रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
षोडशः सर्गः ५६१
षोडशः सर्गः ५६१
अन्वयः—विशांपतिः विभूषणप्रत्युपहारहस्तं उपस्थितं तं वीक्ष्य सौपर्णं अस्त्रं प्रतिसञ्जहार हि सन्तः प्रह्वेषु निर्बन्धरुषः ( भवन्ति ) ।
विभूषणेति । विशाम्पतिर्मनुजपतिः कुशः । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । विभूषणं प्रत्युपहरति प्रत्यर्पयतीति विभूषणप्रत्युपहारः । कर्मण्यण् । विभूषणप्रत्युपहारो हस्तो यस्य तम् । उपस्थितं प्राप्तं तं कुमुदं वीक्ष्य सौपर्णं गारुत्मतमस्त्रं प्रतिसञ्जहार । तथाहि सन्तः प्रह्वेषु नम्रेष्वनिर्वन्धरुषोऽनियतकोपा हि ।
भाषार्थ—राजा कुशने आभूषणरूप प्रत्युपहार को लेकर उपस्थित उस नाग को देख कर धनुष पर-से गारुडास्त्र उतार लिया, क्योंकि सज्जन लोग उनपर क्रोध नहीं करते जो नम्र होकर उनके आगे आ जाते हैं ॥ ८० ॥
त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान्।
मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्द्धाभिषिक्तं कुमुदो बभाषे ॥८१॥
अन्वयः—अस्त्रविद्वान् कुमुदः त्रैलोक्यनाथं (अतएव) प्रभावात् द्विषां अंकुशं मूर्द्धाभिषिक्तं कुशं मानोन्नतेन अपि मूर्ध्ना अभिवन्द्य बभाषे ।
त्रैलोक्येति । अस्त्रं विद्वानस्त्रविद्वान् । “न लोकाव्ययनिष्ठाखलर्थतृनाम्” इत्यनेन षष्ठीसमासनिषेधः । “द्वितीया श्रिता०” इत्यत्र गम्यादीनामुपसंख्यानाद् द्वितीयेति योगविभागाद्वा समासः । गरुडास्त्रमहिमाभिज्ञ इत्यर्थः । कुमुदः । त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । त्रैलोक्यनाथो रामः प्रभवो जनको यस्य तम् । अतएव प्रभावाद् द्विषामंकुशं निवारकं मूर्द्धाभिषिक्तं राजानं मानोन्नतेनापि मूर्ध्नाभिवन्द्य प्रणम्य बभाषे ।
भाषार्थ—त्रिलोकीनाथ राम के पुत्र तथा शत्रुओं को अंकुश के समान दुख देने वाले राजा कुश को मान से उन्नत अपना शिर नम्र करके कुमुद प्रणाम करके बोला क्योंकि वह कुश के बाण की शक्तिको भलीभाँति जानता था ॥८१॥
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् ।
सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतेर्विघातम् ॥८२॥
अन्वयः—त्वां कार्यान्तरमानुषस्य विष्णोः सुताख्यां अपरां तनुं अवैमि । सः अहं आराधनीयस्य तव धृतेः विघातं कथं नाम आचरेयम् ।
अवैमीति । त्वाम् ओदनान्तरस्तण्डुल इतिवत्कार्यान्तरः कार्यार्थः । 'स्थानात्मीयान्यतादर्थ्यरन्ध्रान्त्येषु चान्तरम्' इति शाश्वतः । स चासौ मानुषश्चेति तस्य विष्णोः रामस्य सुताख्यां पुत्रसंज्ञामपरां तनुं मूर्तिमवैमि । 'आत्मा वै पुत्रनामासि' इति
३६ र० सम्पू०
५६२ रघुवंशमहाकाव्ये
श्रुतेरित्यर्थः । स जानन्नहमागराधनीयस्योपास्यस्य तव धृतेः प्रीतेः । 'धृ प्रीतौ' इति धातोः स्त्रियां क्तिन् । विघातं कथं नामाचरेयम् । असम्भावितमित्यर्थः ।
भाषार्थ--मैं जानता हूँ कि आप राक्षसों का नाश करने के लिए मनुष्य शरीर धारण करने वाले विष्णु के पुत्र हैं इसलिए आप पूज्य हैं फिर मैं आप से वैर कैसे कर सकता हूँ ? ॥ ८२ ॥
कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन ।
ह्रदात्पतज्ज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम् ॥८३॥
अन्वयः—कराभिघातेनोत्थितकन्दुका इयं बालातिकुतूहलेन अन्तरिक्षात् ज्योतिः इव ह्रदात् पतत् त्वदीयं जैत्राभरण आलोक्य आदत्त ।
करंति । कराभिघातेनोत्थित ऊर्ध्वं गत कन्दुको यस्याः सा कन्दुकार्थमूर्ध्वं पश्यन्तीत्यर्थ इयं बालातिकुतूहलेनात्यन्तकोतुकेनान्तरिक्षाज्ज्योतिनक्षत्रमिव । ‘ज्योतिर्भद्योतदृष्टिपु’ इत्यमरः । ह्रदात्पतत्त्वदीयं जैत्राभरणमालोक्यादत्त।गृहात् ।
भाषार्थ—यह मेरी अबोध बालिका गेंद खेल रही थी, इसकी थपकी से गेंद ऊपर उछल गई, उसे देखने के लिये उसने ऊपर आँखें उठाई तो देखा कि आकाश से गिरते हुए तारे के समान आप का आभूषण नीचे चला जा रहा है इसने उसे झट पकड़ लिया ॥ ८३ ॥
तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन ।
भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥८४॥
अन्वयः—तत् एतत् आजानुविलम्बिना ज्याघातरेखाकिणलाञ्छनेन भूमेः रक्षापरिघेण ते अंसलेन भुजेन पुनः योगं उपैतु ।
तदिति । तदेतदाभरणमाजानुविलम्बिना दीर्घेण ज्याघातेन या रेखा रेखाकारा ग्रन्थयस्तासां किणं चिह्नं तदेव लाञ्छनं यस्य तेन भूमेः रक्षायाः परिघेण रक्षार्गलेन । ‘परिघो योगभेदास्त्रमुद्गरेऽर्गलघातयोः’ इत्यमरः । अंसलेन बलवता ते भुजेन पुनर्योगं संगतिमुपैतु । एतैर्विशेषणैर्महाभाग्यशौर्यधुरन्धरत्वबलवत्त्वादि गम्यते ।
भाषार्थ—आप उसे लीजिये और अपनी उस मोटी घुटनों तक लम्बी भुजा में फिर बांध लीजिये जिसमें धनुष की डोरी फटकार से घट्ठं पड़ गये हैं और जो पृथ्वी की रक्षा करती है ॥ ८४ ॥
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् ।
आत्मनपराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते ॥८५॥
षोडशः सर्गः
५६३
**अन्वयः—**हे पार्थिव ! ते पादयोः चिराय शुश्रूषया आत्मापराधं नुदतीं इमां मे यवीयसीं स्वसारं कुमुद्वतीं अनुमन्तुं न अर्हसि ? ।
इमामिति । किञ्च हे पार्थिव ! ते तव पादयोश्चिराय शुश्रूषया परिचर्यया । 'शुश्रूषा श्रोतुमिच्छा या परिचर्याप्रदानयोः' इति विश्वः । आत्मापराधमाभरणग्रहणरूपं परिजिहीर्षन्तीमित्यर्थः । "आशंसायां भूतवच्च"इति चकाराद्वर्तमानार्थे शतृप्रत्ययः । "आच्छीनद्योर्नुम्" इत्यस्य वैकल्पिकत्वान्नुमभावः । इमां मे यवीयसीं कनिष्ठां स्वसारं भगिनीं कुमुद्वतीमनुमन्तुं नार्हसीति न । अर्हस्येवेत्यर्थः ।
**भाषार्थ—**यह मेरी छोटी बहन कुमुद्वती जीवन भर आपकी सेवा करके अपना अपराध मिटाना चाहती है इसलिये आप इसे अपनी पत्नी के रूप में ग्रहण कर लीजिये ॥ ८५ ॥
इत्यूचिवानुपहृताभरणः क्षितीशं
श्लाघ्यो भवान्स्वजन इत्यनुभाषितारम् ।
संयोजयां विधिवदास समेतबन्धुः
कन्यामयेन कुमुदः कुलभूषणेन ॥ ८६ ॥
**अन्वयः—**इति ऊचिवान् उपहृताभरणः कुमुदः भवान् श्लाघ्यः स्वजनः इति अनुभाषितारं क्षितीशं समेतबन्धुः (सन् ) कन्यामयेन कुलभूषणेन विधिवत् संयोजयामास ।
इतीति । इति पूर्वश्लोकोक्तमूचिवानुक्तवान् । ब्रुवः क्वसुः । उपहृताभरणः उपहृतमाभरणं यस्मै प्रत्यर्पिताभरणः कुमुदः । हे कुमुद ! भवाञ्श्लाघ्यः स्वजनो बन्धुः इत्यनुभाषितारमनुवक्तारं क्षितीशं कुशं समेतबन्धुः सन् कन्यामयेन कन्यारूपेण कुलयोर्भूषणेन विधिवत्संयोजयामास । न केवलं तदीयमेव किंतु स्वकीयमपि भूषणं तस्मै दत्तवानिति ध्वनिः । आम्प्रत्ययानुप्रयोगयोर्व्यवधानं तु प्रागेव समाहितम् ।
**भाषार्थ—**यह कहकर कुमुद ने वह आभूषण कुश को दे दिया । कुश बोले, आज से आप मेरे आदरणीय सम्बन्धी हो गये । यह सुनकर उसने अपने कुटुम्बियों को बुलाकर बड़ी धूम-धाम से कुमुद्वती को कुश से ब्याह दिया ॥ ८६ ॥
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते
माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ।
दिव्यस्तूर्यध्वनिरुदचरद्व्यञ्जुवानो दिगन्तान्
गन्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः ॥ ८७ ॥
| ५६४ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—मनुजपतिना साहचर्याय मांगत्योर्णावलयिनि तस्याः हस्ते उच्छिखस्य पावकस्य पुरः स्पृष्टे दिगन्तान् व्यश्नुवानः दिव्यस्तूर्यध्वनिः उदचरत् तदनु आश्चर्यमेघाः गन्धोदग्रं पुष्पं ववृषुः।
तस्या इति। मनुजपतिना कुशेन साहचर्याय सहधर्मचारणायेत्यर्थः। माङ्गल्या मङ्गले साधुर्योर्णा मेषादिलोम। 'ऊर्णा मेषादिलोम्नि स्यात्' इत्यमरः। अत्र लक्षणया तन्निर्मितं सूत्रमुच्यते। तया वलयिनि बलयवति तस्याः कुमुद्वत्या हस्ते पाणावुच्छिखस्योदर्चिषः पावकस्य पुरोऽग्रे स्पृष्टे गृहीते सति दिगन्तान्व्यश्नुवानो व्याप्नुवन् दिव्यस्तूर्यध्वनिरुदचरदुत्थितः। तदन्वाश्चर्या अद्भुता मेघा गन्धेनोदग्रमुत्कटं पुष्पं पुष्पाणि। जात्यभिप्रायेणैकवचनम् ववृषुः। आश्चर्यशब्दस्य 'रौद्रं तूग्रममी त्रिषु। चतुर्दश' इत्यमरवचनात्त्रिलिङ्गत्वम्।
भाषार्थ—जब राजा कुश ने अपनी सहधर्मिणी बनाने के लिये प्रज्वलित अग्नि के आगे उस कुमुद्वती का कङ्कन बँधा हुआ हाथ पकड़ा, उस समय तुरही आदि दिव्य वाद्यों की ध्वनि से दिशायें गूंज उठीं और आश्चर्य युक्त मेघों ने सुगन्धित पुष्पों की वर्षा की॥ ८७॥
इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं
लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य।
एकः शङ्कां पितृवधरिपोस्त्यजद्वैनतेया-
च्छान्तव्यालामवनिमपरः पौरकान्तः शशास॥ ८८॥
अन्वयः—इत्थं नागः त्रिभुवनगुरोः औरसं मैथिलेयं बन्धुं लब्ध्वा, कुशः अपि च तक्षकस्य पञ्चमं पुत्रं तं (बन्धुं लब्ध्वा) एकः पितृवधरिपोः वैनतेयात् शंकाम् अत्यजत् अपरः शान्तव्यालाम् अवनिं पौरकान्तः सन् शशास।
इत्थमिति। इत्थं नागः कुमुदः त्रयाणां भुवनानां समाहारस्त्रिभुवनं। "तद्धितार्थ०" इत्यादिना तत्पुरुषः। अदन्तद्विगुत्वेऽपि पात्राद्यदन्तत्वान्नपुंसकत्वम्। 'पात्राद्यदन्तरनेकार्थो द्विगुर्लक्ष्यानुसारतः' इत्यमरः। तस्य गुरु रामः तस्यौरसं धर्मपत्नीजं पुत्रम् 'औरसो धर्मपत्नीजः' इति याज्ञवल्क्यः। मैथिलेयं कुशं बन्धुं लब्ध्वा कुशोऽपि च तक्षकस्य पञ्चमं पुत्रं तं कुमुदं बन्धुं लब्ध्वा एकस्तयोरन्यतरः कुमुदः पितृवधेन रिपोर्वैनतेयाद् गरुडात् गुरुणा वैष्णवांशेन कुशेन। त्याजितक्रौर्यादिति भावः। शङ्कां भयमत्यजत्। अपरः कुशः शान्तव्यालां कुमुदाज्ञया वीतसर्पभयामवनिमन्त एव पौरकान्तः पौरप्रियः सञ्छशास।
भाषार्थ—इस प्रकार नागराज कुमुदने त्रिलोकीनाथ राम के और मैथिली-