सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

षष्ठः सर्गः १८५

षष्ठः सर्गः १८५

अन्वयः—उत्तमसौकुमार्या सा अभिद्योतितबन्धुपद्मे प्रतापसंशोषित शत्रुपङ्के तस्मिन् कुमुद्वती भानुमती इव भावं न बबन्ध ।

तस्मिन्निति । उत्तमसौकुमार्योत्कृष्टाङ्गमार्दवा सेन्दुमती अभिद्योतितान्युल्लसितानि बन्धव एव पद्मानि येन तस्मिन् प्रतापेन तेजसा संशोषिताः एव पङ्काः कर्दमा येन तस्मिन्नवन्तिनाथे कुमुद्वतीम् । "कुमुदनड्वेतसेभ्यो ड्मतुप्" इति ड्मत्तुप्प्रत्यय भानुमत्यंशुमतीव भावं चित्तं न बबन्ध न तत्रानुरागमकरोदित्यर्थः । पद्मत्वेन शत्रूणां पङ्कत्वेन च निरूपणं राज्ञः सूर्यसाम्यार्थम् ।

भाषार्थ—अत्यन्त सुकुमारी उस कुमारी इन्दुमती को मित्रों को प्रसन्न करने बाला और शत्रुओं का संहारक वह प्रतापी राजा उसी प्रकार अच्छा नहीं लगा जिस प्रकार कुमुदिनी को वह सूर्य अच्छा नहीं लगता जो कमलों को खिलाता है और कीचड़ को सुखा देता है ॥ ३६ ॥

तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् ।
विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा ॥ ३७ ॥

अन्वयः—सुनन्दा तामरसान्तराभां गुणैः अनूनां विधातुः ललितां सृष्टिं सुदतीं तां अनूपराजस्य अग्रतः विधाय भूयः जगाद ।

तामिति । सुनन्दा तामरसान्तराभां पद्मोदरतुल्यकान्ति कनकगोरीमित्यर्थः । गुणैरनूनाम् अधिकामित्यर्थः । शोभना दन्ता यस्याः सा सुदती । "वयसि दन्तस्य दतृ" इति दत्तादेशः । "उगितश्च" इति ङीप् । तां प्रकृतां प्रसिद्धां वा विधातुर्ललितां सृष्टि मधुरनिर्माणां स्त्रियमित्यर्थः । अनुगता आपो येषु तेऽनूपा नाम देशाः । "ऋक्पूरब्ध्रुः पथामनक्षे" इत्यप्प्रत्ययः समासान्तः । "ऊदनोर्देशे" इत्यूदादेशः । एनां राज्ञोनूपराजस्याग्रतो विधाय व्यवस्थाप्य भूयः पुनर्जगाद ।

भाषार्थ—कमल के समान कान्तिवाली, गुणों से परिपूर्ण, ब्रह्मा की मनोहर रचना और सुन्दर दांतों वाली उस इन्दुमती को वहाँ से अनूप देश के राजा के सामने ले जाकर सुनन्दा फिर बोली ॥ ३७ ॥

सङ्ग्रामनिर्विष्टसहस्रबाहुरष्टादशद्वीपनिश्वातयूपः ।
अनन्यसाधारणराजशब्दो बभूव योगी किल कार्त्तवीर्यः ॥ ३८ ॥

अन्वयः—संग्रामनिविष्टसहस्रबाहुः अष्टादशद्वीपनिश्वातयूपः अनन्यसाधारणराजशब्दः योगी कार्त्तवीर्यः बभूव किल ।

सङ्ग्रामेति । सङ्ग्रामेषु युद्धेषु निर्विष्टा अनुभूताः सहस्रं बाहवो यस्य स तथोक्तः युद्धादन्यत्र द्विभुज एव दृश्यत इत्यर्थः । अष्टादशसु द्वीपेषु निखाता स्था-

१८४ | रघुवंशमहाकाव्ये

पिता यूपा येन स तथोक्तः सर्वक्रतुयाजी सार्वभौमश्चेति भावः । जरायुजादि-
सर्वभूतरञ्जनादनन्यसाधारणो राजशब्दो यस्य तथोक्तः योगी ब्रह्मविदित्यर्थः । स
किल भगवतो दत्तात्रेयाल्लब्धयोग इति प्रसिद्धिः । कृतवीर्यस्यापत्यं पुमान्कार्त-
वीर्यो नाम राजा बभूव किलेति । अयं चास्य महिमा सर्वोऽपि दत्तात्रेयवरप्रसाद-
लब्ध इति भारते दृश्यते ।

भाषार्थ—पहले कार्तवीर्य नामक एक योगाभ्यासी राजा हो गये हैं उनमें
यह विशेषता थी कि जब वे युद्ध में लड़ने जाते थे तब उनके हजारों हाथ
निकल जाते थे । उन्होंने अट्ठारहों द्वीपों में जाकर यज्ञस्तम्भों को गाड़ दिया
था । वे ऐसे प्रतापी थे कि उनके सामने कोई अपने को राजा नहीं कह सकता
था ॥ ३८ ॥

अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् ।
अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥ ३६ ॥

अन्वयः—विनेता यः अकार्यचिन्तासमकालं एव पुरस्ताच्चापधरः प्रादुर्भवन् सन् प्रजानाम् अन्तःशरीरेषु अपि अविनयं प्रत्यादिदेश ।

अकार्येति । विनेता शिक्षको यः कार्तवीर्यः अकार्यस्यासत्कार्यस्य चिन्तया अहं चौर्यादिकं करिष्यामीति बुद्ध्या समकालमेककालमेव यथा तथा पुरस्तादग्रे चापधरः प्रादुर्भवन्सन् प्रजानां जनानाम् । 'प्रजा स्यात्संततौ जने' इत्यमरः अन्तः-शरीरेष्वन्तःकरणेषु शरीरशब्देनेन्द्रियं लक्ष्यते । अविनयमपि प्रत्यादिदेश । मानसापराधमपि निवारयामासेत्यर्थः । अन्ये तु वाक्कायापराधमात्रप्रतिकर्तार इति भावः ।

भाषार्थ—इनकी प्रजाओं में से जो कोई व्यक्ति ज्यों ही किसी बुरे कार्य को करने का मन में विचार करता था त्यों ही उसे ऐसा मालूम पड़ता था कि धनुष बाण हाथ में लिए हुए राजा कार्तवीर्यार्जुन हमें दण्ड देने के लिए सामने उपस्थित हैं । इसलिए इनकी प्रजायें किसी अकार्य को करने का विचार तक भी नहीं करती थी ॥ ३९ ॥

ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरम्परेण ।
कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमाप्रसादात् ॥ ४० ॥

अन्वयः—ज्याबन्धनिष्पन्दभुजेन विनिःश्वसद्वक्त्रपरम्परेण निर्जितवासवेन लङ्केश्वरेण यस्य कारागृहे आप्रसादात् उषितम् ।

ज्याबन्धेति । ज्याया मौर्व्या बन्धेन बन्धनेन निष्पन्दा निश्चेष्टा भुजा यस्य तेन विनिःश्वसती ज्याबन्धोपरोधाद्दीर्घं निःश्वसन्ती वक्त्रपरम्परा दशमुखी यस्य तेन निर्जितवासवेनेन्द्रविजयिना अत्रेन्द्रादयोऽप्यनेन जितप्राया एवेति भावः । लङ्केश्वरेण

षष्ठः सर्गः | १८५

दशास्येन यस्य कार्तवीर्यस्य कारागृहे बन्धनागारे। 'कारास्याद्बन्धनालये' इत्यमरः।
आप्रसादादनुग्रहपर्यन्तमुषितं स्थितम् । "नपुंसके भावे क्तः" एतत्प्रसाद एव तस्य
मोक्षोपायो न तु क्षात्रमिति भावः।

**भाषार्थ—**जिस रावण ने इन्द्र को जीत लिया था उसे भी उन्होंने अपने
कारागार में बन्दी बनाकर उसकी भुजाओं को धनुष की डोरी से इस प्रकार क-
सकर बांध दिया था कि वह बेचारा तब तक उसी में उसांस करता रहा जब
तक प्रसन्न होकर इन्होंने उसे नहीं छोड़ा ॥ ४० ॥

तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी ।
येन श्रियाः संशयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ॥ ४१ ॥

**अन्वयः—**आगमवृद्धसेवी प्रतीपः इति एष भूपतिः तस्य अन्वये जातः येन
संश्रयदोषरूढं श्रियः स्वभावलोला इति अयशः प्रमृष्टम् ।

तस्येति । आगमवृद्धसेवी श्रुतवृद्धसेवी प्रतीप इति ख्यात इति शेषः । एष
भूपतिस्तस्य कार्तवीर्यस्यान्वये वंशे जातः । येन प्रतीपेन संश्रयस्याश्रयस्य पुंसो
दोषैर्व्यसनादिभिः रूढमुत्पन्नं श्रियः संवन्धि स्वभावलोला प्रकृतिचञ्चलेत्येवंरूप-
मयशो दुष्कीर्तिः प्रमृष्टं निरस्तम् । दुष्टाश्रयत्यागशीलायाः श्रियः प्रकृतिचापलं-
प्रवादो मूढजनपरिकल्पित इत्यर्थः । अयं तु दोषराहित्यान्न कदाचिदपि श्रिया
त्यज्यत इति भावः ।

**भाषार्थ—**उन्हीं प्रसिद्ध राजा कीर्तवीर्य के वंश में ये उत्पन्न हुए हैं। ये वेदों
और वृद्धों की बड़ी सेवा करते हैं इनका नाम प्रतीप है। इन्होंने आश्रय दोष से
दूषित लक्ष्मी के स्वभावचञ्चला इस अपयश को धो दिया है। अर्थात् इनके पास
लक्ष्मी सदा निवास करती है। वास्तविक बात यह है कि लक्ष्मी तो उसी व्यक्ति
को छोड़कर अन्यत्र चली जाती है जो दुर्व्यसनी हो पर इनमें कोई व्यसन नहीं
तो इन्हें क्यों कर छोड़े ॥ ४१ ॥

आयोधने कृष्णगति सहायमवाप्य यः क्षत्रियकालरात्रिम् ।
धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्रधाराम् ॥ ४२ ॥

**अन्वयः—**यः आयोधने कृष्णगतिं सहायं अवाप्य क्षत्रियकालरात्रि रामपर-
श्वधस्य शितां धारां उत्पलपत्रधारां संभावयति ।

आयोधन इति । यः प्रतीप आयोधने युद्धे कृष्णगति कृष्णवर्त्मानमग्नि सहाय-
मवाप्य क्षत्रियाणां कालरात्रि संहाररात्रिमित्यर्थः। रामपरश्वधस्य जामदग्न्यपरशोः।
'द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः' इत्यमरः । शितां तीक्ष्णां धारां मुखम् ।

१८६ | रघुवंशमहाकाव्ये

'खड्गादीनां च निशितमुखे धारा प्रकीर्तिता' इति विश्वः। उत्पलपत्रस्य सार इव सारो यस्यास्तां तथाभूतां सम्भावयति मन्यते । एतन्नगरजिगीषयाऽगतान्रिपू-
न्स्वयमेव भक्ष्यामीति भगवता वैश्वानरेण दत्तवरोऽयं राजा दह्यन्ते च तथागताः शत्रव इति भारते कथानुसंधेया ।

भाषार्थ— ये राजा इतने बलवान् हैं कि अग्नि से वरदान प्राप्त करके उस परसुरामजी के फरसे की तेज धारा को कमल के पत्रों के समान निःसार समझते हैं जिसने युद्ध में २१ बार क्षत्रियों का संहार कर डाला है ।। ४२ ।।

अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् ।
प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥ ४३ ॥

अन्वयः— यदि माहिष्मतीवप्रनितम्बकाञ्चीं जलवेणिरम्यां रेवां प्रसादजालैः प्रेक्षितुं कामः अस्ति तर्हि त्वं दीर्घबाहोः अस्य अङ्कलक्ष्मीः भव ।

अस्येति । दीर्घबाहोरस्य प्रतीपस्याङ्कलक्ष्मीर्भव ! एनं वृणीष्वेत्यर्थः । अनेनायं विष्णुतुल्य इति ध्वन्यते । माहिष्मती नामास्य नगरी तस्या वप्रः प्राकार एव नितम्बः तस्य काञ्चीं रशनाभूतां जलानां वेण्या प्रवाहेण रम्याम् । 'ओघः प्रवाहो वेणी च' इति हलायुधः । रेवां नर्मदां प्रसादजालैर्गवाक्षैः । 'जालं समूह आनायो गवाक्षक्षारकावपि' इत्यमरः । प्रेक्षतुं काम इच्छाऽस्ति यदि ।

भाषार्थ— इनकी राजधानी माहिष्मती नगरी की चहार दिवारी रूप नितम्ब की करधनी के रूप में स्थित और जल रूप वेणी से रमणीय नर्मदा नदी को राजभवनों के झरोखों से यदि देखना चाहती हो तो इस महाबाहु राजा को वरण करो ॥ ४३ ॥

तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव ।
शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्यः ॥ ४४ ॥

अन्वयः— प्रकामं प्रियदर्शनः अपि स क्षितीशः शरत्प्रमृष्टाम्बुधरोपरोधः पर्याप्तकलः शशी नलिन्याः इव तस्या रुचये न बभूव ।

तस्या इति । प्रकामं प्रीतिकरं दर्शनं यस्य सोऽपि दर्शनीयोऽपीत्यर्थः । स क्षितीशः शरदा प्रमृष्टाम्बुधरोपरोधो निरस्तमेघावरणः पर्याप्तकालः पूर्णकलः शशी नलिन्या इव । तस्या इन्दुमत्या रुचये न बभूव । रुचिं नाजीजनदित्यर्थः । लोको भिन्नरुचिरिति भावः ।

भाषार्थ— जिस प्रकार मेघरूप आवरण से रहित निर्मल शरद ऋतु का मनो-हर चन्द्रमा कमलिनी को अच्छा नहीं लगता है उसी प्रकार देखने में अत्यन्त सुन्दर भी वह प्रतीप राजा इन्दुमती के मन में नहीं जँचा ॥ ४४ ॥

षष्ठः सर्गः १८७

सा शूरसेनाधिपतिं सुषेणमुद्दिश्य लोकान्तरगीतकीर्तिम् ।
आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥ ४५ ॥

अन्वयः—लोकान्तरगीतकीर्तिम् आचारशुद्धोभयवंशदीपं शूरसेनाधिपतिं सुषेणमुद्दिश्य शुद्धान्तरक्ष्या सा कुमारी जगदे ।

सेति । लोकान्तरे स्वर्गादावपि गीतकीर्तिमाचारेण शुद्धयोरुभयोर्वंशयोर्मातृ-पितृकुलयोर्दीपं प्रकाशकम् । उभयवंशेत्यत्रोभयपक्षवन्निर्वाहः । शूरसेनानां देश-नामाधिपतिं सुषेणं नाम नृपतिमुद्दिश्याभिसंधाय शुद्धान्तरक्ष्यान्तःपुरपालिकया । 'कर्मण्यण्' 'टिड्ढाणञ्०' इति ङीप् । सा कुमारी जगदे ।

भाषार्थ—तब अन्तःपुरपालिका सुनन्दा राजकुमारी इन्दुमती को मथुरा के राजा सुषेण के पास ले गई और उन्हें दिखा कर इन्दुमती से कहने लगी कि इनकी कीर्ति स्वर्गादिलोक में भी गाई जाती है और इन्होंने अपने शुद्ध चरित्र से मातृकुल और पितृकुल दोनों को उज्ज्वल कर दिया है ॥ ४५ ॥

नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रत्य परास्परेण ।
सिद्धाश्रमं शान्तमिवैत्य सत्त्वैर्नैसर्गिकऽप्युत्ससृजे विरोधः ॥ ४६ ॥

अन्वयः—यज्वा एष पार्थिवः नीपान्वयः अस्ति यं आश्रित्य गुणैः शान्तं सिद्धाश्रमं एत्य सत्त्वैः नैसर्गिकैः अपि परेण उत्ससृजे ।

नीपेति । यज्वा विधिवदिष्टवान् । "सुयजोङ्निप्" इति ङ्वनिप्प्रत्ययः । एष पार्थिवः नीपोनामान्वयोऽस्येति नीपान्वयो नीपवंशजः। यं सुषेणमाश्रित्य गुणैर्ज्ञान-मौनादिभिः शान्तं प्रसन्नं सिद्धाश्रममेत्य प्राप्य सत्त्वैर्गजसिंहादिभिः प्राणि-भिरिव नैसर्गिकः स्वाभाविकौऽपि परस्परेण विरोध उत्ससृजे त्यक्तः ॥ ४६ ॥

भाषार्थ—ये राजा विधिपूर्वक यज्ञ करनेवाले हैं और राजा नीप के वंश में उत्पन्न हुए हैं । इनमें सभी गुण एक साथ उसी प्रकार स्थित रहते हैं, जिस प्रकार ऋषियों के शान्त आश्रमों में सभी जीव स्वाभाविक विरोध को छोड़कर एक साथ रहते हैं ॥ ४६ ॥

यस्यात्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव सन्निविष्टा ।
हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविषह्यं रिपुमन्दिरेषु ॥ ४७ ॥

अन्वयः—यस्य नयनाभिरामा कान्तिः हिमांशो कान्तिः इव आत्मगेहे सन्निविष्टा अस्ति । अविषह्यं तेजः तु हर्म्याग्रसंरूढतृणाङ्कुरेषु रिपुमन्दिरेषु सन्निविष्टम् अस्ति ।

यस्येति । हिमांशोः कान्तिश्चन्द्रकिरणा इव नयनयोरभिरामा यस्य सुषेणस्य

१८८रघुवंशमहाकाव्ये

कान्तिः शोभात्मगेहे स्वभवने संनिविष्टा संक्रांता अविषह्यं विसोढुमशक्यं तेजः प्रतापस्तु हर्म्याग्रेषु धनिकमन्दिरप्रान्तेषु । 'हर्म्यादि धनिनां वासः' इत्यमरः । संरूढास्तृणाङ्कुरा येषां तेषु शून्येध्वित्यर्थः । रिपुमन्दिरेषु शत्रुन्गरेषु । 'मन्दिरे नगरे गृहे' इति विश्वः । सन्निविष्टम् । स्वजनाह्लादको द्विषन्तपञ्चेति भावः ।

भावार्थ—चन्द्रमा की चांदनी के समान नेत्रों को आह्लादित करनेवाला जिसका प्रकाश तो घर में रहता है और सूर्य के समान प्रचण्ड तेज शत्रुओं के उन राजभवनों पर दिखाई देता है जिनके उजड़ जाने से उसमें घास पात जम गई है ॥ ४७ ॥

यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले ।
कलिन्दकन्या मथुरां गतापि गङ्गोर्मिसंसक्तजलेव भाति ॥ ४८ ॥

अन्वयः—यस्य वारिविहारकाले अवरोधस्तनचन्दनानां प्रक्षालनात् मथुरां गता अपि कलिन्दकन्या गङ्गोर्मिसंसक्तजला इव भाति ।

यस्येति । यस्य सुषेणस्य वारिविहारकाले जलक्रीडासमयेऽवरोधतामन्तःपुराङ्गनानां स्तनेषु चन्दनानां मलयजानां प्रक्षालनाद्धेतोः कलिन्दो नाम शैलस्तत्कन्या यमुना । 'कालिन्दी सूर्यतनया यमुना शमनस्वसा' इत्यमरः । मथुरा नामास्य राज्ञो नगरी तां गतापि । गङ्गाया विप्रकृष्टापीत्यर्थः । मथुरायां गङ्गाभावं सूचयत्यपिशब्दः । 'कालिन्दी तीरे मधुरा लवणसुरवधकाले शत्रुघ्नेन निर्मास्यसे' इति वक्ष्यति तत्कथमधुना मथुरासंभव इति चिन्त्यम् । मधुरा मथुरापुरीति शब्दभेदः । यद्वा सान्येति गङ्गाया भागीरथ्या ऊर्मिभिः संसक्तजलेव भाति । धवलचन्दनसंसर्गात्प्रयागादन्यत्राप्यत्र गङ्गासङ्गतेव भातीत्यर्थः । 'सितासिते हि गङ्गायमुने' इति घंटापथः ।

भावार्थ—जलविहार करते समय इनकी रानियों के स्तनों पर लगा हुआ श्वेत चन्दन घुलकर जब यमुना जल में मिल जाता है उस समय मथुरा में यमुना जी का रंग ऐसा मालूम पड़ेगा कि मानों वहीं पर उनका गंगाजी की लहरों से संगम हो गया है ॥ ४८ ॥

त्रस्तेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः ।
वक्षःस्थलव्यापि रुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्णम् ॥ ४९ ॥

अन्वयः—तार्क्ष्यात् त्रस्तेन यमुनौकसा कालियेन विसृष्टं किल वक्षःस्थलव्यापिरुचं मणिं दधानः यः सकौस्तुभं कृष्णं ह्रेपयति इव ।