सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

तृतीयः सर्गः

तृतीयः सर्गः
६५

शतैरिति । रघुस्तमश्वत्तह्रारमनिमेषवृत्तिभिर्निमेषव्यापारशून्यैरक्ष्णां शतैर्हरि-
भिर्हरिद्वर्णैः। 'हरिर्वाच्यवदाख्यातः हरित्कपिलवर्णयोः' इति विश्वः। एनमिन्द्रं गगन-
स्पृशा व्योमव्यापिना धीरेण गम्भीरेण स्वरेण ध्वनिनैव निवर्तयन्नित्रावोचत् ।
भाषार्थ—रघु ने पलक न गिराने वाली सैकड़ों आंखों से हरे रंग के घोड़ों
से उन्हें इन्द्र समझ कर उनको आकाशस्पर्शी गम्भीर आवाज से लौटाते हुए की
तरह पुकारा ॥ ४३ ॥

मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र ! सदा निगद्यसे ।
अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ॥ ४४ ॥
अन्वयः—हे देवेन्द्र ! मनीषिभिः त्वम् एव मखांशभाजां प्रथम इति सदा
निगद्यसे ( तथापि स त्वम् ) अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं
प्रवर्तसे ?

मखांशेति । हे देवेन्द्र ! मनीषिभिस्त्वमेव मखांशभाजां यज्ञभागभुजां प्रथम
सदा निगद्यसे कथ्यसे । तथाऽप्यजस्रदीक्षायां प्रयतस्य मद्गुरोः क्रियाविघाताय ।
ऋतुविघाताय । क्रियां विहन्तुमित्यर्थः । 'तुमर्थाच्च भाववचनात्' इति चतुर्थी ।
कथं प्रवर्तसे ? ।
भाषार्थ—हे देवराज इन्द्र ! विद्वानों द्वारा आप यज्ञ के भाग को ग्रहण
करने वालों में प्रधान माने गए हैं। तब निरन्तर यज्ञ में प्रवृत्त मेरे पिता के
कर्म को बिगाड़ने के लिए आप क्यों प्रवृत्त हो रहे हैं ॥ ४४ ॥

त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा ।
स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ॥ ४५ ॥
अन्वयः—त्रिलोकनाथेन दिव्यचक्षुषा त्वया मखद्विषः सदा ननु नियम्याः ।
स त्वं धर्मचारिणां कर्मसु स्वयम् अन्तरायः भवसि चेत् विधिः च्युतः ।

त्रिलोकेति । त्रयाणां लोकानां नाथस्त्रिलोकनाथः । 'तद्धितार्थोत्तरपदसमाहारे
इत्यनेनोत्तरपदसमासः । तेन त्रैलोक्यनियामकेन । दिव्यचक्षुषाऽतीन्द्रियार्थदर्शिना
त्वया मखद्विषः ऋतुविघातकाः सदा नियम्या ननु शिक्ष्याः खलु । स त्वं धर्म-
चारिणां कर्मसु ऋतुषु स्वयमन्तरायो विघ्नो भवसि चेत् । विधिरनुष्ठानं च्युतः
क्षतः । लोके सत्कर्मकथंवास्तमियादित्यर्थः ।
भाषार्थ—तीनों लोकोंके अधीश्वर, दिव्यनेत्र आपको यज्ञविध्वंस करनेवालों
को सदा दण्ड देना चाहिये । यदि आपही धर्मपरायण मनुष्यों के याज्ञादि कर्मों
में स्वयं विघ्न रूप से उपस्थित हो रहे हैं तो पुण्यकर्म नष्ट हुआ ही है ॥४५॥

६६ रघुवंशमहाकाव्ये

तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरङ्गं प्रतिमोक्तुमर्हसि ।
पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ ४६ ॥

अन्वयः—हे मघवन् ! तत् महाक्रतोः अग्र्यम् अङ्गम् अमुम् तुरङ्गम प्रतिमोक्तुम् । ( हि ) श्रुतेः पथः दर्शयितारः ईश्वरा मलीमसाम् पद्धति न आददते ।

तदङ्गमिति। हे मघवन् ! तत्तस्मात्कारणान्महाक्रतोरश्वमेधस्याग्र्यं श्रेष्ठमंगं साधनममुं तुरंगं प्रतिमोक्तुं प्रतिदातुमर्हसि । तथाहि । श्रुतेः पथः दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा महान्तो मलीमसां मलिनां पद्धतिं मार्गं नाददते न स्वीकुर्वते । असन्मार्गं नावलम्बन्त इत्यर्थः । 'मलीमसंत तु मलिनं कच्छरं मलदूषितम्' इत्यमरः ।

भाषार्थ—इस लिए हे देवराज ! अश्वमेध के मुख्य साधनभूत इस घोड़े को छोड़ दीजिए; क्योंकि वे मार्ग प्रदर्शक बड़े लोग कुमार्ग नहीं चलते ॥४६॥

इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् ।
निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥ ४७ ॥

अन्वयः—इति रघुणा समीरितं प्रगल्भं वचः निशम्य दिवौकसाम् अधिपतिः सविस्मयः ( सन् ) रथं निवर्तयामास, उत्तरं च प्रतिवक्तुं प्रचक्रमे ।

इतीति । इति रघुणा समीरितं प्रगल्भं वच निशम्याकर्ण्य । दिवौकसः स्वर्गौकसः । 'दिवं स्वर्गोऽन्तरिक्षे च' इति विश्वः । तेषामधिपतिर्देवेन्द्रो रघुप्रभावात्सविस्मयः सन् । रथं निवर्तयास । उत्तरं च प्रतिवक्तुं प्रचक्रमे ।

भाषार्थ—इस प्रकार रघु के कहे हुए धृष्टतायुक्त वचन को सुनकर इन्द्र ने चकित होकर रथ लौटा दिया और उत्तर देना आरम्भ किया ।

यदात्थ राजन्यकुमार ! तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः ।
जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ॥ ४८ ॥

अन्वयः—हे राजन्यकुमार ! यत् आत्थ तत् तथा । यशोधनैः तु परतः यशः रक्ष्यम्, भवद्गुरुः जगत्प्रकाशं अशेषं मम् तत् (यशः) इज्यया लङ्घयितुम् उद्यतः ।

यदिति । हे राजन्यकुमार ! क्षत्रियकुमार ! 'मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्' इत्यमरः । यद्वाक्यमात्थ ब्रवीषि । 'ब्रुवः पञ्चानामादित आहो ब्रुवः' इत्यनेनाहादेशः । तत्तथा सत्यम् । किन्तु यशोधनैरस्मादृशैः परतः शत्रुतो यशो रक्ष्यम् । ततः किमत आह—भवद्गुरुस्त्वत्पिता जगत्प्रकाशं लोकप्रसिद्धमशेषं सर्वं मम् तद्यश इज्यया यागेन लङ्घयितुं तिरस्कर्तुमुद्यत उद्युक्तः ।

भाषार्थ—हे राजकुमार ! आप जो कहते हो वह ठीक है, परन्तु हमारे ऐसे यशस्वियोंको शत्रुओं से कीर्ति की रक्षा करनी चाहिए । समस्त भुवनों में प्रसिद्ध मेरे उस यश को आपके पिता यज्ञ द्वारा उल्लङ्घन करने के लिए उद्यत हैं ॥४८॥