रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
द्वादशः सर्गः ४१५
द्वादशः सर्गः ४१५
भयंकर घाव करते थे कि शस्त्रों से भी वैसे घाव नहीं हो सकते थे और लड़ाकू हाथियों के शिरों पर बड़ी-बड़ी चट्टानें फेंककर उनका कचूमर निकाल देते थे ॥ ७३ ॥
अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥ ७४ ॥
अन्वयः—अथ शिरच्छेददर्शनोद्भ्रान्तचेतनां सीतां त्रिजटा माया इति शंसन्ती समजीवयत् ।
अथेति । अथानन्तरं छिद्यत इति छेदः खण्डः शिर एव छेद इति विग्रहः । रामशिरच्छेदस्य विद्युज्जिह्वाख्यराक्षसमायानिर्मितस्य दर्शनेनोद्भ्रान्तचेतनां गतसंज्ञां सीतां त्रिजटा नाम काचित्सीतापक्षपातिनी राक्षसी मायाकल्पितं नत्वेतत्सत्यमिति शंसन्ती ब्रुवाणा । "इयप्स्यनोर्नित्यम्" इति नित्यं नुमागमः। समजीवयत् ।
भाषार्थ—इसी बीच विद्युज्जिह्व नामक एक राक्षस ने माया से कटा हुआ राम का शिर बनाकर सीताजी के सामने ला पटका, उसे देखते ही सीताजी व्याकुल हो गई, पर त्रिजटा ने उन्हें समझाया कि यह राक्षसी माया है, तब सीता जी को जान में जान आ गई ॥ ७४ ॥
कामं जीवति मे नाथ इति सा विजहौ शुचम् ।
प्राङ्मत्वा सत्यमस्यान्तं जीविताऽस्मीति लज्जिता ॥ ७५ ॥
अन्वयः—सा मे नाथः जीवति इति शुचं कामं विजहौ, ( किन्तु ) प्राक् अस्य अन्त सत्यं मत्वा जीविता अस्मि इति लज्जिता ।
काममिति । सा सीता मे नाथो जीवतीति हेतोः शुचं शोको कामं विजहौ तत्याज । किन्तु प्राक्पूर्वमस्य नाथस्यान्तं नाशं सत्यं यथार्थं मत्वा जीविता - जीवतवत्यस्मीति हेतोर्लज्जिता लज्जावती । कर्तरि क्तः । दुःखादपि दुःसहो लज्जाभार इति भावः ।
भाषार्थ—यह जानकर सीताजी ने शोक करना तो छोड़ दिया कि मेरे पतिदेव राम अभी जीवित हैं, पर उन्हें इस बात की बड़ी लज्जा हुई कि पहले पति के मारे जाने का समाचार सुनकर भी मैं जीती रह गई, उसी क्षण मर नहीं गई ॥ ७५ ॥
गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः ।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥ ७६ ॥
अन्वयः—गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः क्षणक्लेशः दाशरथ्योः स्वप्नवृत्त इव अभवत् ।
गरुडेति । गरुडस्तार्क्ष्यः तस्यापातेनागमनेन विश्लिष्टं मेघनादस्येन्द्रजितोऽस्त्रेण
| ४१६ | रघुवंशमहाकाव्ये |
|---|
नागपाशेन बन्धनं यस्मिन्स तथोक्तः । क्षणक्लेशो दाशरथ्योः रामलक्ष्मणयोः स्वप्नवृत्तः स्वप्नावस्थायां भूत इवाभवत् ।
**भाषार्थ—**उसी समय मेघनाद ने राम और लक्ष्मण को नागपाश में बाँध लिया, पर गरुण ने आकर उस फन्दे को तत्काल काट दिया । पाश में बँधने का यह क्षण भर का क्लेश भी उन दोनों भाइयों को ऐसा मालूम पड़ा, मानों स्वप्न में हुआ हो ७६ ॥
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।
रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा ॥ ७७ ॥
**अन्वयः—**ततः पौलस्त्यः शक्त्या लक्ष्मणं वक्षसि बिभेद, रामः तु अनाहतः अपि शुचा विदीर्णहृदयः आसीत् ।
तत इति । ततः पौलस्त्यो रावणः शक्त्या कासूनामकेनायुधेन । 'कासूसा-मर्थ्ययोः शक्तिः' इत्यमरः । लक्ष्मणं वक्षसि बिभेद विदारयामास । रामस्त्वना-हतोऽप्यहतोऽपि शुचा शोकेन विदीर्णहृदय आसीत् ।
**भाषार्थ—**तब पुलस्त्य के कुल में उत्पन्न रावण के पुत्र मेघनाद ने खींचकर लक्ष्मण की छाती पर ऐसा शक्तिबाण मारा, कि लक्ष्मण तत्काल गिर गये और उन्हें देखकर यद्यपि राम को किसी प्रकार की चोट नहीं लगी थी फिर भी उनका हृदय शोक से फटने लगा ॥ ७७ ॥
स मारुतिसमानीतमहौषधिहतव्यथः ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥ ७८ ॥
**अन्वयः—**स मारुतिसमानीतमहौषधिहतव्यथः (सन् ) पुनः शरैः लङ्कास्त्रीणां विलापाचार्यकं चक्रे ।
स इति । स लक्ष्मणो मारुतिना मरुत्सुतेन हनुमता समानीतया महौषध्या संजीवन्या हतव्यथः सन्पुनः शरैर्लङ्कास्त्रीणां विलापे परिदेवने । 'विलापः परि-देवनम्' इत्यमरः । आचार्यकमाचार्यकर्म "योपधाद्गुरूपोत्तमाद्वुञ्" इति वुञ् । चक्रे । पुनरपि राक्षसाञ्घानेति व्यज्यते ।
**भाषार्थ—**हनुमान् जी तत्काल जाकर धवलागिरि पर्वत से संजीवनी बूटी लाये, जिसके पिलाते ही लक्ष्मण की मूर्च्छा छूट गई और सारी पीड़ा दूर हो गई । फिर उठकर उन्होंने अपने बाणों से अगणित राक्षसों को मारकर लंका की स्त्रियों के रोने में आचार्य का कार्य किया । अर्थात् उनके बाणों से राक्षसों के मारे जाने पर उनकी स्त्रियाँ विलाप करने लगीं ॥ ७८ ॥
द्वादशः सर्गः
४१७
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् ।
मेघस्येव शरत्कालो न किञ्चित्पर्यशेषयत् ॥ ७९ ॥
अन्वयः— सः शरत्कालः मेघस्य इव मेघनादस्य नादं इन्द्रायुधप्रभं धनुः च किञ्चित् अपि न पर्यशेषयत् ।
स इति । स लक्ष्मणः शरत्कालो मेघस्येव मेघनादस्येन्द्रजितो नादं सिंहनादम् । अन्यत्र गर्जितं च । इन्द्रायुधप्रभं शक्रधनुःप्रभं धनुश्च किञ्चिदल्पमपि न पर्यशेषयन्नावशेषितवान् । तमवधीदित्यर्थः ।
भाषार्थ— जिस प्रकार शरद् ऋतु वर्षा कालीन मेघ के गर्जन और इन्द्रधनुष को नष्ट कर देता है उसी प्रकार लक्ष्मण ने मेघनाद के गर्जन और इन्द्रधनुष के समान प्रभाववाले धनुष को नष्ट कर डाला । अर्थात् लक्ष्मण ने मेघनाद को मार डाला ॥ ७९ ॥
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः ।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ ८० ॥
अन्वयः— कपीन्द्रेण स्वसुः तुल्यावस्थः कृतः कुम्भकर्णः टङ्कच्छिन्नमनःशिलः शृङ्गी इव रामं रुरोध ।
कुम्भकर्णं इति । कपीन्द्रेण सुग्रीवेण स्वसुः सूर्पणखायास्तुल्यावस्थो नासाकर्णच्छेदेन सदृशः कृतः । कुम्भकर्णष्टङ्केन शिलाभेदकशस्त्रेण छिन्न मनःशिला रक्तवर्णं धातुविशेषो यस्य स तथोक्तः । 'टङ्कः पाषाणदारणः' इति 'धातुर्मनःशिलाद्यद्रेः' इति शृङ्गी शिखरीव रामं रुरोध ।
भाषार्थ— उधर वानरराज सुग्रीव ने कुम्भकर्ण की नाक काटकर शूर्पणखा के समान बना दिया था वह राम का मार्ग रोककर वैसे ही सामने खड़ा हो गया जैसे टांगी से कटी मैनसिल की चट्टान आ गिरी हो ॥ ८० ॥
अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् ।
रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः ॥ ८१ ॥
अन्वयः— प्रियस्वप्नः भवान् वृथा भ्रात्रा अकाले बोधितः इति इव असौ रामेषुभिः दीर्घनिद्रां प्रवेशितः ।
अकाल इति । प्रियस्वप्न इष्टनिद्रोऽनुजो भवान्वृथा भ्रात्रा रावणेनाकाले बोधित इतीवासौ कुम्भकर्णो रामेषुभी रामबाणैर्दीर्घनिद्रां मरणं प्रवेशितो गमितः । यथा लोकेष्विष्टवस्तुविनाशदुःखितस्य ततोऽपि भूयिष्ठमुपपाद्यते तद्वदिति भावः ।
भावार्थ— राम के बाणों से घायल होकर कुम्भकर्ण गिरकर मर गया, मानो
२७ र० सम्पू०
४१८ रघुवंशमहाकाव्ये
राम के बाणों ने उसे यह कहकर गहरी नींद में सुला दिया कि तुमको नींद बड़ी प्यारी है, तुम्हारे भाई रावण ने व्यर्थ ही तुम्हें असमय में जगा दिया है ॥ ८१ ॥
इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥ ८२ ॥
**अन्वयः—**इतराणि रक्षांसि अपि वानरकोटिषु समरोत्थानि रजांसि तच्छोणितनदीषु इव पेतुः ।
इतराणीति । इतराणि रक्षांस्यपि वानरकोटिषु समरोत्थानि रजांसि तेषां रक्षसां शोणितनदीषु रक्तप्रवाहेष्विव पेतुः निपत्य मृतानीत्यर्थः ।
**भाषार्थ—**और भी बहुत से राक्षस करोड़ों वानरों की सेना के बीच में इस प्रकार गिर रहे थे, मानो राक्षसों के रक्त की नदी में रणक्षेत्र से उठी हुई धूली पड़ रही हो ॥ ८२ ॥
निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् ।
अरावणमरामं वा जगदद्येति निश्चितः ॥ ८३ ॥
**अन्वयः—**अथ पौलस्त्यः अद्य जगत् अरामं अरावणं वा ( भवेत् ) इति निश्चितः पुनः युद्धाय मन्दिरात् निर्ययौ ।
निर्ययाविति । अथ पौलस्त्यो रावणः अद्य जगदरावणं रावणशून्यं रामशून्यं वा भवेदिति निश्चितो निश्चितवान् । कर्तरि क्तः । विजयमरणयोरन्तरनिश्चयवान्पुनर्युद्धाय मन्दिरात्निर्ययौ निर्जगाम ।
**भाषार्थ—**इसके बाद रावण युद्ध के लिए अपने राजभवन से निकल पड़ा, उसने अपने मन में ठान लिया था कि आज संसार में या तो रावण ही नहीं रहेगा या राम ही नहीं रहेंगे । अर्थात् मैं मर जाऊँगा या राम को ही मार डालूँगा ॥ ८३ ॥
रामं पदातिमालोक्य लङ्केशं च वरूथिनम् ।
हरियुग्यं रथं तस्मै प्रजिघाय पुरन्दरः ॥ ८४ ॥
**अन्वयः—**पदातिं रामं वरूथिनम् लंकेशं च आलोक्य पुरन्दरः हरियुग्यं रथं तस्मै प्रजिघाय ।
राममिति । पादाभ्यामततीति पदातिः पादचारिणं रामम् । वरूथो रथगुप्तिः । ‘रथगुप्तिर्वरूथो ना' इत्यमरः । अत्र वरूथेन रथो लक्ष्यते । वरूथिनं रथिनं लंकेशं चालोक्य पुरन्दर इन्द्रः । युगं वहन्तीति युग्या रथाश्वाः “तद्वहति रथयुगप्रासङ्गम्”
द्वादशः सर्गः ४१६
इति यत्प्रत्ययः । हरियुग्यं कपिलवर्णाश्वम् । 'शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । रथं तस्मै रामाय प्रजिघाय प्रहितवान् ।
भाषार्थ—रावण को रथ पर सवार और राम को पैदल देख कर इन्द्र ने अपना वह रथ भेजा, जिसमें पीले रंग के घोड़े जुते हुए थे ॥ ८४ ॥
तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः ।
देवसूतभुजालम्बी जैत्रमध्यास्त राघवः ॥ ८५ ॥
अन्वयः—राघवः व्योम गङ्गोर्मिवायुभिः आधूतध्वजपटं जैत्रं त देवसूतभुजालम्बी ( सन् ) अध्यास्त ।
तमिति । राघवो व्योमगङ्गोर्मिवायुभिराधूतध्वजपटम् । मार्गवशादिति भावः । जैतेव जैत्रो जयनशीलः तम् जैत्रं । जैतृशब्दात्तन्नन्तात् ‘प्रज्ञादिभ्यश्च' इति स्वार्थेऽणप्रत्ययः । तं रथं देवसूतभुजालम्बी मातलिहस्तावलम्बी सन्नध्यास्ताधिष्ठितवान् । आसेर्लङ् ।
भाषार्थ—उस रथ की ध्वजा आकाश गंगा की लहरों की हवा से फड़फड़ाती चल रही थी । इन्द्र के सारथी मातलि का हाथ पकड़कर रामजी उस विजयशील रथ पर चढ़ गये ॥ ८५ ॥
मातलिस्रतस्य माहेन्द्रमामुमोच तनुच्छदम् ।
यत्रोत्पलदलक्लैव्यमस्त्राण्यापुः सुरद्विषाम् ॥ ८६ ॥
अन्वयः—मातलिः माहेन्द्रं तनुच्छदं तस्य मुमोच यत्र सुरद्विषां अस्त्राणि उत्पलदलक्लैव्यं आपुः ।
मातलिरिति । मातलिरेन्द्रसारथिर्माहेन्द्रम् । तनुश्छाद्यतेऽनेनेति तनुच्छदो वर्म । “पुंसि संज्ञायां घः प्रायेण” इति घः। तं तस्य रामस्यास्यामुमोवासञ्जयामास । यत्र तनुच्छदे सुरद्विषामस्त्राण्युत्पलदलानां यत्क्लैव्यं नपुंसकत्वं निरर्थकत्वं तदापुः ।
भावार्थ—मातलि ने राम को इन्द्र का वह कवच भी पहना दिया जिस पर राक्षसों के अस्त्र ऐसे लगते थे मानों वे अस्त्र नहीं है। किन्तु कमल के पुष्प हों ॥ ८६ ॥
अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।
रामरावणयोर्युद्धं चरितार्थमिवाभवत् ॥ ८७ ॥
अन्वयः—चिरात् अन्योऽन्यदर्शनावाप्तविक्रमावसरं रामरावणयोः युद्धं चरितार्थम् इव अभवत् ।
अन्योन्येति । चिरादन्योन्यदर्शनेन प्राप्तविक्रमावसरं रामरावणयोर्युद्धमायोधनं चरितार्थं सफलमभवदिव । प्राक्पराक्रमावसरदौर्बल्याद्विफलस्याद्य तल्लाभात्साफल्यमुत्प्रेक्ष्यते ।
| ४२० | रघुवंशमहाकाव्ये |
|---|
भाषार्थ—बहुत दिनों के बाद राम और रावण ने एक दूसरे को देखा । इसलिए उन दोनों को अपनी-अपनी वीरता दिखाने का अवसर मिल गया, राम-रावण का युद्ध आज सफल सा हो गया ॥ ८७ ॥
भुजमूर्धोरुबाहुल्यादेकोऽपि धनदानुजः ।
ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः ॥ ८८ ॥
अन्वयः—अयथापूर्वः एकः अपि धनदानुजः भुजमूर्धोरुबाहुल्यात् मातृवंशे स्थित इव ददृशे ।
भुजेति। यथाभूतः पूर्वं यथापूर्वः। सुप्सुपेति समासः । यथापूर्वो न भवतीत्य-यथापूर्वः । निहतबन्धुत्वाद्रक्षः परिचारशून्य इत्यर्थः । अत एवैकोऽपि सन्धन-दानुजो रावणः भुजांश्च मूर्धानंश्चोरवः पादाश्च भुजमूर्धोरुप्राण्यङ्गत्वाद्द्वन्द्वैकवद्भावः । तस्य बाहुल्याद्बहुत्वाद्धेतोः । तद्वहुत्वे यादवः—‘दशास्यो विशतिभुज-श्चतुष्पान्मातृमन्दिरे’ इति । मातृवंशे मातृसम्बन्धिनि वर्गे स्थित इव ददृशे दृष्टो हि । 'वंशो वेणौ कुले वर्गे' इति विश्वः । अत्र रावणात् रक्षो जातित्वात्तद्वर्गो रक्षोवर्ग इति लभ्यते । अतश्चैकोऽप्यनेकरक्षःपरिवृत इवालक्ष्यतेत्यर्थः ।
भाषार्थ—अन्य राक्षसों के मारे जाने के कारण रावण अकेला ही रह गया था, फिर भी अनेक उरु शिर और भुजाओं के कारण वह ऐसा जान पड़ता था मानों उसके साथ बहुत से राक्षस हों । अर्थात् अकेला होता हुआ भी रावण बहुत राक्षसों से घिरा मालूम पड़ता था ॥ ८८ ॥
जेतारं लोकपालानां स्वमुखैरचितेश्वरम् ।
रामस्तुलितकैलासमरातिं बहुमन्वत ॥ ८६ ॥
अन्वयः—लोकपालानां जेतारं स्वमुखैः अर्चितेश्वरं तुलितकैलासं आरातिं रामः बहु अमन्यत ।
जेतारमिति । लोकपालानामिन्द्रादीनां जेतारम् "कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी । स्वमुखैः स्वशिरोभिरर्चितेश्वरं तुलितकैलासमुत्क्षिप्तरुद्राद्रिं तमेवं शौर्यवीर्यसत्त्वसंपन्नं महावीर्यमरातिं शत्रुं रामो गुणग्रहित्वाज्जेतव्योत्कर्षस्य जेतुः स्वोत्कर्षहेतुत्वाच्च बहुमन्वत । साधु मद्विक्रमस्यायं पर्याप्तो विषय इति बहु-मानमकरोदित्यर्थः । बह्विति क्रियाविशेषणम् ।
भाषार्थ—जिस रावण ने इन्द्र आदि दिक्पालों को जीत लिया था, जिसने अपने शिरों को काटकर शिवजी को चढ़ा दिया था और जिसने कैलास पर्वत