सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

२ अध्याये ] आन्तःपुरिकवृत्तप्रकरणम् । २१७

२ अध्याये ] आन्तःपुरिकवृत्तप्रकरणम् । २१७

न चोपालभेत वामतां च न दर्शयेत् ॥ ६८ ॥

न चोपालभेतेति । तवाहमप्रियेति, वामतां प्रातिकूल्यमङ्गगूहनेन न दर्शयेत् ॥ ६८ ॥

यया च कलहितः स्यात्कामं तामावर्तयेत् ॥ ६९ ॥

यया च सपत्न्या कलहितः स्यात्तामावर्तयेदभिमुखीकुर्यात्, काममिति । अभ्युपगमे, अनेनापि प्रकारेण ममाभिमुखः स्यादिति ॥ ६९ ॥

यां च प्रच्छन्नां कामयेत्तामनेन सह संगमयेद्गोपयेच्च ॥ ७० ॥

यां प्रच्छन्नां परस्त्रियं कामयेदनेन दूतीकर्मणा तां संगमयेत्, काममित्येव, मर्माणि चास्य शयनगताऽवबुध्येत, मर्मज्ञतया च विधेयः स्यादिति, गोपयेच्चेतरस्मै नाचक्षीत ॥ ७० ॥

यथा च पतिव्रतात्वमशाठ्यं नायको मन्येत तथा प्रतिविदध्याद् ॥ ७१ ॥

इति दुर्भगावृत्तम्

प्रतिविदध्यादनुतिष्ठेद्, जाड्यदौःशील्ययोः प्रायेण दौर्भाग्यहेतुत्वात् ॥ ७१ ॥

इति दुर्भगावृत्तं सप्तत्रिंशं प्रकरणम् ॥

यथा भार्याया अधिकारो भार्याऽधिकारस्तथा भार्यायां नायकस्यापीति, सप्तमीसमासोऽपि द्रष्टव्यः, अन्यथा नायकेन सङ्गताऽप्यनुवर्तिता न सम्प्रयुज्यते, तत्र नायको द्विविधः—राजा जानपदश्च, तत्र पूर्वमधिकृत्यान्तःपुरिकमुच्यते, अन्तःपुरे भवं वृत्तमान्तःपुरिकम्, ‘रोपधेतोः प्राचाम’ इति वुञ्,

ननु च यथा राज्ञो वृत्तं तथाऽन्तःपुराणामपि वक्तव्यमित्याह—

अन्तःपुराणां च वृत्तमेतेष्वेव प्रकरणेषु लक्षयेत् ॥ ७२ ॥

अन्तःपुराणां चेति । तत्स्थस्त्रीणामेवाभिधानम्, एतेष्वेव प्रकरणेषु लक्षयेत्, तत्राप्येकचारिणीज्येष्ठाऽऽदयः सन्तीति पृथङ्नोक्तम् ॥ ७२ ॥

राज्ञस्तु पृथगुच्यते—

माल्यानुलेपनवासांसि चासां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर्देवीभिः प्रहितमिति ॥ ७३ ॥

आसामिति । आन्तःपुरिकाणां, वासांसि च यथासम्भवं गृहीत्वा, कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुः, देवीभिः प्रहितमिति ॥ ७३ ॥

तदादाय राजा निर्माल्यमासां प्रतिप्राभृतकं दद्यात् ॥ ७४ ॥

२८ का० सू०

२१८ सटीके कामसूत्रे [ ४ अ धिक.२णे,

तदादायेति। माल्यादिकं गृहीत्वा राजा निर्माल्यकं स्वदेहादवतारितं प्रतिप्राभृतकं प्रतिकौशलिकं दद्यादनुरागख्यापनार्थम् ॥ ७४ ॥

अलंकृतश्च स्वलंकृतानि चापराह्वे सर्वान्तःपुराण्यैकध्येन पश्येत् ॥ ७५ ॥

अलंकृतश्चेति। गृहीतनेपथ्यो राजा, ऐकध्येनेति। एकधाशब्दाद्धावे ध्यमुञ्, एकीभूतानित्यर्थः, न तु पृथक् पृथक्, तुल्यवृत्तत्वस्थापना- र्थम् ॥ ७५ ॥

तासां यथाकालं यथाऽर्हं च स्थानमानानुकृत्तिः सपरिहासाश्च कथाः कुर्यात् ॥ ७६ ॥

यथाकालमिति। यद्यस्मिन् काले युज्यते, यथाऽर्हं चेति। यद्यस्याः- कुलवयोऽपेक्षया, स्थानं = नियोगो, मानः = पूजा, आभ्यामनुवृत्तिः कार्या, सपरिहासाः सर्वाकाराः कथाः, परिणीतास्विदं वृत्तम् ॥ ७६ ॥

तदनन्तरं पुनर्भूवस्तथैव पश्येत् ॥ ७७ ॥

तदनन्तरमिति। परिणीतादर्शनानन्तरम्, पुनर्भूवस्तथैव पश्येदैक-ध्येन, तथा स्थानमानानुकृत्तिभिश्च ॥ ७७ ॥

ततो वेश्या आभ्यन्तरिका नाटकीयाश्च ॥ ७८ ॥

आभ्यन्तरिकाः = आन्तःपुरिकाः, नाटकीयाश्च = नाटकहिताश्च, तथैव पश्येदेव ॥ ७८ ॥

तासां यथोक्तकक्षाणि स्थानानि ॥ ७९ ॥

तासामिति। पुनर्वादीनां, यथोक्तकक्षाणीति। मध्ये देवीनां स्थानं, ततो बहिःकक्षे पुनर्भूवां, ततो बहिर्वेश्यानां, ततोऽपि नाट-कीयानामिति ॥ ७९ ॥

वासकपाल्यस्तु यस्या वासकः, यस्याश्चातीतः, यस्याश्च ऋतुस्तत्परिचारिकाऽनुगता दिवा शय्योत्थितस्य राज्ञस्ताभिः प्रहितमङ्गुलीयकमनुलेपनमृतुं वासकं च निवेदयेयुः ॥ ८० ॥

वासकं पालयन्ति या महत्तरिका राजनियुक्तास्ता राज्ञो निवेदयेयुरिति सम्बन्धः, यस्या वासक्रमः प्राप्तः, यस्याश्चातीतो व्यसनोत्सवाभ्यामन्तरितः, ऋतुश्च यस्याः प्रत्युपस्थितः, तत्परिचारिकाऽनुगता इति। तिसृणामपि देव्यादीनां याः परिचारिकास्ताभिरनुगता वासकपाल्यो- दिवा शय्योत्थितस्य भुक्त्वा शयितोत्थितस्य, ताभिरिति। यस्या वासक्रमोऽतीतो यस्याश्च वर्त्तमानो यस्याश्च ऋतुः, अङ्गुलीयकमिति। मुद्रि-