कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
इति कान्ताऽनुवृत्तं द्विपञ्चाशत्तमं प्रकरणम् ॥
३ अध्याये ] अर्थागमोपायप्रकरणम् । २९१
तदेवाकृतकं कृतकं च कामलक्ष्म दर्शयन्नाह--
कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च ।
कर्षयन्त्योऽपि सर्वार्थान्ज्ञायन्ते नैव योषितः ॥ ५७ ॥
इति श्रीवात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे कान्ताऽनुवृत्तं द्वितीयोऽध्यायः ।
कामयन्त इति । अकृतकं कामयन्ते पुरुषं, तदपि न स्थिरमित्याह- विरज्यन्त इति । कृतकं केलिवशाद्रञ्जयन्ति, तदपि न स्थिरमित्याह- त्यजन्तीति, किमर्थमित्याह-कर्षयन्त्योऽपीति । सर्वार्थान् गृह्णन्त्योऽपि त्यजन्तीत्यर्थः, अलक्तकवन्निष्पीडितसारत्वाज्ज्ञायन्ते नैव किंरूपा इति, योषितो वेश्या इत्यर्थः, तस्मात्तास्वतिसक्तिं न कुर्यात्, केवलं यावदर्थं प्रतिपद्येरन्नित्युपदेशः ॥ ५७ ॥
इति कान्ताऽनुवृत्तं द्विपञ्चाशत्तमं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां वैशिके षष्ठेऽधिकरणे कान्ताऽनुवृत्तं द्वितीयोऽध्यायः ।
तृतीयोऽध्यायः ।
एवमनुवर्तितात्कान्ताद्वित्तमाददीत, तच्च नानुपानेन साधयेदित्युक्तम्, इदानीमर्थागमोपाया उच्यन्ते, तच्चादानं द्विविधं-स्वाभाविकमितरच्च, यदाह-
सक्ताद्वित्तादानं स्वाभाविकमुपायतश्च ॥ १ ॥
सक्तादिति । उक्तलक्षणात्, स्वाभाविकं न यत्नमपेक्षते, सक्तस्यार्थेषु निरपेक्षत्वात्, उपायतश्च यदसक्ताद्भवति तद्यात्निकम् ॥ १ ॥
तत्र स्वाभाविकं संकल्पितं संकल्पसमधिकं वा लभमाना नोपायान्प्रयुञ्जीतेत्याचार्याः ॥ २ ॥
तत्र स्वाभाविकं वित्तं संकल्पितम्, एतावत्त्वया देयमिति संकल्पितात्समधिकं वा लभमाना नोपायान्प्रयुञ्जीत, सुलभत्वात्, तेनासंकल्पिते च प्रयोगः ॥ २ ॥
विदितमप्युपायैः परिष्कृतं द्विगुणं दास्यतीति वात्स्यायनः ॥ ३ ॥
विदितमपीति । स्वाभाविकत्वेन समधिकत्वेन च, परिच्छिन्नमप्युपायैः परिष्कृतमुपबृंहितं द्विगुणं दास्यतीति, तत्र प्रयोगो युक्तः ॥ ३ ॥
२९२ सटीक कामसूत्रे [ ६ अधिकरणे,
यैरुपायैरादीयमानेऽप्यर्थे नार्थपरता ज्ञायते तानुपायानाह—
अलंकारभक्ष्यभोज्यपेयमाल्यवस्त्रगन्धद्रव्यादि व्यवहारिषु कालिकमुद्धार्यमर्थप्रतिनयनेन तत्समक्षम् ॥ ४ ॥
अलंकारेति। भक्ष्यं = लड्डुकादि, भोज्यम् = अन्नादि, कृतमकृतं वा, पेयं = सुरादि, वस्त्रं, चतुर्विधं-त्वक्फलकृमिरोमजं, गन्धः = कुङ्कुमादिः, माल्यं = ग्रथितकुसुमादि, आदिशब्दात्ताम्बूलपूगफलपशुभाण्डोपस्करादि, तदुद्धार्यमिति संबन्धः, व्यवहारिष्विति । विक्रेतृषु व्यवस्थितं, कालिकमिति । कालेन देयम् , उद्धार्यमादातव्यमित्यर्थः, अर्थप्रतिनयनेनेति । मूल्यप्रतिदानेन न तु द्रव्यस्यैव प्रतिनयनेन तत्समक्षं यतो दृष्ट्वा स्वयमेव मूल्यं दास्यति ॥ ४ ॥
तच्चित्तप्रशंसा ॥ ५ ॥
तच्चित्तप्रशंसा, तत्समक्षमित्येव, रोचयते मदीयमिति तत्प्रशंसत इति ददाति ॥ ५ ॥
व्रतवृक्षारामदेवकुलतडागोद्यानोत्सवप्रीतिदायव्यपदेशः ॥ ६ ॥
व्रतेति । आगाम्यष्टम्यां मम व्रतं, तत्रानेन प्रयोजनमिति, दर्शे मया वृक्षो रोपितस्तस्य प्रतिष्ठेति, आम्राणां मधूकानां मयाऽऽरामः कार्यः, कृतस्य वा कर्णवेधादिकं कार्यमिति, देवकुलमुत्थापितमुत्थापितस्य वा प्रतिष्ठेति, तडागं पुष्करिण्यादिकं खानितस्य वा प्रतिष्ठेति, उत्सवः परश्वो भविता तत्रानेन प्रयोजनमिति, स्निग्धोऽयमागतस्तस्य प्रीत्याऽवश्यं किंचिद्देयमिति तद्व्यपदेशः ॥ ६ ॥
तदभिगमननिमित्तो रक्षिभिश्चौरैर्वाऽलङ्कारपरिमोषः ॥ ७ ॥
तदभिगमनेति । नायकाभिगमनं निमित्तं यस्य, रक्षिभिर्दण्डपाशिकैः सहायैः कृतसंवित्कैश्चोरैर्वा कृतसंवित्कैरलंकारपरिमोषः कार्यः, येनेयमस्मन्मूलमागच्छन्ती मुषितेति ज्ञात्वाऽन्यमलंकारं प्रयच्छति ॥७॥
दाहात्कुड्यच्छेदात्प्रमादाद्भुवने वार्थनाशः ॥ ८ ॥
दाहादिति । प्रमादादुत्थितेऽग्नौ च दग्धमिति, नाशः प्रकाश्यः न तु स्वयमादीप्योऽनेकप्राण्युपघातदोषात् , कुड्यच्छेदादिति । चोरैः संधिं खात्वाऽपहृतमिति नाशः, चोरव्यञ्जनैर्वा कुड्यच्छेदान्नाशः, प्रमादादिति । मम मातुर्वा प्रमादाद् गृह एव द्रव्यनाशः ॥ ८ ॥
तथा याचितालंकाराणां नायकालंकाराणां च तदभिगमना-र्थस्य व्ययस्य प्रणिधिभिर्निवेदनम् ॥ ९ ॥