुनश्च रतिकौशलम् ।
प्रार्थनां चाधिकस्त्रीभिरवष्टम्भं च वर्णयेत् ॥ ६४ ॥

नायकस्यानुरागं वर्णयेद् 'शृणु विचित्रम्'इत्यादिना, पुनश्च रतिकौशलं वर्णयेत्प्रधानत्वादस्य प्रार्थनां चाधिकं स्त्रीभिर्वर्णयेद्, श्लाघनीयया चास्य प्रच्छन्नं संयोगं भूतमभूतपूर्वं वा वर्णयेद्' इत्यनेन, अवष्टम्भं च नायिकाविषयं निश्चयं तदङ्कशयनं श्मशानशयनं वा, यदुक्तम्--
'शक्यमनेन मरणमप्यनुभवितुम्' इति ॥ ६४ ॥

प्रथमेऽधिकरणे पटुताऽऽदयो दूतगुणा उक्ताः, तेषां पटुता प्रधानमिति दर्शनार्थमाह--

असङ्कल्पितमप्यर्थमुत्सृष्टं दोषकारणात् ।
पुनरावर्तयेच्चैव दूती वचनकौशलात् ॥ ६५ ॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे दूतीकर्माणि चतुर्थोऽध्यायः।

असंकल्पितमपीति । दोषकारणादिति । व्यावृत्तिकारणाद्, नायकेन सन् विकल्पितो न विचिन्तितः, दूती पुनस्तमावर्तयत्यभिमुखीकरोति, वचनकौशलात् पटुतायोगात् ॥ ६५ ॥

इति दूतीकर्माणि षट्चत्वारिंशं प्रकरणम् ॥

इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां पारदारिके पञ्चमेऽधिकरणे दूतीकर्माणि चतुर्थोऽध्यायः ।