सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

प्रथमः सर्गः २५

प्रथमः सर्गः २५

वाहुतीर्जुहोति' इति वचनात् । तेषामग्नीनां पिशुनैः सूचकैः पवनोद्धूतैः ।
आहुतिगन्धो येषामस्तीत्याहुतिगन्धिनस्तैर्धूमैराश्रमोन्मुखानतिथीन् पुनानं
पवित्रीकुर्वाणम् । कुलकम् ।
भाषार्थ—प्रज्वलित अग्नि को बताने वाले, हवा से उड़ाये गये आहुति की
गन्धवाली धूए से आश्रम की ओर आते हुए अतिथियों को पवित्र करने वाले
आश्रम पर पहुँचे ॥ ५३ ॥

आश्रमप्राप्त्यनन्तरं रथादवतरणमाह—

अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः ।
तामवारोहयत्पत्नीं रथादवततार च ॥ ५४ ॥

अन्वयः—अथ सः 'धुर्यान् विश्रामय' इति यन्तारम् आदिश्य तां पत्नीं
रथात् अवारोहयत् ( स्वयं ) अवततार च ।

अथेति । अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिम् । धुरं वहन्तीति
धुर्या युग्याः । 'धुरो यड्ढकौ' इति यत्प्रत्ययः । 'धूर्वहे धुर्यधौरेयधुरीणाः
सधुरन्धराः' इत्यमरः । धुर्यान् रथाश्वान्विश्रामय विनीतश्रमान्कुर्वित्यादिश्याज्ञाप्य
तां पत्नीं रथादवारोहयदवतारितवान्स्वयं चावततार । 'विश्रमय' इति ह्रस्वपाठे
'जनीजॄष्-' इति मित्त्वे 'मितां ह्रस्वः ।' इति ह्रस्वः । दीर्घपाठे 'मितां ह्रस्वः'
इति सूत्रे 'वा चित्तविरागे' इत्यतो 'वा' इत्यनुवर्त्य व्यवस्थितविभाषाऽऽश्रयणाद्दीर्घ-
स्वाभाव इति वृत्तिकारः ।

भाषार्थ—'घोड़ों की थकावट दूर करो' सारथी को ऐसी आज्ञा देकर उस
सुदक्षिणा को रथ से उतारा और स्वयं उतरे ॥ ५४ ॥

मुनयो दिलीपार्हणां चक्रुरित्याह—

तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥ ५५ ॥

अन्वयः—गुप्ततमेन्द्रियाः सभ्याः मुनयः गोप्त्रे अर्हते नयचक्षुषे सभार्याय
तस्मै अर्हणां चक्रुः ।

तस्मा इति । सभायां साधवः सभ्याः । 'सभाया यः' इति यप्रत्ययः ।
गुप्ततमेन्द्रिया अत्यन्तनियमितेन्द्रिया मुनयः सभार्याय गोप्त्रे रक्षकाय । नयः
शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे । अत एवार्हणां पूजां
चक्रुः । 'पूज्यायेत्यर्थः । 'अर्हः प्रशंसायाम्' इति शतृप्रत्ययः । तस्मै राज्ञेऽर्हणां
पूजां चक्रुः । 'पूजा नमस्याऽपचितिः सपर्यार्चाऽऽर्हणाः समाः' इत्यमरः ।

२६ | रघुवंशमहाकाव्ये

भावार्थ—जितेन्द्रिय सभ्य मुनियों ने रक्षक, योग्य, नीतिविशारद, सपत्नीक उस राजा दिलीप का सत्कार किया ॥ ५५ ॥

सायङ्कालीनक्रियान्तेऽरुन्धतीसहितस्य गुरोर्दर्शनमित्याह—

विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम् ।
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥ ५६ ॥

अन्वयः—सायन्तनस्य विधेः अन्ते सा अरुन्धत्या अन्वासितं तपोनिधिं स्वाहया ( अन्वासितं ) हविर्भुजं इव ददर्श ।

विधेरिति । स राजा सायन्तनस्य सायम्भवस्य । ‘सायंचिरम्-’ इत्यादिना ट्युप्रत्ययः । विधेर्जपहोमाद्यनुष्ठानस्यान्तेऽवसानेऽरुन्धत्यान्वासितं पश्चादुपवेशनेनोपसेवितम् । कर्मणि क्तः । उपसर्गवशात्सकर्मकत्वम् ‘अन्वास्यैनाम्’ इत्यादि-वदुपपद्यते । तपोनिधिं वसिष्ठम् । स्वाहया स्वाहादेव्या । ‘अथाग्नायी, स्वाहा च हुतभुक्प्रिया’ इत्यमरः । अन्वासितं हविर्भुजमिव ददर्श । ‘समित्पुष्पकुशाग्न्यम्बु-मृदन्नाक्षतपाणिकाः । जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत्’ । इत्यनु-ष्ठानस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददर्शेत्युक्तम् । अन्वासनं चात्र पतिव्रता-धर्मत्वेनोक्तं न तु कर्माङ्गत्वेन । विधेरन्त इति कर्मणः समाप्यभिधानात् ।

भावार्थ—सायंकालीन अनुष्ठान के अनन्तर उन सुदक्षिणा सहित राजा ने अरुन्धती से उपसेवित तपस्वी वसिष्ठ को स्वाहा देवी से उपसेवित अग्नि के समान देखा ॥ ५६ ॥

सुदक्षिणादिलीपयोः सपत्नीकस्य गुरोः पादाभिवन्दनमित्याह—

तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥ ५७ ॥

अन्वयः—सा मागधी राज्ञी राजा च तयोः पादान् जगृहतुः । गुरुपत्नी च तौ प्रीत्या प्रतिननन्दतुः ।

तयोरिति । मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धती-वसिष्ठयोः । पादाञ्जगृहतुः । ‘पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्’ इत्यमरः । पादग्रह-णमभिवादनम् । गुरुपत्नी गुरुश्च कर्तारौ, सा च स च तौ सुदक्षिणादिलीपौ कर्म-भूतौ । प्रीत्या हर्षेण प्रतिननन्दतुः । आशीर्वादादिभिः संभावयाञ्चक्रतुरित्यर्थः ।

भावार्थ—राजा दिलीप और मगध वंश में उत्पन्न रानी सुदक्षिणा ने उन दोनों वशिष्ठ और अरुन्धती के पैरों को पकड़ा और उन्होंने उनको प्रसन्नता-पूर्वक आशीर्वाद दिया ॥ ५७ ॥

प्रथमः सर्गः २७

वसिष्ठो दिलीपं राज्यविषयककुशलं पृष्टवानित्याह—
तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥ ५८ ॥

**अन्वयः—**मुनिः आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं राज्याश्रममुनिं तं राज्ये कुशलं पप्रच्छ ।

तमिति । मुनिः । अतिथ्यर्थमातिथ्यम् । ‘अतिथेर्य्यः’ इति ञ्यप्रत्ययः । आतिथ्यस्य क्रिया तथा सान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम् । राज्यमेवाश्रमस्तत्र मुनिं मुनितुल्यमित्यर्थः । तं दिलीपं राज्ये कुशलं पप्रच्छ । पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम् । यद्यपि राज्यशब्दः पुरोहितादिष्वन्तर्गतत्वाद्भावकर्मवचनः । तथाऽप्यत्र सप्ताङ्गवचनः । ‘उपपन्नं ननु शिवं सप्तस्वङ्गेषु’ इत्युत्तरविरोधात् । तथाऽऽह मनुः—‘‘स्वाम्यमात्यपुरं राष्ट्रं कोशदण्डौ तथा सुहृत् । सप्तैतानि समस्तानि लोकेऽस्मिन् राज्यमुच्यते’’ इति । तत्र ‘‘ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च’’ इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाद् ब्राह्मणोचित कुशलप्रश्न एव कृत इत्यनुसंधेयम् । अत एवोक्तं—‘राज्याश्रममुनिम्’ इति ।

**भावार्थ—**मुनि वसिष्ठ ने अतिथिसत्कार से रथ की झोकों की थकावट दूर हो जाने पर मुनितुल्य राजा दिलीप से कुशल पूछा ॥ ५८ ॥

वसिष्ठस्य कुशलप्रश्नान्तरं दिलीपस्योत्तरदानोपक्रमः—
अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः ।
अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥ ५९ ॥

**अन्वयः—**अथ विजितारिपुरः वदतां वरः अर्थपतिः अथर्वनिधेः तस्य पुरः अर्थ्यां वाचं उवाच ।

अथेति । अथ प्रश्नान्तरं विजितारिपुरो विजितशत्रुनगरी वदतां वक्तॄणां वरः श्रेष्ठः ‘यतश्च निर्धारणम्’ इति षष्ठी । अर्थपतिः राजाऽथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थादनपेताम् । ‘धर्मपथ्यर्थन्यायादनपेते’ इति यत्प्रत्ययः वाचमाददे । वक्तुमुपक्रान्तवानित्यर्थः । अथर्वनिधेरित्यनेन पुरोहितकृत्याभिज्ञत्वात्तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते । तथाऽऽह कामन्दकः त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम् ।’ इति ।

**भावार्थ—**तब शत्रु के नगरों को जीतने वाले वक्ताओं में श्रेष्ठ राजा दिलीप अथर्ववेद के विद्वान् महर्षि वसिष्ठ के सामने मतलब की बात कहने लगे ॥ ५९ ॥

२८ रघुवंशमहाकाव्ये

यस्य त्वं गुरुरसि तस्य राज्ये सर्वत्र कुशलमस्त्येवेत्याह—
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥ ६० ॥
अन्वयः—( हे गुरो । ) सप्तसु अङ्गेषु शिवम् उपपन्नं ननु । यस्य मे दैवीनां मानुषीणां च आपदां त्वं प्रतिहर्ता ( असि ) ।

उपपन्नमिति । हे गुरो ! सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । 'स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । सप्ताङ्गानि' इत्यमरः । शिवं कुशलमुपपन्नं ननु युक्तमेव । नन्ववधारणे प्रश्नावधारणाज्ञाऽनुनयामन्त्रणे ननु' इत्यमरः । कथमित्याह—यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम् मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम् । उभयत्रापि 'तत आगतः' इत्यण् । 'टिड्ढाणञ्—' इत्यादिना ङीप् । आपदां व्यसनानां त्वं प्रतिहर्ता वारयिताऽसि । अत्राह कामन्दकः 'हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा । इति पञ्चविधं दैवं मानुषं व्यसनं ततः । आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च नराणां पञ्चधा मतम्' । इति ।

भाषार्थ—भगवन् ! मेरे राज्य के सातों अङ्गों में कुशल क्यों न हो जिसकी दैवी और मानुषी आपत्तियों को नाश करने वाले आप हैं ॥ ६१ ॥

तत्र मानुषापत्प्रतीकारमाह—
तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ ६१ ॥
अन्वयः—मन्त्रकृतः तव दूरात् प्रशमितारिभिः मन्त्रैः मे दृष्टलक्ष्यभिदः शराः प्रत्यादिश्यन्त इव ।

तवेति । दूरात् परोक्ष एव प्रशमितारिभिः । मन्त्रान्कृतवान्मन्त्रकृत् । 'सुकर्मपापमन्त्रपुण्येषु कृञः' इति क्विप् । तस्य मन्त्रकृतो मन्त्राणां स्रष्टुः प्रयोक्तुर्वा तव मन्त्रैः कर्तृभिः । दृष्टं प्रत्यक्षं यल्लक्ष्यं यन्मात्रं भिन्दन्तीति दृष्टलक्ष्यभिदो मे शरा प्रत्यादिश्यन्त इव । वयमेव समर्थाः । किमेभिः पिष्टपेषकैरिति निराक्रियन्त इवेत्युत्प्रेक्षा । 'प्रत्यादेशो निराकृतिः' इत्यमरः । त्वन्मन्त्रसामर्थ्यादेव नः पौरुषं फलतीति भावः ।

भाषार्थ—आप जैसे मन्त्रकारों के डर से ही शत्रुसंहारक मन्त्रों से दृष्ट लक्ष्यभेद के मेरे बाण व्यर्थ से हैं ॥ ६१ ॥

सम्प्रति दैविकापत्प्रतीकारमाह—
हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥ ६२ ॥

प्रथमः सर्गः
२९

अन्वयः—हे होतः ! त्वया अग्निषु विधिवत् आवर्जितं हविः अवग्रह-विशोषिणां सस्यानां वृष्टिः भवति ।

हविरिति । हे होतः ! त्वया विधिवदग्निष्वावर्जितं प्रक्षिप्तं हविराज्यादिकं कर्तृ । अवग्रहो वर्षप्रतिबन्धः । 'अवे ग्रहो वर्षप्रतिबन्धे' इत्यप्प्रत्ययः । 'वृष्टिवैपं तद्विघातेऽवग्राहावग्रहौ समौ' इत्यमरः । तेन विशोषिणां विशुष्यतां सस्यानां वृष्टिर्भवति । वृष्टिरूपेण सस्यान्युपजीवयतीति भावः । अत्र मनुः “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” । इति ।

भाषार्थ—हे याज्ञिक ! आपके द्वारा अग्नि में विधिपूर्वक दी हुई आहुति असमय में सूखते हुए धानों के लिए वृष्टि रूप होती है ॥ ६२ ॥

स्वप्रजानां सर्वतोभावेन सुखित्वे त्वद्ब्रह्मवर्चसं हेतुरित्याह—

पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥ ६३ ॥

अन्वयः—मदीयाः प्रजाः पुरुषायुषजीविन्यः निरातंका निरीतयः ( इति ) यत् तस्य हेतुः त्वद्ब्रह्मवर्चसम् ।

पुरुषायुषेति । आयुर्जीवितकालः । पुरुषस्यायुः पुरुषायुषम् । वर्षशतमित्यर्थः । ( शतायुर्वे पुरुषः ) इति श्रुतेः । 'अचतुरविचतुरसुचतुर—' इत्यादिसूत्रेणाच्प्रत्ययान्तो निपातः । मदीयाः प्रजाः पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः । निरातङ्का निर्भयाः । 'आतङ्को भयमाशङ्का' इति हलायुधः । निरीतयोऽतिवृष्ट्यादिरहिताः इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसंपत्तिरेव हेतुः । 'व्रताध्यननसंपत्तिरित्येतद्ब्रह्मवर्चसम्' इति हलायुधः । ब्रह्मणो वर्चो ब्रह्मवर्चसम् । 'ब्रह्महस्तिभ्यां वर्चसः' इत्यच्प्रत्ययः । 'अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ।। इति कामन्दकः ।

भाषार्थ—मेरी प्रजा मनुष्यों की परमायु (सौ वर्ष) तक जीने वाली निडर और ईतियों से जो बची हुई है इसका कारण आपका ब्रह्मतेज है ॥ ६३ ॥

भवादृशेन मद्गुरुणा सर्वं मे सुखं भवतीत्याह—

त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥ ६४ ॥

अन्वयः—ब्रह्मयोनिना गुरुणा त्वया एवं चिन्त्यमानस्य निरापदः मे सम्पदः सानुबन्धा कथं न स्युः ।

३०रघुवंशमहाकाव्ये

त्वयैवमिति। ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वयैवमुक्तप्रकारेण चिन्त्यमानस्याऽनुध्यायमानस्य। अत एव निरापदो व्यसनहीनस्य मे संपदः सानुबन्धाः सानुस्यूतयोऽविच्छिन्ना इति यावत्। कथं न स्युः। स्युरित्यर्थः।

**भाषार्थ—**आप जैसे ब्रह्मा के मानसपुत्र गुरु द्वारा इस प्रकार चिन्त्यमान मेरी आपत्तिरहित सम्पति निर्विघ्न क्यों न रहे ? ॥ ६४ ॥

मंत्रस्यागमनप्रयोजनमाह—

किन्तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् ।
न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥ ६५ ॥

**अन्वयः—**किन्तु तव एतस्यां वध्वां अदृष्टसदृशप्रजं मां सप्तद्वीपाः रत्नसूः अपि मेदिनी न अवति ।

किन्त्विति । किन्तु तवैतस्यां वध्वां स्नुषायाम् । 'वधूर्जाया स्नुषा चैव' इत्यमरः । अदृष्टा सदृश्यानुरूपा प्रजा येन तं मां सद्वीपाऽपि । रत्नानि सूयत इति रत्नसूरपि । 'सत्सूद्विष्–' इत्यादिना क्विप् । मेदिनी नावति न प्रीणाति । 'अव' धातु रक्षणगतिकान्त्याद्यर्थेषूपदेशादत्र प्रीणने । रत्नसूरपीत्यनेन सर्वरत्नेभ्यः पुत्ररत्नमेव श्लाघ्यमिति सूचितम् ।

**भाषार्थ—**किन्तु आपकी इस पतोहू में अपने समान सन्तति को न देख कर मुझे रत्नगर्भा सातों द्वीपों सहित यह पृथिवी भी अच्छी नहीं लगती ॥ ६५ ॥

पुत्राभावेन पितॄणां दुःखेन पिण्डग्रहणं भविष्यतीत्याह—

नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥ ६६ ॥

**अन्वयः—**मत्तः परं पिण्डविच्छेददर्शिनः वंश्याः स्वधासंग्रहतत्पराः श्राद्धे प्रकामभुजः न ( भवन्ति ) नूनम् ॥ ६६ ॥

नूनमिति । मत्तः परं मदनन्तरम् 'पञ्चम्यास्तसिल्' ! पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदमुत्प्रेक्षमाणाः । वंशोद्भवा वंश्याः पितरः । स्वधेत्यव्ययं पितृभोज्ये वर्तते । तस्याः संग्रहे तत्परा आसक्ताः सन्तः श्राद्धे पितृकर्मणि 'पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शाश्वतः' इत्यमरः । प्रकामभुजः पर्याप्तभोजिनो न भवन्ति । नूनं सत्यम् । 'कामं प्रकामं पर्याप्तम्' इत्यमरः । निर्धना ह्यापद्धनं कियदपि संगृह्णन्तीति भावः ।

**भाषार्थ—**मेरे बाद पिण्ड पाने का अभाव देखने, वाले स्वधा संग्रह में लगे हुए मेरे पूर्वज श्राद्ध में स्वेच्छापूर्वक भोजन न कर सकेंगे, यह निश्चित है ॥ ६६ ॥

[ प्रथमः सर्गः ] ३१

पुत्राभावेन पितृणां दुःखेन जलग्रहणं भविष्यतीत्याह—
मत्परं दुर्लभं मत्वा नूनमावर्जितं मया।
पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते ॥ ६७ ॥

अन्वयः—मत्परं दुर्लभं इति मन्वा मया आवर्जितं पयः पूर्वैः निःश्वासैः कवोष्णम् उपभुज्यते नूनम् ।

मत्परमिति । मत्परं मदनन्तरम् । 'अन्यारादितरतेंदिक्' इत्यनेन पञ्चमी । दुर्लभं दुर्लभ्यं मत्वा मयाऽऽवर्जितं मदत्तं पयः पूर्वैः पितृभिः स्वनिःश्वासैर्दुःखजैः कवोष्णमीपदुष्णं यथा तथोपभुज्यते । नूनमिति वितर्के । कवोष्णमिति कुशव्दस्य कवादेशः ! 'कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति' इत्यमरः ।

भाषार्थ—मेरे बाद मिलना दुर्लभ समझ कर मेरे दिये हुए जल को यह निश्चित है कि मेरे पूर्वज अपनी आहों से थोड़ा गरम करके पीते हैं।

पितृणानुद्धृतस्य दिलीपस्य दुःखप्रकाशनमित्याह—
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥ ६८ ॥

अन्वयः—इज्याविशुद्धात्मा प्रजालोपनिमीलितः स अहं लोकालोकः अचलः इव प्रकाशः च अप्रकाशः च ( अस्मि ) ।

स इति । इज्या यागः 'व्रजयजोर्भावे क्यप्' इति क्यप्प्रत्ययः । तथा विशुद्धात्मा विशुद्धचेतनः प्रजालोपेन सन्तत्यभावेन निमीलितः । कृतनिमीलन सोऽहम् । लोक्यत इति लोकः । न लोक्यत इत्यलोकः, लोकश्चालोकश्चात्र स्त इति । लोकश्चासावलोकश्चेति वा, लोकालोकश्चक्रवालोऽचल इव । 'लोकालोकश्चक्रवालः' इत्यमरः । प्रकाशत इति प्रकाशश्च देवर्णविमोचनात् । न प्रकाशत इत्यप्रकाशश्च पितृणविमोचनात् पचाद्यच् । अस्मीति शेषः । लोकालोकोऽप्यन्तःसूर्यसंपर्काद्वहिस्तमोव्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम् ।

भाषार्थ—यज्ञ करने से पवित्र अन्तःकरण वाला सन्तान न होने से अन्धा मैं लोकालोक पर्वत के समान कभी प्रकाशवान् कभी अप्रकाशवान् हूँ ।

ननु तपोदानादिसम्पन्नस्य किमपत्यैरित्यत्राह—
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ ६९ ॥

अन्वयः—तपोदानसमुद्भवं पुण्यं लोकान्तरसुखम् । हि शुद्धवंश्या सन्ततिः परत्र इह च शर्मणे (भवतीति शेषः) ।

३२ रघुवंशमहाकाव्ये

लोकान्तरेति । समुद्भवत्यस्मादिति समुद्भवः कारणम् । तपोदाने समुद्भवो यस्य तत्तपोदानसमुद्भवं यत्पुण्यं तल्लोकान्तरे परलोके सुखं सुखकरम् । शुद्धवंशे भवा शुद्धवंश्या सन्ततिर्हि परत्र परलोके, इह च लोके शर्मणे सुखाय । 'शर्मशात-सुखानि च' इत्यमरः । भवतीति शेषः ।

भाषार्थ—तपस्या एवं दान से उत्पन्न पुण्य परलोक में सुखदायक होता है । शुद्ध वंश की सन्तति इस लोक और परलोक में सुख देनेवाली होती है ॥६९॥

सामर्थ्योऽपि कथममपत्यं मां ज्ञात्वा भवान्न दूयत इत्याह—
तया हीनं विधातर्मां कथं पश्यन्न दूयसे ।
सिक्तं स्वयमिव स्नेहाद् बन्ध्यमाश्रमवृक्षकम् ॥ ७० ॥

अन्वयः—हे विधातः ! तया हीनं मां स्नेहात् स्वयं सिक्तं बन्ध्यम् आश्रम-वृक्षकम् इव पश्यन् कथं न दूयसे ?

तयेति । हे विधातः स्रष्टः ! तया सन्तत्या हीनमपत्यं माम् स्नेहात्प्रेम्णा स्वयमेव सिक्तं जलसेकेन वर्धितं बन्ध्यमफलम् । 'बन्ध्योऽफलोऽवकेशी च' इत्यमरः । आश्रमस्य वृक्षकं वृक्षपोतमिव । पश्यन्कथं न दूयसे न परितप्यसे ? विधातरित्यनेन समर्थोऽप्युपेक्षस इति गम्यते ।

भाषार्थ—हे गुरो ! सन्तानहीन मुझको प्यार से स्वयं सींचे हुए आश्रम के वृक्षों के समान विफल देखकर दुःखी क्यों नहीं होते हो ? ॥ ७० ॥

दिलीपस्य स्वकीयापुत्रत्वस्यासह्यपीडत्वकथनमित्याह—
असह्यपीडं भगवन्नृणमन्त्यमवेहि मे ।
अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥ ७१ ॥

अन्वयः—हे भगवन् ! मे (अरुन्तुदम् ) अन्यं ऋणं अनिर्वाणस्य दन्तिनः अरुन्तुदं आलानं इव असह्यपीडं अवेहि ।

असह्यपीडमिति । हे भगवन् ! मे ममान्त्यमृणं पैतृकमृणम् । अनिर्वाणस्य मज्जनरहितस्य । 'निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने' इति यादवः । दन्तिनो गजस्य । अरुर्ममं तुदतीत्यरुन्दतुदं मर्मस्पृक् । 'व्रणोऽस्त्रियामीर्ममर्मरुः' इति, 'अरुन्तुदन्तु मर्मस्पृक्' इति चामरः । विध्वरुषोस्तुदः' इति खश्प्रत्ययः, 'अरुर्द्विषद्व-' इत्यादिना मुमागमः । आलानं बन्धनस्तम्भमिव । 'आलानं बन्धन-स्तम्भे' इत्यमरः । असह्या सोढुमशक्या पीडा दुःखं यस्मिंस्तदवेहि । दुःसहः-दुःखजनकं विद्धीत्यर्थः । 'निर्वाणोत्थानशयनानि त्रीणि गजकर्माणि' इति पालकाप्ये । 'ऋणं देवस्य यागेन ऋषीणां दानकर्मणा । सन्तत्या पितृलोकानां शोधयित्वा परिव्रजेत्" ।

प्रथमः सर्गः | ३३

**भाषार्थ—**हे भगवन् ! मेरे पैतृक ऋण को मज्जनरहित, बद्ध हाथी के मर्मच्छेदी स्तम्भ की तरह समझो ॥ ७१ ॥

दिलीपस्य पुत्रप्राप्तौ प्रयत्नं कर्तुं वशिष्ठं प्रति कथनमित्याह—

तस्मान्मुच्ये यथा तात ! संविधातं तथाऽर्हसि ।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥ ७२ ॥

**अन्वयः—**तात ! तस्मात् यथा मुच्ये तथा संविधातुं अर्हसि । हि इक्ष्वाकूणां दुरापे अर्थे सिद्धयः त्वदधीनाः (सन्ति) ।

तस्मादिति । हे तात ! तस्मात्पैतृकादृणाद्यथा मुच्ये मुक्तो भवामि । कर्मणि लट् । तथा संविधातुं कर्तुमर्हसि । हि यस्मात्कारणादिक्ष्वाकूणामिक्ष्वाकुवंश्या नाम् तद्राजत्वाद्बहुष्वणो लुक् । दुरापे दुष्प्राप्येऽर्थे । सिद्धयस्त्वदधीनास्त्वदायत्ताः । इक्ष वाकू णामिति शेषे षष्ठी । 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' इत्यनेन कृद्योगे षष्ठीनिषेधात्

**भाषार्थ—**हे गुरो ! उस पैतृक ऋण से मैं जिस प्रकार मुक्त हो सकूँ वैसा आप उपाय करने को योग्य हैं, क्योंकि इक्ष्वाकुवंश में उत्पन्न राजाओं के कठिन कार्यों की सिद्धि आपके ही आधीन है ॥ ७२ ॥

दिलीपप्रश्नं श्रुत्वा वशिष्ठस्य तदुपरि विचार इत्याह—

इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ॥ ७३ ॥

**अन्वयः—**इति राज्ञा विज्ञापितः ऋषिः ध्यानस्तिमितलोचनः (सन्) सुप्तमीनः ह्रद इव क्षणमात्रं तस्थौ ।

इतीति । इति राज्ञा विज्ञापित ऋषिर्ध्यानेन स्तिमिते लोचने यस्य स ध्यानस्तिमितलोचनो निश्चलाक्षः सन् क्षणमात्रं सुप्तमीनो ह्रद इव तस्थौ ।

**भाषार्थ—**इस प्रकार राजा दिलीप से प्रार्थना किए जाने पर महर्षि वसिष्ठ ध्यान से आंख बन्द कर सोई हुई मछलियों से युक्त सरोवर के समान क्षणमात्र समाधिस्थ हो गये ॥ ७३ ॥

वसिष्ठस्य ध्यानचक्षुषा पुत्रप्रतिबन्धककारणं विज्ञाय दिलीपं प्रति कथनमित्याह—

सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् ।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥ ७४ ॥

**अन्वय —**भावितात्मा सः प्रणिधानेन भुवः भर्तुः सन्ततेः स्तम्भकारणं अपश्यत् अथ एनं प्रत्यबोधयत् च ।

स इति । स मुनिः प्रणिधानेन चित्तैकाग्र्येण भावितात्मा शुद्धान्तःकरणः भुवो

३ र० सम्पू०

३४रघुवंशमहाकाव्ये

भर्त्तुर्नुग्स्य सन्ततेः स्तम्भकारणं सन्तानप्रतिबन्धकारणमपश्यत् । अथानान्तरमेनं नृपं प्रत्यबोधयत् । स्वदृष्टं ज्ञापितवानित्यर्थः । एनमिति 'गतिबुद्धिप्रत्यवसानार्थ-' इत्यादिनाणि कर्तुः कर्मत्वम् ।

भाषार्थ—उस पवित्रात्मा वसिष्ठ जी ने ध्यान से राजा दिलीप की सन्तान के प्रतिबन्ध का कारण देखा और उनसे बतलाया ॥ ७४ ॥

वसिष्ठस्य राज्ञः सन्तानप्रतिबन्धकारणकथनमित्यत्राह—

पुरा शक्रमुपस्थाय तवोर्वी प्रति यास्यतः ।
आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥ ७५ ॥

अन्वयः—पुरा शक्रं उपस्थाय उर्वी प्रति यास्यतः तव पथि कल्पतरुच्छायां बाश्रिता सुरभिः आसीत् ।

पुरेति । पुरा पूर्वं शक्रमिन्द्रमुपस्थाय संसेव्योर्वी प्रति भुवमुद्दिश्य यास्यतो गमिष्यतस्तव पथि वर्त्मनि कल्पतरुच्छायामाश्रिता सुरभिः कामधेनुरासीत् । तत्र स्थितेत्यर्थः ।

भाषार्थ—पहले इन्द्र के पास जाकर पृथ्वी की ओर लौटते हुए तुम्हारे मार्ग में कल्पवृक्ष की छाया में सुरभि गौ बैठी हुई थी ॥ ७५ ॥

कामधेनोः प्रदक्षिणाऽकरणे हेतुं प्रदर्शयन्नाह—

धर्मलोपभयाद्राज्ञोमृतुस्नातामिमां स्मरन् ।
प्रदक्षिणक्रियाऽर्हायां तस्यां त्वं साधु नाचर ॥ ७६ ॥

अन्वयः—ऋतुस्नातां इमां राज्ञीं धर्मलोपभयात् स्मरन् त्वं प्रदक्षिणाक्रियार्हायां तस्यां साधु न अचरः ।

धर्मेति । ऋतुः पुष्पं रज इति यावत् । 'ऋतुः स्त्रीकुसुमेऽपि च' इत्यमरः । ऋतुना निमित्तेन स्नातामिमां राज्ञीं सुदक्षिणाम् । धर्मस्यत्वं भिगमलक्षणस्य लोपाद् भ्रंशाद्भयं तस्मात्स्मरन्ध्यायन् । "मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत् विज्ञातांश्च वनस्पतीन्" इति शास्त्रात्प्रदक्षिणक्रियाऽर्हायां प्रदक्षिण-करणयोग्यायां तस्यां घेन्वां त्वं साधु प्रदक्षिणादिसत्कारं नाचरो नाचष्टितवानसि । व्यासक्ता हि विस्मरन्तीति भावः । ऋतुकालाभिगमने मनुः—'ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा' इति । अकरणे दोषमाह पराशरः—"ऋतुस्नातां तु यो भार्या स्वस्थः सन्नोपगच्छति । बालगोध्नाण्डराधेन विध्यते नात्र संशयः" इति । तथा च—"ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः" इति ।