रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
सप्तदशः सर्गः ५८७
सप्तदशः सर्गः ५८७
कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः ।
अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते ॥ ६० ॥
अन्वयः—कोशेन आश्रयणीयत्वं (भवति) इति तस्य अर्थसंग्रहः, हि अम्बु-
गर्भः जीमूतः चातकैः अभिनन्द्यते ।
कोशेनेति । कोशेनार्थचयेनाश्रयणीयत्वं भजनीयत्वम् । भवतीति शेषः । इति
हेतोस्तस्य राज्ञः कर्तुः अर्थसंग्रहः । न तु लोभादित्यर्थः । तथाहि अम्बुगर्भो यस्य
सोऽम्बुगर्भो जीवनस्य जलस्य मूतः पुटबन्धो जीमूतो मेघः । 'मूङ् बन्धने' पृषोद-
रादित्वात्साधुः । चातकैरभिनन्द्यते । सेव्यते । अत्र कामन्दकः—'धर्महेतोस्तथार्थाय
भृत्यानां रक्षणाय च । आपदर्थं च संरक्ष्यः कोशो धर्मवता सदा' ॥ इति ।
भाषार्थ—राजा अतिथि ने इसलिए धन इकट्ठा किया कि एक तो इससे
आदर होता है और दूसरे दीन लोग आकर आश्रय लेते हैं क्योंकि चातक उन्हीं
बादलों का स्वागत करते हैं जिनमें पानी भरा रहता है ॥ ६० ॥
परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु ।
आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्निपून् ॥ ६१ ॥
अन्वयः—स परकर्मापहः (सन्) स्वेषु कर्मसु उद्यतः अभूत्, रिपून् रन्ध्रेषु
प्रहरन् आत्मनः रन्ध्रं आवृणोत् ।
परकर्मेति । स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः
सन् । ‘‘अन्येष्वपि दृश्यते’’ इत्यपिशब्दसामर्थ्याद्विन्तेर्डप्रत्ययः । किं च रिपून्तरन्ध्रेषु
प्रहरन्नात्मनो रन्ध्रं व्यसनादिकमावृणोत्संवृतवान् । अत्र मनुः—‘नास्य छिद्रं परो
विद्याद्विद्याच्छिद्रं परस्य तु । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ।।' इति ।
भाषार्थ—शत्रुओं का उद्योग नष्ट करके वे राजा अतिथि अपने उद्योग में
लग गये । उन्होंने शत्रुओं के दोषों से लाभ उठाकर उन्हें नष्ट कर दिया और
अपने दोषों को दूर कर दिया ॥ ६१ ॥
पित्रा सम्बर्धितो नित्यं कृतास्त्रः साम्परायिकः ।
तस्य दण्डवतो दण्डःस्वदेहात्न व्यशिष्यत ॥ ६२ ॥
अन्वयः—दण्डवतः तस्य पित्रा नित्यं सम्बर्द्धितः कृतास्त्रः साम्परायिकः
दण्डः स्वदेहात् न व्यशिष्यत ।
पित्रेति । दण्डो दमः सैन्यं वा तद्वतो दण्डतो दण्डसम्पन्नस्य तस्य राज्ञः पित्रा
कुशेन नित्यं सम्बर्धितः कृतास्त्रः शिक्षितास्त्रः सम्परायो युद्धम् । 'युद्धायत्योः सम्प-
५८८ | रघुवंशमहाकाव्ये
राया' इत्यमरः । तमर्हतीति साम्परायिकः । “तदर्हति” इति ठक्प्रत्ययः ।• दण्डः सैन्यम् । 'दण्डो यमे मानभेदे लगुडे दमसैन्ययोः' इति विश्वः । स्वदेहान्न व्यशिष्यत नाभिद्यत । स्वदेहेऽपि विशेषणानि योज्यानि । मूलबलं स्वदेहमिवारक्षदित्यर्थः ।
भाषार्थ—कुशके प्रयत्न से बढ़ी हुई शस्त्रास्त्र चलाने में कुशल और युद्ध करने में समर्थ जो सेना थी, उसे अतिथि अपने शरीर के समान ही प्यार करते थे॥६२॥
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः ।
स चकर्ष परस्मात्तदयस्कान्त इवायसम् ॥ ६३ ॥
अन्वयः—सर्पस्य शिरोरत्नम् इव अस्य शक्तित्रयं परः न चकर्ष । स तु परस्मात् तत् अयस्कान्त आयसम् इव (चकर्ष) ।
सर्पस्येति । सर्पस्य शिरोरत्नमिव अस्य राज्ञः शक्तित्रयं परः शत्रुर्न चकर्ष । स तु परस्माच्छत्रोस्तच्छक्तित्रयम् । अयस्कान्तो मणिविशेष आयसं लोहविकारमिव चकर्ष ।
भाषार्थ—जिस प्रकार सर्प के सिरसे मणि नहीं निकाली जा सकती, उसी प्रकार शत्रु इनके प्रभाव, उत्साह और मन्त्र इन तीन शक्तियों को अपनी ओर नहीं खींच सके, किन्तु जैसे चुम्बक लोहे को अपनी ओर खींच लेता है वैसे ही उन्होंने शत्रुओं की उन शक्तियों को अपनी ओर खींच लिया ॥ ६३ ॥
वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥ ६४ ॥
अन्वयः—स्रवन्तीषु वापीषु इव अद्रिषु उपवनेषु इव अद्रिषु स्वकीयेषु वेश्मसु इव सार्थाः स्वैरं चेरुः ।
वापीष्विति । स्रवन्तीषु नदीषु वापीषु दीर्घिकास्रिव । 'वापी तु दीर्घिका' इत्यमरः । वनेष्वरण्येषूपवनेष्वारामेष्विव । 'आरामः स्यादुपवनम्' इत्यमरः । अद्रिषु वेश्मस्विव सार्था वणिक्प्रभृतयः स्वैरं स्वेच्छया चेरुश्चरन्ति स्म ।
भाषार्थ—राजा अतिथिका का इतना प्रताप था कि व्यापारी लोग ऐसे बेरोक-टोक व्यापार करते थे कि नदियां बांवलियों जैसी, वन उद्यान जैसे सुखकर और पर्वत अपने घर से सुखकर हो गये थे ॥ ६४ ॥
तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च सम्पदः ।
यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक् ॥ ६५ ॥
अन्वयः—विघ्नेभ्यः तपः रक्षन् तस्करेभ्यः सम्पदः च ( रक्षन् ) स आश्रमैः वर्णैः च यथास्वं षडंशभाक् चक्रे ।
सप्तदशः सर्गः
५८९
तप इति। विघ्नेभ्यस्तपो रक्षन् तस्करेभ्यः संपदश्च रक्षन् स राजाश्रमैर्ब्रह्मचर्यादिभिर्वर्णैरपि ब्राह्मणादिभिश्च यथास्वं स्वमनतिक्रम्य षडंशभाक्चक्रे। यथाक्रममाश्रमैस्तपसो वर्णैः सम्पदां च षष्ठांशभाक्कृत इत्यर्थः। षष्ठोऽंशः षडंशः। सङ्ख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमुक्तं प्राक्।
**भाषार्थ—**राजा अतिथि ने विघ्नों से तपस्वियों के तप की रक्षा की, चोरों से प्रजा की सम्पत्तियों को बचाया और चारों वर्ण एवं चारों आश्रमों से उनके अनुसार छठा भाग पाया ॥ ६५ ॥
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान्।
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ॥ ६६ ॥
**अन्वयः—**भूः तस्मै राज्ञे रक्षासदृशं एवं वेतनं दिदेश, खनिभिः रत्नं सुषुवे, क्षेत्रैः सस्यं, वनैः गजान् (सुषुवे)।
खनिभिरिति। भूर्भूमिस्तस्मै राज्ञे रक्षासदृशं रक्षणानुरूपमेव वेतनं भृतिं दिदेश ददौ। कथम्? खनिभिराकरैः 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः। रत्नं माणिक्यादिकं सुषुवे अजीजनत्, क्षेत्रैः सस्यं वनैर्गजान्हस्तिनः सुषुवे।
**भाषार्थ—**जिस प्रकार वे रक्षा कर रहे थे उसी प्रकार पृथ्वी भी उन्हें ऐश्वर्य देती जा रही थी, खानों ने रत्न दिये, खेतों ने अन्न दिया और वनों ने उन्हें हाथी दिये ॥ ६६ ॥
स गुणानां बलानां च षण्णां षण्मुखविक्रमः।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥ ६७ ॥
**अन्वयः—**षण्मुखविक्रमः षण्णां गुणानां बलानां च साधनीयेषु वस्तुषु विनियोगज्ञः बभूव।
स इति। षण्मुखविक्रमः स राजा षण्णां गुणानां सन्धिविग्रहादीनां बलानां मूलभृत्यादीनां च साधनीयेषु वस्तुषु साध्येष्वर्थेषु विनियोगं जानातीति विनियोगस्य ज्ञ इति वा विनियोगज्ञः। कर्मविवक्षायामुपपदसमासः। "आतोऽनुपसर्गे कः" इति कप्रत्ययः। शेषविवक्षायां षष्ठीसमासः। "इगुपधज्ञा०" इत्यादिना कप्रत्ययः। बभूव। 'इदमत्र प्रयोक्तव्यम्' इत्याद्यज्ञासीदित्यर्थः।
**भाषार्थ—**कार्तिकेय के समान पराक्रमी राजा अतिथि यह अच्छी तरह जानते थे कि सन्धि, विग्रह, यान, आसन, संश्रय एवं द्वैधीभाव इन छ राजगुणों को कैसे व्यवहार में लाना चाहिए तथा मूल, भृत्य, सुहृद्वर्ग, शत्रु, आटविक और बल इन छ प्रकार की सेनाओं के साथ कैसा व्यवहार करना चाहिए ॥ ६७ ॥
| ५९० | रघुवंशमहाकाव्ये |
|---|
इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् ।
आतीर्थादप्रतिघातं स तस्याः फलमानशे ॥ ६८ ॥
अन्वयः— इति चतुर्विधां राजनीतिं क्रमात् प्रयुञ्जानः सः आतीर्थात् तस्याः फलं अप्रतिघातं आनशे ।
इतीति । इति चतुर्विधाम् । सामाद्युपायैरिति शेषः । राजनीतिं दण्डनीतिं क्रमात्सामादिक्रमादेव प्रयुञ्जानः स राजा तीर्थान्मन्त्र्याद्यष्टादशात्मकतीर्थपर्यन्तम् । 'योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात्' इति हलायुधः । तस्या नीतेः फलमप्रतिघातमप्रतिबन्धं यथा तथानशे प्राप्तवान् । मन्त्र्यादिषु यमुद्दिश्य य उपायः प्रयुज्यते स तस्य फलतीत्यर्थः ।
भाषार्थ— इस प्रकार साम, दाम, दण्ड और भेद इन चार उपायों के साथ राजनीति चलाते हुए राजा अतिथि ने उन उपायों का निर्विघ्न फल पा लिया ॥६८॥
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।
भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी ॥ ६९ ॥
अन्वयः— कूटयुद्धविधिज्ञे अपि सन्मार्गयोधिनि तस्मिन् वीरगामिनी श्रीः अभिसारिका वृत्ति भेजे ।
कूटेति । कूटयुद्धविधिज्ञेऽपि कपटयुद्धप्रकाराभिज्ञे सन्मार्गेण योधिनि धर्मयोद्धरि तस्मिन्नतिथौ वीरगामिनी जयश्रीरभिसारिकावृत्तिं भेजे । 'कान्तार्थिनी तु या याति सङ्केतं साभिसारिका' इत्यमरः । जयश्रीस्तमन्विष्यागच्छदित्यर्थः ।
भाषार्थ— वे कपट-युद्ध भी जानते थे पर युद्ध क्षेत्र में वे धर्म की लड़ाई ही लड़ते थे इसलिए वीरों की सखी जयश्री उनके पास अभिसारिका के समान चुपके से पहुँचती थी ॥ ६९ ॥
प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः ।
रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः ॥ ७० ॥
अन्वयः— अरीणां प्रतापभग्नत्वात् तस्य गन्धभिन्नान्यदन्तिनः गन्धद्विपस्य इव प्रायः रणः दुर्लभः ( भवति ) ।
प्राय इति । अरीणां सर्वेषामपि प्रतापेनातितेजसैव भग्नत्वात्तस्य राज्ञः गन्धेन मदगन्धेनैव भिन्ना भग्ना अन्ये दन्तिनो येन तस्य गन्धद्विपस्येव प्रायः प्रायेण रणो दुर्लभः । खलर्थयोगेऽपि शेषविवक्षायां षष्ठीमिच्छन्तीत्युक्तम् ।
भाषार्थ— युद्ध क्षेत्र में अतिथि को देखते ही शत्रुओं के छक्के छूट जाते थे और वे प्राण लेकर भाग खड़े होते थे, इसलिए जैसे बिना मद वाले हाथी मतवाले