सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

द्वादशः सर्गः | ४२५

द्वादशः सर्गः४२५

बालेति। पतिष्यतः आसन्नपातस्य रक्षःकायस्य रावणकलेवरस्य छिद्यन्त इति छेदाः खण्डाः। कण्ठानां ये छेदास्तेषां परम्परा पङ्क्तिः। वीचिभिर्भिन्ना नानाकृताऽप्सु बालार्कस्य प्रतिमा प्रतिबिम्बमिव रराज। अर्कस्य बालविशेषणमारुण्यसिद्धयर्थमिति भावः।

**भाषार्थ—**रावण के शिर कटकर गिरते हुए ऐसे अच्छे लगते थे जैसे चञ्चल लहरों में प्रातःकाल के सूर्य का प्रतिबिम्ब शोभा देता है॥ १०० ॥

मरुतां पश्यतां तस्य शिरांसि पतितान्यपि।
मनो नातिविशश्वास पुनः संधानशङ्किनाम्॥ १०१ ॥

**अन्वयः—**पतितानि तस्य शिरांसि पश्यताम् अपि पुनः सन्धानशङ्किनां मरुतां मनः नातिविशश्वास।

मरुतामिति। पतितानि तस्य रावणस्य शिरांसि पश्यतामपि पुनः संधानशङ्किनाम्। पूर्वं तथादर्शनादिति भावः। मरुताममराणाम्। ‘मरुतो पवनामरौ’ इत्यमरः। मनो चित्तं नातिविशश्वासाऽतिविश्वासं न प्राप।

**भाषार्थ—**रावण के कटे हुए सिरों को देखकर भी देवताओं को विश्वास नहीं हुआ, क्योंकि उन्हें यह डर था कि कहीं ये पुनः जुड़ न जाँय॥ १०१ ॥

अथ मदगुरुपक्षैर्लोकपालद्विपाना-
मनुगतमलिबृन्दैर्गण्डभित्तीर्विहाय।
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः
सुरभि सुरविमुक्तं पुष्पवर्षं पपात॥ १०२ ॥

**अन्वयः—**अथ मदगुरुपक्षैः अलिवृन्दैः लोकपालद्विपानां गण्डभित्तीः विहाय अनुगतं सुरभि सुरविमुक्तं पुष्पवर्षं उपनतमणिबन्धे पोलस्त्यशत्रोः मूर्ध्नि पपात।

अथेति। अथ मदेन गजगण्डसंचारसंक्रान्तेन गुरुपक्षैर्भारायमाणपक्षैरलिबृन्दैर्लोकपालद्विपानामैरावतादीनां गगनदन्तिनां गण्डभित्तीर्विहायानुगतमनुद्रुतं सुरभि सुगन्धि। ‘सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः गन्धोपले सौरभेय्यां सल्लकीमातृभेदयोः॥ सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभि स्मृतम्॥’ इति विश्वः। सुरविमुक्तं पुष्पवर्षमुपनत आसन्नो मणिबन्धो राज्याभिषेकसमये भावी यस्य तस्मिन्पौलस्त्यशत्रौ रामस्य मूर्ध्नि शिरसि पपात। इदमेव राज्याभिषेकसूचकमिति भावः। मालिनीवृत्तमेतत्।

**भाषार्थ—**जिस राम पर भावी राज्याभिषेक का जल छिड़का जाने वाला था उन्हीं के सिर पर देवताओं ने वे फूल बरसाये जिनकी सुगन्ध पाकर हाथियों का मदजल पान करने से भीगे पांखवाले भ्रमरसमूह दिक्पालों के हाथियों के

४२६ रघुवंशमहाकाव्ये

मदस्रावी कपोलों को छोड़कर रस लेने के लिए उनके पीछे-पीछे दौड़ पड़े॥१०२॥

यन्ता हरेः सपदि संहृतकार्मुकज्य-
मापृच्छय राघवमनुष्ठितदेवकार्यम्।
नामाङ्करावरणशराङ्कितकेतुयष्टि-
मूर्ध्वं रथं हरितसहस्रयुजं निनाय ।। १०३ ।।

अन्वयः—हरेः यन्ता सपदि संहृतकार्मुकज्यं अनुष्ठितदेवकार्यं राघवं आपृच्छय नामाङ्करावणशराङ्कितकेतुयष्टि हरितसहस्रयुजं रथं ऊर्ध्वं निनाय ।

यन्तेति । हरेरिन्द्रस्य यन्ता मातलिः सपदि संहृतकार्मुकज्यमनुष्ठितं देवकार्यं रावणवधरूपं येन तं राघवमापृच्छद्य साधु यामीत्यामन्त्र्य नामाङ्कैर्नामाक्षर-चिह्न रावणशरैरङ्किता चिह्निता केतुयष्टिर्ध्वजदण्डो यस्य तं । हरीणां वजिनां सहस्रेण युज्यत इति हरिसहस्रयुक् तम् । ‘यमानिलेन्द्रचन्द्राकँविष्णुसिंहशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु’ इत्युभयत्राप्यमरः । रथमूध्वं निनाय नीतवान् ।

भाषार्थ—राम ने धनुष की डोरी उतार दी क्योंकि उन्होंने देवताओं का कार्य पूरा कर दिया। इन्द्र का सारथी मातली उनसे आज्ञा लेकर अपना सहस्र घोड़ों से युक्त रथ लेकर स्वर्ग में चला गया, उस रथ की ध्वजा के दण्ड पर अभी तक रावण के नाम खुदे हुए वाणों के चिह्न बने हुए थे ॥ १०३ ॥

रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां
प्रियसूहृदि विभीषणे सङ्गमय्य श्रियं वैरिणः।
रविसुतसहितेन तेनानुयातः ससौमित्रिणा
भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ।। १०४ ।।

अन्वयः—रघुपतिः अपि जातवेदोविशुद्धां प्रियां प्रगृह्य प्रियसूहृदि विभीषणे वैरिणः श्रियं संगमय्य रविसुतसहितेन ससौमित्रिणा तेन अनुयातः भुज: विजित विमान रत्नाधिरूढः पुरीं प्रतस्थे ।

रघुपतिरिति । रघुपतिरपि जातवेदस्याग्नी विशुद्धां जातशुद्धि प्रियां सीतां प्रगृह्य स्वीकृत्य प्रियसूहृदि विभीषणे वैरिणो रावणस्य श्रियं राजलक्ष्मीं सङ्गमय्य सङ्गतां कृत्वा । गमेर्ण्यन्ताल्लचप्रत्ययः । “मितां ह्रस्वः” । “ल्यपि लघुपूर्वात्” इति णेरया-देशः । रविसुनसहितेन सुग्रीवयुक्तेन ससौमित्रिणा सलक्ष्मणेन तेन विभीषणेनानु-यातोऽनुगतः सन् विमानं रत्नमिव विमानरत्नमित्युपमितसमासः । भुजविजितं यद्विमानरत्नं पुष्पकं तदारूढः सन् । पुरीमयोध्यां प्रतस्थे । “समवप्रविभ्यः स्थः” इत्यात्मनेपदम् । अत्र प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्देशकियापेक्षया