सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

षष्ठः सर्गः १७९

षष्ठः सर्गः १७९

दिग्गजवर्गमालोक्य स्वयमशक्तेरिन्द्राभ्यनुज्ञयाऽऽनीतैर्देवर्षिभिः प्रणीतेन शास्त्रेण गजान्वशीकृत्य भुवि सम्प्रदायं प्रावर्तयदिति कथा गोयते ।

भाषार्थ—और सुनन्दा इन्दुमती से बोली कि ये अङ्ग देश के राजा हैं इनके यौवन सौन्दर्य को देवताओं की स्त्रियां चाहा करती हैं और गजशास्त्र विशारद विद्वान् भी इनके हाथियों को शिक्षा दिया करते हैं। ये पृथ्वी पर रहते हुए भी स्वर्गीय सुखों को भोगते हैं ॥ २७ ॥

अनेन पर्यासयताश्रुविन्दून्मुक्ताफलस्थूलतमांस्तनेषु ।
प्रत्यर्पिताः शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हाराः ॥ २८ ॥

अन्वयः—शत्रुविलासिनीनां स्तनेषु मुक्ताफलस्थूलतमान् अश्रुविन्दून् पर्यासयता अनेन उन्मुच्य सूत्रेण बिना हाराः एव अर्पिताः ।

अनेनेति । शत्रुविलासिनीनां स्तनेषु मुक्ताफलस्थूलतमानश्रुबिन्दून् । 'अस्त्रमश्रुणि शोणिते' इति विश्वः । पर्यासयता प्रस्तारयता भर्तृवधादितिभावः । अनेनाङ्गनाथेनोन्मुच्याक्षिप्य सूत्रेण बिना हारा एव प्रत्यर्पिताः । अविच्छिन्नाश्रुबिन्दुप्रवर्तनादुत्सूत्रहारार्पणमेव कृतमित्येवोत्प्रेक्षा गम्यते ।

भाषार्थ—इन्होंने जिन राजाओं को युद्ध में मारा था उनकी स्त्रियों ने पति वियोग के शोक में अपने गलों से मोतियों का हार उतार फेंका किन्तु उनके स्तनों पर गिरती हुई आसुओं की बूंदें बड़े-बड़े मोतियों के समान मालूम पड़ती थी । उन्हें देखकर अनुमान होता था कि इन्होंने शत्रुओं स्त्रियों के गले से मोतियों के हार उतार कर डोरा के बिना आसुओं का हार पहना दिया है।

निसर्गभिन्नास्पदमकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च ।
कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि तयोस्तृतीया ॥ २९ ॥

अन्वयः—निसर्गभिन्नास्पदं श्रीः च सरस्वती च इति द्वयं अस्मिन् एकसंस्थं अस्ति । हे कल्याणि ! कान्त्या सुन्दरतया गिरा च योग्या त्वं एव तयोः तृतीया भव ।

निसर्गेति । निसर्गतः स्वभावतो भिन्नास्पदं भिन्नाश्रयम् सहावस्थानविरोधीत्यर्थः । श्रीश्च सरस्वती चेति द्वयमस्मिन्नङ्गनाथ एकत्र संस्था स्थितियंस्य तदेकसंस्थम् । उभयमिह सगतमित्यर्थः । हे कल्याणि ! 'बह्वादिभ्यश्च' इति ङीष् । कान्त्या सूनृतया सत्यप्रियया गिरा च योग्या संसर्गाहा त्वमेव तयो श्रीसरस्वत्योस्तृतीया समानगुणयोर्युवयोर्दाम्पत्यं युज्यत एवेति भावः । दक्षिणनायकत्वं चास्य ध्वन्यते, तदुक्तम्—'तुल्योऽनेकत्र दक्षिणः' इति ।

: १८०रघुवंशमहाकाव्ये

**भाषार्थ—**स्वभाव से ही भिन्न-भिन्न स्थानों में रहने वाली लक्ष्मी और सरस्वती दोनों इस राजा के पास एक साथ रहती हैं। अर्थात् ये राजा विद्वान् एवं धनवान् दोनों ही हैं। हे कल्याणि ! तुम सुन्दर भी हो और मधुर भाषिणी भी हो इसलिए तुम इन दोनों के साथ तीसरी बनकर रहो अर्थात् इस राजा को वरण करो ॥ २९ ॥

अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी ।
नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥ ३० ॥

**अन्वयः—**अथ कुमारी अङ्गराजात् चक्षुः अवतार्य त्वं याहि इति जन्यां अवदत् । असौ काम्यः न इति न, सा च सम्यक् द्रष्टुं न वेद, इति न, हि लोकः भिन्नरुचिः भवति ।

अथेति । अथ कुमार्याङ्गराजाच्चक्षुरवतार्य अपनीयेत्यर्थः । जन्यां मातृसखीम् 'जन्या मातृसखीमुदोः' इति विश्वः । सुनन्दां याहि गच्छेत्यवदत् । 'यातेति जन्यामवदत्' इति पाठे जनीं वधूं बहन्तीति जन्या वधूबान्धवः तां यात गच्छतेत्यवदत् । 'जन्यो वरवधूज्ञातिप्रियतुल्यहितेऽपि च' इति विश्वः । अथवा जन्या वधूभृत्याः । 'जन्यो नवोढायाः' इति केशवः संज्ञायां "जन्या" इति यत्प्रत्ययान्तो निपातः । यदत्राह वृत्तिकारः—'जनीं बधूं बहन्तीति जन्यां जामातुर्वयस्याः' इति यच्चामरः—'जन्याः स्निग्धा वरस्य ये' इति तत्सर्वमुपलक्षणार्थमित्यविरोधः । न चायमङ्गराजनिषेधो, दृश्यदोषान्नापिदृष्टिदोषादित्याह—नेत्यादिना । असावङ्गराजः काम्यः न कमनीयो, नेति किन्तु काम्य एवेत्यर्थः । सा कुमारी च सम्यग्द्रष्टुं विवेक्तुं न वेदेति न वेदैवेत्यर्थः । किन्तु लोको जनो भिन्नरुचिर्हि रुचिरमपि किञ्चित्कस्मैचिन्न रोचते । किं कुर्मो न हीच्छा नियन्तुं शक्यत इति भावः ।

**भाषार्थ—**इसके बाद राजकुमारी इन्दुमती ने उस अङ्गराज से अपनी दृष्टि हटाकर सुनन्दा से कहा—आगे चलो । यह बात नहीं थी कि वह राजा सुन्दर न था और न यही बात थी कि इन्दुमती ने उसे ठीक से देखा ही न हो किन्तु लोग भिन्न-भिन्न रुचिवाले होते हैं कोई किसी को चाहता है कोई किसी को ।

ततः परं दुष्प्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ ।
निदर्शयामास विशेषदृश्यमिन्दुं नवोत्थानमिवेन्दुमत्यै ॥ ३१ ॥

**अन्वयः—**ततः प्रतिहारभूमौ नियुक्ता द्विषद्भिः दुष्प्रसहं परं विशेषदृश्यं नृपं नवोत्थानं इन्दुमत्यै निदर्शयामास ।

षष्ठः सर्गः
१८१

तत इति । ततोऽनन्तरं प्रतिहारभूमो द्वारदेशे नियुक्ता दौवारिकी । 'स्त्री द्वारिद्वारं प्रतीहाराः ।' इत्यमरः । द्विषद्विषः शत्रुभिर्दुष्प्रसहं दुःसहं शूरमित्यर्थः । विशेषेण दृश्यं दर्शनीयम् । रूपवन्तमित्यर्थः । परमन्यं नृपं नवोत्थानं नवोदयमिन्दुमिव इन्दुमत्यै निदर्शयामास ।

भाषार्थ—इसके बाद द्वारपालिका सुनन्दा ने एक दूसरे राजा को इन्दुमती के लिए दिखाया जो शत्रुओं से असह्य, विशेष दर्शनीय, नई अवस्था वाला और नवोदित चन्द्रमा के समान सुन्दर था ॥ ३१ ॥

अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥ ३२ ॥

अन्वयः—उदग्रबाहुः विशालवक्षाः तनुवृत्तमध्यः अयं अवन्तिनाथः त्वष्ट्रा चक्रभ्रमं आरोप्य यत्नोल्लिखितः उष्णतेजा इव विभाति ।

अवन्तीति । उदग्रबाहुर्दीर्घबाहुर्विशालवक्षास्तनुवृत्तमध्यः कृशवर्तुलमध्योऽयं राजाऽवन्तिनाथोऽवन्तिदेशाधीश्वरः त्वष्ट्रा विश्वकर्मणा भर्तुस्तेजोवेगमसहमानया दुहित्रा संज्ञादेव्या प्रार्थितेनेति शेषः । चक्रभ्रमं चक्राकारं शस्त्रोत्तेजनयन्त्रम् । 'भ्रमाऽम्बुनिर्गमे भ्रान्तो कुण्डाख्ये शिल्पियन्त्रके' इति विश्वः । आरोप्य यत्नेनोल्लिखित उष्णतेजाः सूर्य इव विभाति । अत्र मार्कण्डेयः— 'विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वता । भ्रममारोप्य तत्तेजः शातनायोपचक्रमे ।' इति ।

भाषार्थ—लम्बी भुजा चौड़ी छाती और पतली गोलाकार कमर वाले ये राजा जो सूर्य के समान चमक रहे हैं। ये अवन्ति देश के राजा हैं मालूम पड़ता है कि विश्वकर्मा ने शान चढाने वाले अपने चक्र पर चढ़ाकर इन्हें बड़े यत्न से सूर्य के समान खराद दिया है ॥ ३२ ॥

अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि ।
कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥ ३३ ॥

अन्वयः—समग्रशक्तेः अस्य प्रयाणेषु अग्रेसरैः वाजिभिः उत्थितानि रजांसि सामन्त शिखामणीनां प्रभाप्ररोहास्तमयं कुर्वन्ति ।

अस्येति । समग्रशक्तेः शक्तित्रयसम्पन्नस्यास्यावन्तिनाथस्य प्रयाणेषु जैत्रयात्रास्वग्रेसरैर्वाजिभिरश्वैरुत्थितानि रजांसि सामन्तानां समन्ताद्भवनां राज्ञां ये शिखामणयश्चूडामणयस्तेषां प्रभाप्ररोहास्तमयं तेजोंकुरनाशं कुर्वन्ति । नासीरैरेवास्य शत्रवः पराजीयन्त इति भावः ।

भाषार्थ—समस्त शक्तियों से संपन्न इस राजा की दिग्विजय यात्रा में आगे

१८४रघुवंशमहाकाव्ये

चलनेवाले घोड़ों के टापों से उड़ीं हुई धूलियाँ सामन्त राजाओं के मुकुट मणियों की प्रभा को मलिन कर देती हैं ॥ ३३ ॥

असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः ।
तामिस्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान् ॥३४॥

अन्वयः— असौ महाकालनिकेतनस्य चन्द्रमौलेः अदूरे वसन् प्रियाभिः सह तामिस्रपक्षे अपि ज्योत्स्नावतः प्रदोषान् निर्विशति किल ।

असाविति । असाववन्तिनाथः महाकालं नाम स्थानविशेषः । तदेव निकेतनस्थानं यस्य तस्य चन्द्रमौलेश्वरस्यादूरे समीपे वसन् अत एव हेतोस्तामिस्रपक्षे कृष्णपक्षेऽपि प्रियाभिः सह ज्योत्स्नावतः प्रदोषान्रात्रीन्निर्विशत्यनुभवति किल । नित्यज्योत्स्ना विहारत्वमेतस्यैव नान्यस्यस्येति भावः ।

भाषार्थ— सिर पर चन्द्रमा को धारण करनेवाले महाकाल के मन्दिर के पास में ही इनका राजमहल है । इसलिए ये कृष्णपक्ष की रात्रियों में भी शिवजी के सिर पर स्थित चन्द्रमा की चांदनी से अपनी स्त्रियों के साथ चांदनी वाली रातों का ही आनन्द अनुभव करते रहते हैं ॥ ३४ ॥


अनेन यूना सह पार्थिवेन रम्भोरु ! कच्चिन्मनसो रुचिस्ते ।
सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ॥ ३५ ॥

अन्वयः— हे रम्भोरु ! यूना अनेन पार्थिवेन सह सिप्रातरंगानिलकम्पितासु उद्यानपरम्परासु विहर्तुं ते मनसः रुचिः अस्ति कच्चित् ? ।

अनेनेति । रम्भे कदलीस्तम्भाविवोरू यस्याः सा रम्भोरुस्तस्याः सम्बोधनम् हे रम्भोरु ! "ऊरूत्तरपदादौपम्ये" इत्यूङ्प्रत्ययः । नदीत्वादूध्रस्वः । यूनानेन पार्थिवेन सह सिप्रा नाम तत्रत्या नदी तस्यास्तरङ्गाणामनिलेन कम्पितासूद्यानानां परम्परासु पंक्तिषु विहर्तुं ते तव मनसो रुचिः कच्चित् स्पृहास्ति किमित्यर्थः । 'अभिष्वङ्गे स्पृहायां च गभस्तौ च स्त्रियाम्' इत्यमरः ।

भाषार्थ— हे केले के स्तम्भ के समान चिकनी और ढालू जंघावाली इन्दुमती ! क्या तुम इस युवक राजा के साथ उज्जयिनी के उन उद्यानों में विहार करना चाहती हो, जिनमें सिप्रानदी के तरङ्गों से शीतल वायु हर हर करता हुआ बराबर बहता रहता है ? ॥ ३५ ॥


तस्मिन्नभिख्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के ।
बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥ ३६ ॥