रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
अष्टादशः सर्गः ६०९
अष्टादशः सर्गः ६०९
अन्वयः—स्वर्गमिनः तस्य अमात्यवर्गः अनाथदीनाः प्रकृतीः अवेक्ष्य कुलतन्तुं एकं तं ऐकमत्यत् विधिवत् साकेतनाथं चकार ।
स्वरिति । स्वर्गमिनः स्वर्गतिस्य ध्रुवसंधेरमात्यवर्गः । अनाथां नाथहीनां अतएव दीनां शोच्याः प्रकृतीः प्रजा अवेक्ष्य कुलतन्तुं कुलावलम्बनमेकमद्वितीयं तं सुदर्शनमैक मत्याद्विधिवत्साकेतनाथमयोध्याधीश्वरं चकार ।
भाषार्थ—उन स्वर्गगामी राजा के मन्त्रियों ने राजा के न होने से प्रजा की दीन दशा देख कर सर्वसम्मति से उसके एकलौते पुत्र सुदर्शन को विधिपूर्वक साकेत का स्वामी बना दिया ॥ ३६ ॥
नवेन्दुना तन्नमसोपमेयं शावकंसिंहेन च काननेन ।
रघोः कुलं कुङ्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥ ३७ ॥
अन्वयः--अप्रौढनरेन्द्रं तत् रघोः कुलं नवेन्दुना नभसा शावैकसिंहेन कान-नेन च कुङ्मलपुष्करेण तोयेन च उपमेयं आसीत् ।
नवेति । अप्रौढनरेन्द्रं तद्रघोः कुलं नवेन्दुना बालचन्द्रेण नभसा व्योम्ना शावः शिशुरेकः सिंहो यस्मिन् । 'पृथुकः शावकः शिशुः' इत्यमरः । तेन काननेन च कुड्मलं कुड्मलावस्थं पुष्करं पङ्कजं यस्मिंस्तेन तोयेन चोपमेयमुपमातुमर्हमासीत् । नवेन्द्वाद्युपमानेन तस्य वर्धिष्णुताशौर्य श्रीमत्त्वानि सूचितानि ।
भाषार्थ—इस सुदर्शन से राजा रघु का कुल उसी प्रकार शोभा देने लगा जिस प्रकार द्वितीया के चन्द्रमा से आकाश, सिंह के बच्चे से वन और कमल की ताल की शोभा होती है ॥ ३७ ॥
लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः ।
दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ॥ ३८ ॥
अन्वयः—सः मौलिपरिग्रहात् पितु एव भावी लोकेन प्रभावितः हि कलभ-प्रमाणः अपि मेघः पुरोवातं अवाप्य आशाः वृण्वन् दृष्टः ( अस्ति ) ।
लोकेनेति । स बालो मौलिपरिग्रहात्किरीटस्वीकाराद्धेतोः । पितुस्तुल्यः पितृसरूपे एव भावी भविष्यति लोकेन जनेन संभावितस्तर्कितः । तथाहि कलभ-प्रमाणः कलभमात्रोऽपि मेघः पुरोवातमवाप्याशा दिशो वृण्वन्गच्छन्दृष्टो हि ।
भाषार्थ- उस सुदर्शन ने जब सिर पर मुकुट धारण किया तभी प्रजा ने अनु-मान कर लिया कि यह पिता के समान ही तेजस्वी होगा क्योंकि हाथी के बच्चे के समान छोटा बादल भी पूर्वी पवन का सहारा पाकर चारों ओर फैल जाता है ॥ ३८ ॥
३९ २० सम्पू०
३१० रघुवंशमहाकाव्ये
तं राजवीथ्यामभिहस्ति यान्तमाधोरणालम्बितमग्र्यवेशम् ।
षड्वर्षदेशीयमपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण ॥ ३९ ॥
अन्वयः—राजवीथ्यां अधिहस्ति यान्तं आधोरणालम्बितं अग्र्यवेशं षड्वर्षदेशीयं अपि तं पौराः प्रभुत्वात् पितृगौरवेण प्रेक्षन्त ।
तमिति । राजवीथ्यां राजमार्गेऽधिहस्ति हस्तिनि । विभक्त्यर्थेऽव्ययीभावः । यान्तं गच्छन्तम् । हस्तिनमारुह्य गच्छन्तमित्यर्थः । आधोरणालम्बितं शिशुत्वात्सादिना गृहीतमग्र्यवेशमुदारनेपथ्यं षड्वर्षाणि भूतः षड्वर्षः । "तद्धितार्थ०" इत्यादिना समासः । तमधीष्टो भृतो भूतो भावीत्यधिकारे चित्तवति नित्यमिति तद्धितस्य लुक् । ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः '"ईषदसमाप्तौ०" इत्यादिना देशीयरप्रत्ययः । तं षड्वर्षदेशीयमपि बालमपि तं सुदर्शनं पौराः प्रभुत्वात्पितृगौरवेण प्रैक्षन्त । पितरि यादृग्गौरवं ददृशुरित्यर्थः ।
भाषार्थ—जब वे छः वर्ष के छोटे-से राजा हाथी पर चढ़कर राजमार्ग से निकलते थे तब हाथीवान् उनके राजसी वस्त्रों के कोने को पकड़े था कि कहीं वे गिर न पड़ें । उस समय भी उन्हें देखकर जनता उनके पिता के समान ही उनका आदर करती थी ॥ ३९ ॥
कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय ।
तेजोमहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण ॥ ४० ॥
अन्वयः—सः पैतृकस्य सिंहासनस्य प्रतिपूरणाय न अकल्पत चामीकरपिञ्जरेण तेजोमहिम्ना आवृतात्मा ( सन् ) तत् व्याप ।
काममिति । स सुदर्शनः पैतृकस्य सिंहासनस्य कामं सम्यक् प्रतिपूरणाय नाकल्पत । बालत्वाद्ध्याप्तुं न पर्याप्त इत्यर्थः । चामीकरपिञ्जरेण कनकगौरेण तेजोमहिम्ना पुनस्तेजःसम्पदा त्वावृतात्मा विस्तारितदेहः संस्तत्सिंहासनं व्याप्तवान् ।
भाषार्थ—वे छोटे थे इसलिए जब वे अपने पिता के सिंहासन पर बैठते थे तो वह पूरा भरता नहीं था पर उनके शरीर से जो सुवर्ण के समान तेज निकलता था उससे वह भरा सा ही जान पड़ता था ॥ ४० ॥
तस्मादधः किंचिदिवावतीर्णावसंसपृशन्तौ तपनीयपीठम् ।
सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ ॥ ४१ ॥
अन्वयः—तस्मात् अधः किञ्चिदिवावतीर्णौ तपनीयपीठं अस्पृशन्तौ सालक्तकौ अस्य पादौ भूपतयः प्रसिद्धैः मौलिभिः ववन्दिरे ।
तस्मादिति । तस्मात्सिंहासनादपानादधोऽधोदेशं प्रति किञ्चिदिवावतीर्णावीषल्लम्बौ