सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

तृतीयः सर्गः ८६

तृतीयः सर्गः ८६

यतनाश्च बभूवुः । तथाहि । क्रिया शिक्षा । 'क्रिया तु निष्कृतौ शिक्षाचिकित्सा-
यागकर्मसु' इति यादवः । वस्तुनि पात्रभूत उपहिता प्रयुक्ता प्रसीदति फलति ।
'क्रिया हि द्रव्यं विनयति नाद्रव्यम्' इति कौटिल्यः ।

भाषार्थं—विधिपूर्वकं यज्ञोपवीत हुए गुरुप्रिय उस राजकुमार रघु को विद्वान् गुरुजन शिक्षा देने लगे और वे लोग इस राजकुमार के प्रति सफल भी हुए । क्योंकि सुपात्र को दी हुई शिक्षा सफल होती है ॥ २९ ॥

धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः ।
ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः ॥ ३० ॥

अन्वयः—उदारधीः स समग्रैः धियः गुणैः चतुरर्णवोपमाः चतस्रः विद्याः हरि-
ताम् ईश्वरः पवनातिपातिभिः हरिद्भिः ( चतस्रः ) दिशः इव क्रमात् ततार ।

धिय इति । अत्र कामन्दकः—शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहा-
पोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ इति । आन्वीक्षिकी त्रयी वार्त्ता दण्ड-
नीतिश्च शाश्वती । एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः ॥ इति च ।
उदारधीरुरुत्कृष्टबुद्धिः । स रघुः समग्रैर्धियो गुणैः चत्वारोऽर्णवा उपमा यासां
ताश्चतुरर्णवोपमाः । 'तद्धितार्थोत्तरपदसमाहारे च' इत्युत्तरपदसमासः । चतस्रो
विद्याः । हरितां दिशामीश्वरः सूर्यः पवनातिपातिभिर्महद्भिर्निजाश्वैः । 'हरि-
त्ककुभि वर्णे च तृणवाजिशेषयोः' इति कोशः । चतस्रो दिश इव क्रमात्ततार ।
चतुरर्णवोपमत्वं दिशामपि द्रष्टव्यम् ॥

भाषार्थं—विमलबुद्धि उस बालक रघु ने बुद्धि के समग्र गुणों से चारों समुद्रों के समान चारों विद्याओं को क्रम से पार कर लिया जिस प्रकार दिशाओं के पति सूर्य वायु से अधिक वेगशाली अपने घोड़ों से चार दिशाओं को पार करते हैं ॥ ३० ॥

त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव मन्त्रवत् ।
न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः ॥ ३१ ॥

अन्वयः—स मेध्यां रौरवीं त्वचं परिधाय मन्त्रवत् अस्त्रम् पितुः एव अशि-
क्षत । तद्गुरुः एकपार्थिवः न अभूत्, क्षितौ सः एकधनुर्धरः अपि (अभूत्) ।

त्वचमिति । स रघुः । "कार्ष्णरौरववास्तानि चर्माणि ब्रह्मचारिणः । वसी-
रन्नानुपूर्व्येण शाणक्षौमाविकानि च" इति मनुस्मरणान्मेध्यां शुद्धां रौरवीं रुरु-
सम्बन्धिनीम् । 'रुरुर्महाकृष्णसारः' इति यादवः । त्वचं चर्म परिधाय वसित्वा
मन्त्रवत्समन्त्रकमस्त्रमाग्नेयादिकं पितुरेवोपाध्यायादशिक्षताभ्यस्तवान् । 'आख्या-
तोपयोगे' इत्यपादानसंज्ञा । पितुरेवेत्यवधारणमुपपादयति-नेति । तद्गुरुरेकोऽ-

६० रघुवंशमहाकाव्ये

द्वितीयः पार्थिवः केवलं पृथिवीश्वर एव नाभूत्, किन्तु क्षितौ स दिलीप एको धनुर्धरोऽप्यभूत् ।

भावार्थ—उस रघु ने पवित्र कृष्णमृग के चर्म को धारण करके पिता ही से मन्त्रों के साथ अस्त्रों को सीखा। उनके पिता पृथ्वी में अद्वितीय चक्रवर्ती नहीं धनुर्धारी भी थे ॥ ३१ ॥

महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः ॥ ३२ ॥

अन्वयः—रघुः क्रमात् महोक्षताम् स्पृशन् वत्सतरः इव, द्विपेन्द्रभावं श्रयन् कलभः इव यौवनभिन्नशैशवः ( सन् ) गाम्भीर्यमनोहरं वपुः पुपोष ।

महोक्षतामिति । रघुः क्रमाद्यौवनेन भिन्नशैशवो निरस्तशिशुभावः सन् । महानुक्षा महोक्षो महर्षभः 'अचतुरविचतुर' इत्यादिसूत्रेण निपातनादकारान्तत्वम् । तस्य भावस्तत्ता तां स्पृशन्गच्छन्वत्सतरी दम्य इव । 'दम्यवत्सतरौ समौ' इत्यमरः । द्विपेन्द्रभावं । महागजत्वं श्रयन्व्रजन्कलभः करिपोत इव । गाम्भीर्येणाचापलेन मनोहरं वपुः पुपोष ।

भावार्थ—वृषभत्व को प्राप्त होते हुए बछड़े के समान, गजत्व को पहुँचते हुए हाथी के बच्चे की समान रघु क्रम से यौवन द्वारा बालकपन दूर होने पर अपने गम्भीर और सुन्दर शरीर को पुष्ट करने लगे ॥ ३२ ॥

अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्त्तयद् गुरुः ।
नरेन्द्रकन्यास्तमवाप्य सत्पति तमोनुदं दक्षसुता इवाबभुः ॥ ३३ ॥

अन्वयः—अथ गुरुः अस्य गोदानविधेः अनन्तरं विवाहदीक्षां निरवर्त्तयत् । नरेन्द्रकन्या तम् दक्षसुता, तमोनुदम् इव सत्पतिम् अवाप्य आबभुः ।

अथेति । 'गोर्नाऽऽदित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । पुंस्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु ।' इति केशवः । गावो लोमानि केशा दीयन्ते खण्ड्यन्तेऽस्मिन्निति व्युत्पत्त्या गोदानं नाम ब्राह्मणादीनां षोडशादिषु वर्षेषु कर्त्तव्य केशान्ताख्यं कर्मोच्यते । तदुक्तं मनुना— "केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोद्वाविंशे वैश्यस्य द्व्यधिके ततः" । इति । अथ गुरुः पिता 'गुरुः गीष्पतिपित्रादौ' इत्यमरः । अस्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्त्तयत् । कृतवानित्यर्थः । अथ नरेन्द्रकन्यास्तं रघुम् । दक्षस्य सुता रोहिण्यादयस्तमोनुदं चन्द्रमिव । 'तमोनुदोऽग्निचन्द्रार्का इति विश्वः । सत्पतिमवाप्याबभुः रघुर्पि तमोनुत् । अत्र मनुः—"वेदानधीत्य वेदो वा वेदं वाऽपि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाविशेत्' इति ।

भावार्थ—तब दिलीप ने कुमार के केशान्त संस्कार के बाद विवाह कर दिया ।