रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
सप्तमः सर्गः २३१
सप्तमः सर्गः २३१
पर्यस्तं त्रस्तं शिरस्त्राणां शीर्षण्यानां जालं समूहो यस्य तत् । ध्वजस्तम्भेषु निषण्णा
अवष्टब्धा देहा यस्य तत् नरदेवानां राज्ञां सेनैव सैन्यं चातुर्वण्यादित्वात्स्वार्थे
ष्यञ्प्रत्ययः । निद्राविधेयं निद्रापरतन्त्रं तस्थौ ।
भावार्थ—गान्धर्वास्त्र के छोड़ते ही राजाओं की सेना सो गई, नींद से
सैनिकों के हाथ ऐसे रुक गये कि वे अपने धनुष तक को नहीं खींच पाये उनकी
पगड़ियाँ गिर कर एक तरफ कन्धे पर झूलने लगीं और शरीर पताका के खम्भों
के सहारे स्थित हो गया ॥ ६२ ॥
ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः ।
तेन स्वहस्तार्जितमेकवीरः पिवन्यशो मूर्तमिवावभासे ॥ ६३ ॥
अन्वयः—ततः कुमारः प्रियोपात्तरसे अधरोष्ठे जलजं निवेश्य दध्मौ तेन
एकवीरः स्वहस्तार्जितं मूर्तं यशः पिवन् इव आबभासे ।
तत इति । ततः कुमारोऽजः प्रिययेन्दुमत्योपात्तरसे आस्वादितमाधुर्ये
अतिश्लाघ्य इति भावः । अधरोष्ठे जलजं शङ्खं निवेश्य । 'जलजं शङ्खपद्मयोः'
इति विश्वः । दध्मौ मुखामारुतेन पूरयामास । तेनौष्ठनिविष्टेन शङ्खेनैवैकवीरः स
स्वहस्तार्जितं मूर्तं मूर्तिमद्यशः पिवन्निवावभासे । यशसः शुभ्रत्वादिति भावः ।
भाषार्थ—इसके बाद अद्वितीय वीर कुमार अज ने अपनी प्रिया इन्दुमती
के चुम्बन का रसास्वाद लेने वाले अधरोष्ठ पर शंख को रख कर बजाया । उस
समय वे ऐसे जान पड़ते थे मानो अपने बाहुबल से उपार्जित मूर्तिमान् अपने
यश को पी रहे हों ॥ ६३ ॥
शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रु ददृशुः स्वयोधाः ।
निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमा शशाङ्कम् ॥ ६४ ॥
अन्वयः—स्वयोधाः शङ्खस्वनाभिज्ञतया निवृत्ताः सन्त निमीलितानां
पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् इव सन्नशत्रुं तं ददृशुः ।
शङ्खेति । शङ्खस्वनस्याजशङ्खध्वनेरभिज्ञातया प्रत्यभिज्ञत्वानिवृत्ताः प्राक्-
पलाय्य संप्रति प्रत्यागताः स्वयोधाः, सन्नशत्रुं निद्राणशत्रुं तमजं निमीलितानां
पङ्कजानां मध्ये स्फुरन्तं प्रतिमा चासौ शशाङ्कश्च तं प्रतिमाशशाङ्कं प्रतिबिम्बचन्द्र-
मिव ददृशुः ।
भावार्थ—शंख की ध्वनि को पहचान कर लौटे हुए अज के सैनिकों ने सोते
हुए शत्रुओं के बीच में अज को इस प्रकार देखा जिस प्रकार मुकुलित कमलों के
बीच में चन्द्रमा चमक रहा हो ॥ ६४ ॥
२३२ रघुवंशमहाकाव्ये
सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् ।
यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥ ६५ ॥
अन्वयः—'सम्प्रति राघवेण वः यशः हृतं कृपया जीवितं तु न' इति वर्णाः तेन सशोणितैः शिलीमुखाग्रैः पार्थिवानां केतुषु निक्षेपिताः ।
सशोणितैरिति । संप्रति राघवेण रघुपुत्रेण पूर्वं रघुणेति भावः । हे राजानः ! वो युष्माकं यशो हृतम्, जीवितं तु कृपया न हृतम् । न त्वशक्त्येति भावः । इत्येवंरूपा वर्णाः एतदर्थप्रतिपादकं वाक्यमित्यर्थः । सशोणितैः शोणितदिग्धैः शिलीमुखाग्रैर्बाणाग्रैः साधनैस्तेनाजेन प्रयोजककर्त्रा पार्थिवानां राज्ञां केतुषु ध्वज-स्तम्भेषु निक्षेपिताः प्रयोज्यैरन्यैर्निवेशिताः । लेखिता इत्यर्थः । क्षिपतेर्ण्यन्ता-त्कर्मणि क्तः ।
**भाषार्थ—**उन मूर्च्छित पड़े हुए राजाओं की पताकाओं पर रुधिर से लिप्त बाणों के अग्रभाग से अज ने यह लिखवा दिया कि हे राजाओ ! इस समय रघुपुत्र अज ने आप लोगों के यश को तो ले लिया किन्तु दया करके प्राण नहीं लिये ॥ ६५ ॥
स चापकोटिनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः ।
ललाटबद्धश्रमवारिबिन्दुभीतां प्रियामेत्य वचो बभाषे ॥ ६६ ॥
**अन्वयः—**चापकोटिनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः ललाटबद्ध-श्रमवारिबिन्दुः सः भीतां प्रियां प्रेत्य वचः बभाषे ।
स इति । चापकोट्यां निहित एकबाहुर्येन स शिरस्रस्य निष्कर्षणेनापनयनेन भिन्नमौलिः श्लथकेशबन्धः। 'चूडा किरीटो केशाश्च संयता मौलयस्त्रयः' इत्यमरः । ललाटे बद्धाः श्रमवारिबिन्दवो यस्य सः सोऽजो भीतां प्रियामिन्दुमतीमेत्यासाद्य वचो बभाषे ।
**भाषार्थ—**धनुष के एक छोर पर हाथ रखे हुए युद्ध कालीन टोप के हटा देने से बिखरे केश वाले और ललाट पर पसीने की बूंदों से युक्त वे अज युद्ध के देखने से डरी हुई अपनी प्रिया इन्दुमती के पास आकर बोले ॥ ६६ ॥
इतः परानर्भकहार्यशस्त्रान्वैदर्भि ! पश्यनुमता मयासि ।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममेतिः ॥ ६७ ॥
**अन्वयः—**हे वैदर्भि ! त्वं इतः अर्भकहार्यशस्त्रान् परान् पश्य, मया द्रष्टुम् त्वं अनुमता असि, एभिः एवंविधेन आहवचेष्टितेन मम हस्तगता त्वं प्रार्थ्यंसे ।
सप्तमः सर्गः २३३
इत इति। हे वैदर्भि इन्दुमति ! इत इदानीमर्भंकहार्यशस्त्रान्बालकापहार्यायुधा-
न्यपराञ्शत्रून्पश्य । मयानुमतासि द्रष्टुमिति शेषः । एभिर्नृपैरेवंविधेन निद्रारूपेणा-
हवचेष्टितेन रणकर्मणा मम हस्तगता हस्तगतवद्दुर्ग्रहेत्यर्थः । त्वं प्रार्थ्यसे अपजि-
हीष्यंस इत्यर्थः । एवंविधेनेत्यत्र स्वहस्तनिर्देशेन सोपहासमुवाचेति द्रष्टव्यम् ।
भाषार्थ—अयि विदर्भराजकुमारी ! मैं तुम्हें आज्ञा देता हूँ, देखो तो सही
युद्धस्थल में राजा लोग इस प्रकार सोये हुए हैं कि बालक भी इनके अस्त्र छीन
सकते हैं। देखो, इसी बल पर ये मेरे हाथों से तुमको छीनना चाहते थे ॥६७॥
तस्याः प्रतिद्वन्द्विभवाद्दिषादात्सद्यो विमुक्तं मुखमाबभासे ।
निःश्वासबाष्पापगमात्प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ॥ ६८ ॥
अन्वयः—प्रतिद्वन्द्विभवात् विषादात् सद्यः विमुक्तं तस्याः मुखं निःश्वासबा-
ष्पापगमात् आत्मीयं प्रसादं प्रपन्नः नात्मदर्शः इव आबभासे ।
तस्या इति । प्रतिद्वन्द्विभवाद्विपूत्याद्विषादाद् दैन्यात्सद्यो विमुक्तं तस्या मुखं
निःश्वासस्य यो बाष्प ऊष्मा । ‘वाष्पो नेत्रजलोष्मणोः’ इति विश्वः । तस्यापग-
माद्धेतोरात्मीयं प्रसादं नैर्मल्यं प्रपन्नः प्राप्तः आत्मा स्वरूपं दृश्यतेऽनेनेत्यात्मदर्शं
दर्पण इव आबभासे ।
भाषार्थ—जब इन्दुमती को यह निश्चय हो गया कि शत्रु मारे गये तब
उसका मुँह उस दर्पण के समान सुशोभित हो गया जिस पर पड़ी हुई सांस की
भांप पोछ दी गई हो ॥ ६८ ॥
हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् ।
स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥ ६९ ॥
अन्वयः—सा हृष्टा अपि ह्रीविजिता सती प्रियं साक्षात् स्वयं न अभ्यनन्दत्
किन्तु नवाम्भःपृषताभिवृष्टा स्थली अभ्रवृन्दं मयूरकेकाभिः इव सखीनां वाग्भिः
अभ्यनन्दत् ।
हृष्टेति । सेन्दुमती हृष्टापि पत्युः पौरुषेण प्रमुदितापि ह्रिया विजिता यतोऽत
प्रियमजं साक्षात्स्वयं नाभ्यनन्दन्न प्रशंस । किन्तु नवैरम्भःपृषतैः पयोबिन्दुभिर-
भिवृष्टाऽसिक्ता स्थल्यकृत्रिमा भूमिः । “जानपदकुण्डगोणस्थल०” इत्यादिना-
ऽकृत्रिमार्थे ङीप् । अभ्रवृन्दं मेघसंघं मयूरकेकाभिरिव सखीनां वाग्भिरभ्यनन्दत् ।
भाषार्थ—जिस प्रकार नये बादलों की बूंदों से भीगी हुई बनस्थली मयूर के
शब्दों से मेघों का अभिनन्दन करती है, उसी प्रकार अपने पति के पराक्रम से
| २३४ | रघुवंशमहाकाव्ये |
|---|
अत्यन्त प्रसन्न हुई इन्दुमती लज्जा के कारण स्वयं तो कुछ नहीं कह सकी किन्तु सखियों के वचनों द्वारा अज का अभिनन्दन किया ॥ ६९ ॥
इति शिरसि स वामं पादमाधाय राज्ञामुद्वहदनवद्यां तामवद्यादपेतः ।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥ ७० ॥
अन्वयः—अवद्यात् अपेतः सः इति राज्ञां शिरसि वामं पादम् आधाय अनवद्यां तां उदवहत् रथतुरगरजोभिः रूक्षालकाग्रा सा एव तस्य मूर्त्ता समरविजयलक्ष्मीः बभूव ।
इतीति । नोद्यते नोच्यत इत्यवद्यं गर्ह्यम् । “अवद्यपण्यवय्यगर्ह्यपणितव्यानिरोधेषु” इत्यनेन निपातः । “कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः” इत्यमरः । तस्मादपेतः निर्दोष इत्यर्थः सोऽज इति राज्ञां शिरसि वामं पादमाधायानवद्यामदोषां तामिन्दुमतीमुद्वहदुपानयत् । आत्मसाच्चकारेत्यर्थः । अयमर्थः ‘समुद्वहन्तं पथि भोजकन्याम्’ इत्यत्र न श्लिष्टः । तस्याजस्य रथतुरगाणां रजोभी रूक्षाणि परुषाण्यलकाग्राणि यस्याः सा सेन्दुमत्येव मूर्ता मूर्तिमती समरविजयलक्ष्मीर्बभूव । एतल्लाभादन्यः को विजयलक्ष्मीलाभ इत्यर्थः ।
भाषार्थ—इस प्रकार निर्दोष वे अज उन राजाओं के शिरों पर बांया पैर रख कर सर्वाङ्ग सुन्दरी उस इन्दुमती को लेकर चले । रथ के घोड़ों की टापों से उड़ी हुई धूलि से इन्दुमती के केश भर गये थे उस समय वह साक्षात् विजय लक्ष्मी जैसी जान पड़ती थी ॥ ७० ॥
प्रथमपरिगतार्थस्तं रघुः सन्निवृत्तं
विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् ।
तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू-
न्नहि सति कुलधुर्ये सूर्यवंशा गृहाय ॥ ७१ ॥
अन्वयः—प्रथमपरिगतार्थः रघुः विजयिनं श्लाघ्यजायासमेतं सन्निवृत्तं तम् अभिनन्द्य, तदुपहितकुटुम्बः सन् शान्तिमार्गोत्सुकः अभूत् । हि कुलधुर्ये सति सूर्यवंश्याः गृहाय न भवन्ति ।
प्रथमेति । प्रथममजागमनात्प्रागेव परिगतो ज्ञातोऽर्थो विवाहविजयरूपो येन स प्रथमपरिगतार्थो रघुर्विजयिनं विजययुक्तं श्लाघ्यजायासमेतं सन्निवृत्तं प्रत्यागतं तमजमभिनन्द्य तस्मिन्नज उपहितकुटुम्बः सन् । ‘सुतविन्यस्तपत्नीकः’ इति याज्ञवल्क्य-