सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

दशमः सर्गः ३५१

दशमः सर्गः ३५१

याचितः किल प्रार्थितः खलु। याचेर्द्विकर्मकादप्रधाने कर्मणि क्तः। 'अप्रधाने दुहादीनाम्' इति वचनात्। नायं बालाधिकार इत्याशङ्क्याह—तेजसां तेज- स्विनां वयो बाल्यादि न समीक्ष्यते हि अप्रयोजकमित्यर्थः। अत्र सर्गे रथोद्धता- वृत्तम्। उक्तं च—'रान्नराविह रथोद्धता लगौ' इति।

भाषार्थ—विश्वामित्रजी उस राजा दशरथ के पास आकर यज्ञ के विघ्न को शान्त करने के लिये काकपक्षधारी राम को मांगा। ठीक है, तेजस्वियों की अवस्था नहीं देखी जाती ॥ १ ॥

कृच्छ्रलब्धमपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् ।
अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ २ ॥

अन्वयः—लब्धवर्णभाक् कृच्छ्रलब्धम् अपि सलक्षणं तं मुनये दिदेश। असु- प्रणयिनां अर्थिता रघोः कुले कदाचित् न व्यहन्यत।

कृच्छ्रलब्धमिति। लब्धा वर्णाः प्रसिद्धयो यैस्ते लब्धवर्णा विचक्षणाः। 'लब्धवर्णो विचक्षणः' इत्यमरः। तान्भजत इति लब्धवर्णभाक्। विद्वत्सेवीत्यर्थः। स राजा कृच्छ्रलब्धमपि सलक्ष्मणं तं रामं मुनये दिदेशातिसृष्टवान्। तथाहि असुप्रणयिनां प्राणार्थिनामप्यर्थिता याच्ञा रघोः कुले कदाचिदपि न व्यहन्यत न विहता। न विफलीकृतेत्यर्थः। यैरर्थिभ्यः प्राणा अपि समर्प्यन्ते तेषां पुत्रादि- त्यागो न विस्मयावह इति भावः।

भाषार्थ—यद्यपि राजा दशरथ ने बड़ी तपस्या से राम और लक्ष्मण को पाया था, तथापि वे विद्वानों के बड़े भक्त थे, इसलिए लक्ष्मण सहित राम को विश्वामित्र मुनि के लिए दे दिया; क्योंकि रघुवंशियों की सदा से यह रीति चली आती है कि यदि कोई उनसे प्राण भी मांगे, तो याचक को विमुख नहीं लौटाते ॥ २ ॥

यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसंस्क्रियाम् ।
तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः ॥ ३ ॥

अन्वयः—पार्थिवः तयोः निर्गमाय पुरमार्गसंस्क्रियां यावत् आदिशति तावत् मरुत्सखैः सपुष्पजलवर्षिभिः घनैः सा आशु विदधे।

यावदिति। पार्थिवः पृथिवीश्वरस्तयो रामलक्ष्मणयोर्निर्गमाय निष्क्रमणाय पुरमार्गसंस्क्रियां धूलिसम्मार्जनगन्धोदकसेचनपुष्पोपहाररूपसंस्कारं यावदादि- शत्याज्ञापयति तावन्मरुत्सखैर्वायुसखैः। अनेन धूलिसम्मार्जनं गम्यते।

३५२ रघुवंशमहाकाव्ये

सपुष्पजलवर्षिभिः पुष्पसहितजलवर्षिभिर्घनैः सा मार्गसंस्क्रिया आशु विदधे
विहिता। एतेन देवकार्यप्रवृत्तयोर्देवानुकूल्यं सूचितम् ।
भावार्थ—राजा दशरथ ने जब तक उन दोनों को नगर से बाहर जाने के
लिए मार्ग सजाने की आज्ञा दी, तब तक वायु ने धूलि साफ कर दी, मेघों ने
जल को छिड़कने का कार्य कर दिया और देवताओं ने आकाश से पुष्प वर्षा
कर मार्ग की सजावट कर दी ॥ ३ ॥

तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः ।
भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पविन्दवः ॥ ४ ॥

अन्वयः—निदेशकारणोद्यतौ धन्विनौ तौ पितुः चरणयोः निपेततुः भूपतेः
अपि बाष्पविन्दवः प्रवस्यतोः तयोः उपरि (निपेतुः) ।
ताविति। निदेशकरणोद्यतौ पित्राज्ञाकरणोद्युक्तौ धन्विनौ धनुष्मन्तौ तौ
कुमारौ पितुश्चरणयोर्निपेततुः। प्रणतावित्यर्थः। भूपतेरपि बाष्पविन्दवः प्रवत्स्यतोः
प्रवासं करिष्यतोः अत एव नम्रयोः प्रणतयोः । “नमिकम्पि०” इति रप्रत्ययः ।
तयोरुपरि निपेततुः पतिताः ।
भावार्थ—पिता की आज्ञा का पालन करने के लिए प्रस्तुत और धनुष
लिये हुए उन दोनों राजकुमारों ने अपने पिता के चरणों पर झुक कर प्रणाम
किया और बाहर जाने के लिए उद्यत एवं अपने चरणों पर झुके हुए उन दोनों
के ऊपर दशरथ जी की आंखों से आंसू के बूंद टपक पड़े ॥ ४ ॥

तौ पितुर्नयनजेन वारिणा किञ्चिदुक्षितशिखण्डकावुभौ ।
धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ ५ ॥

अन्वयः—पितुः नयनजेन वारिणा किञ्चित् उक्षितशिखण्डकौ तौ उभौ पौर-
दृष्टिकृतमार्गतोरणौ तं ऋषि अन्वगच्छताम् ।
ताविति। पितुर्नयनजेन वारिणा किञ्चिदुक्षितशिखण्डकावीषत्सिक्तचूडौ ।
'शिखा चूडा शिखण्डः स्यात्' इत्यमरः । “शेषाद्विभाषा” इति कप्प्रत्ययः ।
धन्विनौ तावुभौ पौरदृष्टिभिः कृतानि मार्गतोरणानि सम्पाद्यानि कुवलयानि
ययोस्तौ तथोक्तौ । सदृशो निरीक्ष्यमाणावित्यर्थः। तमृषिमन्वगच्छताम् ।
भावार्थ—राजा दशरथ के नेत्र से निःसृत जलबिन्दुओं से कुछ भीगे हुए
काकपक्ष वाले धनुर्धारी वे दोनों राजकुमार विश्वामित्रजी के पीछे चले जा
रहे थे, उस समय उठे हुए पुरवासियों की आंखें ऐसी दीखती थीं, मानों नेत्रों
का तोरण मार्ग में सजाया गया हो ॥ ५ ॥