रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
षष्ठः सर्गः । १६६
षष्ठः सर्गः । १६६
तास्विति । तासु राजपरम्परासु श्रिया लक्ष्म्या कर्त्र्या पयोमुचां मेघानां पङ्क्तिषु विद्युतेव सहस्रधा विभक्तः तरङ्गेषु तरिणिरिव स्वयमेव प्रत्येकं संक्रामित इत्यर्थः । प्रभावशेषस्योदयेनाविर्भावेन दुर्निरीक्ष्यो दुर्दर्शन आत्मा श्रियः स्वरूपं व्यरुचद्द्योतिष्ट । ''द्युद्भ्यो लुङि' परस्मैपदम् । द्युतादित्वादङ्प्रत्ययः । तस्मिन्समये प्रत्येकं संक्रान्तलक्ष्मीकतया तेषां किमपि दुरासदं तेजः प्रादुरासीदित्यर्थः ।
भाषार्थं—वहाँ बैठे हुए राजाओं के वेषभूषा के चाकचिक्य से आँखें चौंधिया जाती थीं और ऐसा मालूम पड़ता था कि सौन्दर्य-लक्ष्मी ने अपनी शोभा को उन राजाओं में इस प्रकार बाँट दिया है जिस प्रकार बिजली अपनी चमक को बादलों में बाँट देती है ॥ ५ ॥
तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये ।
रराज धाम्ना रघुनूनुरेव कल्पद्रुमाणामिव पारिजातः ॥ ६ ॥
अन्वयः—महार्हासनसंस्थितानां उदारनेपथ्यभृतां तेषां मध्ये कल्पद्रुमाणां मध्ये पारिजात इव स रघुसूनुः एव धाम्ना रराज ।
तेषामिति । महार्हासनसंस्थितानां श्रेष्ठसिंहासनस्थानाम् उदारनेपथ्यभृतामुज्ज्वलवेषधारिणां तेषां राज्ञां मध्ये कल्पद्रुमाणां मध्ये पारिजात इव सुरद्रुमविशेष इव । 'पञ्चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ।।' इत्यमरः । स रघुसूनुरेव धाम्ना तेजसा । 'भूम्ना' इति पाठेऽतिशयेनेत्यर्थः । रराज । अत्र कल्पद्रुमशब्दः पञ्चान्यतमविशेषवचनः उपकल्पयन्ति मनोरथानिति व्युत्पत्त्या सुरद्रुममात्रोपलक्षकतया प्रयुक्त इत्यनुसंधेयम् । कल्पा इव द्रुमा कल्पद्रुमा इति विग्रहः ।
भाषार्थं—बहुमूल्य सिंहासनों पर बैठे हुए सुन्दर वेश बनाकर उन राजाओं के बीच में विराजमान केवल एक रघुकुमार अज ही नन्दनवन के वृक्षों में पारिजात के समान अपने तेज से अधिक सुशोभित हो रहे थे ॥ ६ ॥
नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः ।
मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥ ७ ॥
अन्वयः—पौरजनस्य नेत्रव्रजाः सर्वान् नृपान् विहाय रेचितपुष्पवृक्षा द्विरेफा मदोत्कटे वन्ये गन्धद्विपे इव तस्मिन् निपेतुः ।
नेत्रेति । पौरजनस्य नेत्रव्रजाः सर्वान्नृपतीन्विहाय तस्मिन्नजे निपेतुः । स इव सर्वोत्कर्षेण ददृशे इत्यर्थः । कथमिव मदोत्कटे मदेनोद्भिन्नागण्डो निर्भरमदे ।
| १८० | रघुवंशमहाकाव्ये |
|---|
वा वन्ये गन्धद्विपे गन्धप्रधाने द्विपे गजे। रेचिता रिक्तीकृताः पुष्पाणां वृक्षा यैस्ते। त्यक्तपुष्पवृक्षा इत्यर्थः द्विरेफा भृङ्गा इव। द्विपस्य वन्यविशेषणं द्विरेफाणां पुष्पवृक्षत्यागसंभावनार्थं कृतम्।
**भाषार्थ—**नागरिकों की दृष्टियां सभी राजाओं से हटकर उस अज पर इस प्रकार आ लगीं जिस प्रकार भ्रमर विकसित वृक्षों को छोड़कर उत्कट गन्धवाले जंगली हाथी पर झुक पड़ते हैं ॥ ७ ॥
त्रिभिर्विशेषकमाह—
अथ स्तुते बन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके ।
संचारिते चागुरुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ॥ ८ ॥
**अन्वयः—**अथ अन्वयज्ञैः बन्दिभिः सोमार्कवंशे नरदेवलोके स्तुते सञ्चारिते अगुरु-सारयोनौ धूपे च वैजयन्तीः समुत्सर्पति च सति पतिंवरा (कन्या विवेश) ।
अथेति। अथान्वयज्ञै राजवंशामिज्ञैर्बन्दिभिः स्तुतिपाठकैः । ‘वन्दिनः स्तुति-पाठकाः' इत्यमरः। सोमार्कवंश्ये सोमसूर्यवंशभवे नरदेवलोके राजसमूहे स्तुते सति विवेशेत्युत्तरेण संबन्धः । एवमुत्तरत्रापि योज्यम् । संचारिते समन्तात्प्रचारिते अगुरुसारो योनिः कारणं यस्य तस्मिन्धूपे च वैजयन्तीः पताकाः समुत्सर्पति सति अतिक्रम्य गच्छति सति ।
**भाषार्थ—**इसके बाद राजवंश की परम्परा को जाननेवाले बन्दियों ने सूर्यवंशी और चन्द्रवंशी राजाओं की प्रशंसा की और अगर के सार से निर्मित जलाई गई धूपबत्तियों का धूआँ उड़ता हुआ फहराती हुई पताकाओं के ऊपर तक फैल गया ॥ ८ ॥
पुरोपकण्ठोपवनाश्रयाणां कलापिनामुद्धतनृत्यहेतौ ।
प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्च्छति मङ्गलार्थे ॥ ९ ॥
**अन्वयः—**पुरोपकण्ठोपवनाश्रयाणां कलापिनां उद्धतनृत्यहेतौ प्रध्मातशंखे मंगलार्थे तूर्यस्वने परितः दिगन्तान् मूर्च्छति सति (कन्या विवेशेति परेणान्वयः) ।
पुरोपकण्ठेति। किं च पुरस्योपकण्ठे समीप उपवनान्याश्रयो येषां कलापिनां बर्हिणामुद्धतनृत्य हेतौ मेघध्वनिसादृश्यात्ताण्डवकारणे प्रध्माताः पूरिताः शङ्खा यत्र तस्मिन् मङ्गलार्थे मङ्गलप्रयोजनके तूर्यस्वने वाद्यघोषे परितः सर्वतो दिगन्तान्मूर्च्छति व्याप्नुवति सति ।
**भाषार्थ—**नगर के आसपास के उपवनों में रहनेवाले मोरों के प्रसन्नतापूर्वक
षष्ठः सर्गः
१७१
नाचने के कारणभूत मांगलिक बाजों की ध्वनियां दशों दिशाओं में गूँज उठीं और शंख बजने लगे ॥ ९ ॥
मनुष्यवाह्यं चतुरस्रयानमध्यास्य कन्या परिवारशोभि ।
विवेश मञ्चान्तरराजमार्गं पतिम्बरा क्लृप्तविवाहवेषा ॥ १० ॥
अन्वयः—पतिम्बरा क्लृप्तविवाहवेषा कन्या मनुष्यवाह्यं परिवारशोभि चतुरस्रयानं अध्यास्य मञ्चान्तरराजमार्गं विवेश ।
मनुष्येति । पतिं वृणोतीति पतिंवरा स्वयंवरा । 'अथ स्वयंवरा पतिंवरा च वर्याऽथ' इत्यमरः । "संज्ञायां भृतृवृजिधारिसहितपिदमः" इत्यनेन खच्प्रत्ययः । क्लृप्तविवाहवेषा कन्येन्दुमती मनुष्यैर्वाह्यं परिवारेण परिजनेन शोभि चतुरस्रयानं चतुरस्रवाहनं शिविकामध्यारुह्य मञ्चान्तरे मञ्चमध्ये यो राजमार्गं तां विवेश ।
भाषार्थ—इसी बीच पति को स्वयं वरण करनेवाली विवाह के समय का वेष धारण किए हुए कुमारी इन्दुमती परिवारों से सुशोभित मनुष्यों के द्वारा ढोए जाने वाली पालकी पर चढ़कर मंचों के बीच बने हुए राजमार्ग पर आ गई ।
तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये ।
निपेतुरन्तःकरणैर्नरेन्द्रा देहैः स्थिताः केवलमासनेषु ॥ ११ ॥
अन्वयः—नेत्रशतैकलक्ष्ये कन्यामये तस्मिन् विधातुः विधानातिशये नरेन्द्राः अन्तःकरणैः निपेतुः केवलं आसनेषु देहैः स्थिताः आसन् ।
तस्मिन्निति । नेत्रशतानामेकलक्ष्ये एकदृश्ये कन्यामये कन्यारूपे तस्मिन्विधातुर्विधानातिशये सृष्टिविशेषे नरेन्द्राः अन्तःकरणैर्निपेतुः आसनेषु देहैः केवलं देहैरेव स्थिताः देहानपि विस्मृत्य तत्रैव दत्तचित्ता बभूवुरित्यर्थः । अन्तःकरणकर्तृके निपतने नरेन्द्राणां कर्तृत्वव्यपदेश आदरातिशयार्थः ।
भाषार्थ—सैकड़ों नेत्रों का एक मात्र लक्ष्य कन्यारूप ब्रह्मा की सर्वोत्तम रचना उस इन्दुमती पर राजवर्ग अन्तःकरण से मग्न हो गया, केवल उनके शरीर मंचों पर रह गये थे । अर्थात् इन्दुमती के प्रति सभी राजाओं का हृदय आकृष्ट हो गया ॥ ११ ॥
तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः ।
प्रवालशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः ॥ १२ ॥
अन्वयः—तां प्रति अभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः विविधाः शृङ्गारचेष्टाः पादपानां प्रवालशोभा इव बभूवुः ।
१७२ रघुवंशमहाकाव्ये
तामिति । तामिन्दुमतीं प्रति अभिव्यक्तमनोरथानां प्ररूढाभिलाषाणां महीपतीनां राज्ञां प्रणयाग्रदूत्यः । प्रणयः प्रार्थना, प्रेम वा 'प्रणयास्त्वमी । विस्रम्भयाच्ञाप्रेमाणः' इत्यमरः । प्रणयेऽग्रदूत्यः प्रथमदूतिकाः प्रणयप्रकाशकत्वसाम्याद्दूतीत्वव्यपदेशः । विविधाः शृङ्गारचेष्टा शृङ्गारविकाराः पादपानां प्रवालशोभाः पल्लवसंपद इव बभूवुरुत्पन्नाः अत्र शृङ्गारलक्षणे रससुधाकरे—(विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । नीता सदस्यरस्यत्वं रतिः शृङ्गार उच्यते ॥ ) रतिरिच्छाविशेषः । तच्चोक्तं तत्रैव—( यूनोरन्योन्यविषयस्थायिनीच्छा रतिः स्मृताः ) इति । चेष्टाशब्देन तदनुभावविशेषा उच्यन्ते । तेऽपि तत्रैवोक्ताः—( भावं मनोगतं साक्षात्स्वहेतुं व्यञ्जयन्ति ये । तेऽनुभावा इति ख्याता भ्रूविक्षेपस्मितादयः ॥ ते चतुर्धा चित्तगात्रवाग्बुद्ध्यारम्भसम्भवाः । ) इति । तत्र गात्रारम्भसम्भवाश्चेष्टाशब्दोक्ताननुभावान् 'कश्चित्'—इत्यादिभिः श्लोकैर्वक्ष्यति शृङ्गाराभासश्चायमेकत्रैव प्रतिपादनात् । तदुक्तम्— एकत्रैवानुरागश्चेत्तिर्यक्षुम्लेच्छगतोऽपि वा । योषितां बहुशक्तिश्चेद्रसाभासस्त्रिधा मतः ॥ इति ।
भावार्थ—उस इन्दुमती के प्रति स्पष्ट अभिलाषा वाले राजाओं ने वृक्षों के पल्लवों की शोभा के समान अनेक प्रकार की चेष्टायें की, वे चेष्टायें मानों उनके प्रेम को इन्दुमती तक पहुँचानेवाली दूतियाँ थीं ॥ १२ ॥
'शृङ्गारचेष्टा बभूवुः' इत्युक्तम्, ता एव दर्शयति—
कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् ।
रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयाञ्चकार ॥ १३ ॥
अन्वयः—कश्चित् कराभ्यां उपगूढनालं आलोलपत्राभिहितद्विरेफम् रजोभिः अन्तः परिवेषबन्धि लीलारविन्दं भ्रमयाञ्चकार ।
कश्चिदिति । कश्चिद्राजा कराभ्यां पाणिभ्यामुपगूढनालं गृहीतनालम् आलोलैश्चञ्चलैः पत्रैरभिहता ताडिता द्विरेफा येन तत्तथोक्तं रजोभिः परागैरन्तःपरिवेषं मण्डलं बध्नातीत्यन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयाञ्चकार । करस्थलीलारविन्दवत्त्वयाहं भ्रमयितव्य इति नृपाभिप्रायः । हस्तधूर्णकोऽयमपलक्षणक इतीन्दुमत्यभिप्रायः ।
भावार्थ—कोई राजा अपने हाथ में लिए नाल दण्ड वाले लीला कमल को घुमाने लगा । उसके घुमाने से भौंरे तो इधर-उधर भाग गये किन्तु उसके ऊपर भरे हुए पराग के चारों ओर फैल जाने से एक मण्डल-सा बंध गया ॥ १३ ॥
विस्रस्तमंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् ।
प्रालम्बमुत्कृष्टय यथावकाशं निनाय साचीकृतचारुवक्त्रः ॥ १४ ॥
षष्ठः सर्गः । १७३
अन्वयः—साचीकृतचारुवक्त्रः अपरः विलासी अंसात् विलग्रं रत्नानुविद्धाङ्गदकोटिलग्नं प्रालम्बं उत्कृष्य यथावकाशं निनाय ।
विस्रस्तमिति । विलसनशीलो विलासी । ‘‘वो कषलसकत्थसम्भः’’ इति घिनुण्प्रत्ययः । अपरो राजांसाद्विस्रस्तं रत्नानुविद्धं रत्नखचितं यदङ्गदं केयूरं तस्य कोटिलग्नं प्रालम्बमृजुलम्बिनीं स्रजम् । ‘प्रालम्बमृजुलम्बि स्यात्कण्ठात्’ इत्यमरः। ‘प्रावारम्’ इति पाठे तूत्तरीयं वस्त्रम् । ‘उत्कृष्योद्धृत्य साचीकृतं तिर्यक्कृतं चारु वक्त्रं यस्य स तथोक्तः सन् यथावकाशं स्वस्थानं निनाय । प्रावारोत्क्षेपणच्छलेनाहं त्वामेवं परिरप्स्ये इति नृपाभिप्रायः । गोपनीयं किञ्चिदङ्गेऽस्ति ततोऽयं प्रवृणुत इतीन्दुमत्यभिप्रायः ।
भाषार्थ—दूसरा विलासी राजा कन्धे से नीचे सरके हुई रत्नों से जटिल भुजबन्ध के किनारे में उलझे हुई दुपट्टे को थोड़ा मुख को घुमाकर फिर से गले में रखने लगा ॥ १४ ॥
आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किञ्चित्समावर्जितनेत्रशोभः ।
तिर्यग्विसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥ १५ ॥
अन्वयः—ततः अन्यः किञ्चित्समावर्जितनेत्रशोभः सन् आकुञ्चिताग्राङ्गुलिना तिर्यग्विसर्पि नखप्रभेण पादेन हैमं पीठं विलिलेख ।
आकुञ्चितेति । ततः पूर्वोक्तादन्योऽपरो राजा किंचित्समावर्जितनेत्रशोभे ईषदवाक्पतितनेत्रशोभः सन् आकुञ्चिता आभुग्ना अग्राङ्गुलयो यस्य तेन तिर्यग्विसंसर्पिण्यो नखप्रभा यस्य तेन च पादेन हैमं हिरण्मयं पीठं पादपीठं विलिलेख लिखितवान् । पादाङ्गुलिनामाकुञ्चनेन त्वं मत्समपमागच्छेति नृपाभिप्रायः । भूमिविलेलकोऽयमपलक्षण इतिन्दुमत्य्याशयः । भूमिविलेखनं तु लक्ष्मीविनाशहेतुः ।
भाषार्थ—तीसरा राजा नेत्र को थोड़ा नीचे करके कटाक्ष विक्षेप करता हुआ चारों तरफ फैलती हुई नखों की चमक वाली और कुछ मोडी हुई पैर की अंगुलियों से सुवर्ण निर्मित पावदान पर कुछ लिखने लगा ॥ १५ ॥
निवेश्य वामं भुजमासनार्धं तत्संन्निवेशादधिकोन्नतांसः ।
कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूत् ॥ १६ ॥
अन्वयः—कश्चित् आसनार्धे वामं भुजं निवेश्य तत्सन्निवेशात् अधिकोन्नतांसः विवृत्तत्रिकभिन्नहारः सन् सुहृत्समाभाषणतत्परः अभूत् ।
निवेश्येति । कश्चिद्राजा वामं भुजमासनार्धं सिंहासनैकदेशे निवेश्य संस्थाप्य
| १७४ | रघुवंशमहाकाव्ये |
|---|
त्तसंनिवेशातस्य वामभुजस्य संनिवेशात्संस्थापनादधिकोन्नतौंसो वामांस एव यस्य स तथोक्तः सन् विवृत्ते परावृत्ते त्रिके त्रिकप्रदेशे भिन्नहारो लुण्ठिनहारः सन् 'पृष्ठ वंशाधरे त्रिकम्' इत्यमरः । सुहृत्सम्भाषणतत्परोऽभूत् । वामपार्श्ववर्त्तिनैव मित्रेण संभाषितुं प्रवृत्त इत्यर्थः । अत एव विवृत्तत्रिकत्वं घटते । त्वया वामाङ्गे निवेशितया सहैवंवार्ता करिष्य इति नृपाभिप्रायः । परं दृष्ट्वा पराङ्मुखोऽयं न कार्यकर्तेतीन्दुमत्यभिप्रायः ॥ १६ ॥
भाषार्थ—कोई राजा सिंहासन के आधे भाग में बाई भुजा को रखकर अपने पास बैठे हुए मित्र से बातचीत करने लगा, जिससे उसका दाँया कन्धा कुछ ऊँचा हो गया और गले का हार पृष्ठ अंश पर लटक गया ॥ १६ ॥
विलासिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यः ।
प्रियानितम्बोचितसंनिवेशैर्विपाटयामास युवा नखाग्रैः ॥ १७ ॥
अन्वयः—अन्यः युवा प्रियानितम्बोचितसन्निवेशैः नखाग्रैः विलासिनीविभ्रमदन्तिपत्रम् आपाण्डुरं केतकबर्हं विपाटयामास ।
विलासिनीति । अन्यो युवा विलासिन्याः प्रियाया विभ्रमार्थं दन्तपत्रं दन्तपत्रभूतमापाण्डुरं केतकबर्हं केतकदलम् । 'दलेऽपि बर्हम्' इत्यमरः । प्रियानितम्बोचितसन्निवेशैरभ्यस्तनिक्षेपणैर्नखाग्रैर्विपाटयामास विदारयामास । अहं तव नितम्बे एवं नखव्रणादीन्दास्यामीति नृपाशयः । तृणच्छेदकवत्पत्रपाटकोऽयमपलक्षणक इतीन्दुमत्याशयः ।
भाषार्थ—एक दुसरा युवक राजा किसी विलासिनी स्त्री के श्रृंगार के लिए कान के आभूषण के रूप में बने हुए श्वेत वर्ण के केतकी पुष्प के पत्तों को प्रिया के नितम्बो पर रखने के योग्य नखाग्रो से नोच रहा था ॥ १७ ॥
कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन ।
रत्नांगुलीयप्रभयानुविद्धानुदीरयामास सलीलमक्षान् ॥ १८ ॥
अन्वयः—कश्चित् कुशेशयाताम्रतलेन रेखाध्वजलाञ्छनेन करेण रत्नाङ्गुलीयत्प्रभया अनुविद्धान् अक्षान् सलीलं उदीरयामास ।
कुशेशयेति । कश्चिद्राजा कुशेशयं शतपत्रमिवाताम्रं तलं यस्य तेन । 'शतपत्रं कुशेशयम्' इत्यमरः । रेखारूपो ध्वजो लाञ्छनं यस्य तेन करेण अङ्गुलीषु भवान्यङ्गुलीयान्यूर्मिकाः । अङ्गुलीयमूर्मिका' इत्यमरः । जिह्वामूलाङ्गुलेश्छः' इति छ प्रत्ययः । रत्नानामङ्गुलीयानि तेषां प्रभयानुविद्धानभ्यासानक्षान्पाशान्