सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

तृतीयः सर्गः ८५

तृतीयः सर्गः ८५

हर्षितस्तोषितः सन् यं बद्धं विसर्जयेद्विमोचयेत् । किन्तु स राजा तदा पितॄणा-
मृणाभिधानाद्वन्धनात्केवलमेकं यथा तथा स्वयमेव । एक एवेत्यर्थः । 'केवलः
कृत्स्न एकश्च केवलश्चावधीरितः' इति शाश्वतः । मुमुचे कर्मकर्त्तरि लिट् ।
स्वयमेव मुक्त इत्यर्थः । अस्मिन्नर्थे—'एष वा अनुणो यः पुत्री' इति श्रुतिः
प्रमाणम् ।

भाषार्थ—उस रक्षक राजा दिलीप का कोई कैदी न था, जिसे पुत्रजन्म के
उपलक्ष्य में प्रसन्न होकर छोड़ते, किन्तु पितृ के ऋणरूपी बन्धन से वे अकेले
स्वयं मुक्त हुए ॥ २० ॥

श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः ।
अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम् ॥ २१ ॥

अन्वयः—अर्थवित् पार्थिवः अयम् अर्भकः श्रुतस्य तथा च युधि परेषां अन्तँ
यायात् इति धातोः गमनार्थम् अवेक्ष्य आत्मसम्भवं नाम्ना रघुं चकार ।

श्रुतस्येति । अर्थविच्छन्दार्थज्ञः पार्थिवः पृथ्वीश्वरो दिलीपः । अयमर्भको
बालकः श्रुतस्य शास्त्रस्यान्तं पारं यायात् । तथा युधि परेषां शत्रूणामन्तं पारं च
ययात् । यातुं शक्नुयादित्यर्थः । 'शाकि लिङ् च' इति शक्यार्थे लिङ् । इति हेतो-
र्धातोः । 'अधिवधिलधिगत्यर्थाः' इति लधिधातोर्गमनाख्यमर्थमर्थवित्त्वादवेक्ष्या-
लोच्य । आत्मसम्भवं पुत्रं नाम्ना रघुं चकार । 'लघिङ्बहोर्नलोपश्च' इत्युप्रत्यये
'वलमूललघ्वल मङ्गुलीनां वा लो रत्वमापद्यते' इति वैकल्पिके रेफादेशे रघुरिति
रूपं सिद्धम् । अत्र शङ्खः—'आशौचे व्यतिक्रान्ते नामकर्म विधीयते' इति ।

भाषार्थ—अर्थ विशेषज्ञ राजा दिलीप ने 'यह बालक शास्त्र के अन्त तक
जायगा और युद्ध में शत्रुओं को संहार करेगा' इस प्रकार लधि धातु को गमना-
र्थक जानकर अपने पुत्र का नाम रघु रखा ॥ २१ ॥

पितुः प्रयत्नात्स समग्रसम्पदः शुभैः शरीरावयवैर्दिने दिने ।
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥ २२ ॥

अन्वयः—स समग्रसम्पदः पितुः प्रयत्नात् शुभैः शरीरावयवैः हरिदश्वदीधिते
अनुप्रवेशात् बालचन्द्रमा इव दिने दिने वृद्धिं पुपोष ।

पितुरिति । स रघुः समग्रसम्पदः पूर्णलक्ष्मीकस्य पितुर्दिलीपस्य प्रयत्नाच्छु-
भैर्मनोहरैः शरीरावयवैः । हरिदश्वदीधितेः सूर्यस्य रश्मेः । भास्वद्विवस्वत्सप्ता-
श्वहरिदश्वोष्णरश्मयः' इत्यमरः । अनुप्रवेशाद्वा चन्द्रमा इव दिने दिने प्रति-
दिनम् । 'नित्य वीप्सयोः' इति द्विर्वचनम् । वृद्धिं पुपोष । अत्र वराहसंहिता-

८६ रघुवंशमहाकाव्ये

बचनम्—“सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः” इति ।

भाषार्थ—वह बालक सम्पूर्ण सम्पत्ति वाले पिता राजा दिलीप के प्रयत्न से सुन्दर अङ्गों द्वारा सूर्य-किरणों के प्रवेश से बाल चन्द्रमा के समान प्रतिदिन बढ़ने लगा ।

उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ ।
तथा नृपः सा च सुतेन मागधी ननन्दतुरस्तसदृशेन तत्समौ ॥ २३ ॥

अन्वयः—उमावृषाङ्कौ शरजन्मना यथा शचीपुरन्दरौ जयन्तेन यथा तथा तत्समौ सा मागधी नृपः च तत्सदृशेन सुतेन ननन्दतुः ।

उमेति । उमावृषाङ्कौ पार्वतीवृषभध्वजौ शरजन्मना कात्तिकेयेन । 'कात्तिकेयो महासेनः शरजन्मा षडाननः' इत्यमरः । यथा ननन्दतुः । शचीपुरन्दरौ जयन्तेन जयन्ताख्येन सुतेन । 'जयन्तः पाकशासनिः' इत्यमरः । यथा ननन्दतुः । तथा तत्समौ ताभ्यामुमावृषाङ्काभ्यां शचीपुरन्दराभ्यां च समौ समानौ मागधी नृपश्च तत्सदृशेन ताभ्यां कुमारजयन्ताभ्यां सदृशेन सुतेन ननन्दतुः । मागधी प्राग्व्याख्याता ।

भाषार्थ—जिस प्रकार पार्वती और शिवजी कात्तिकेय से, इन्द्राणी और इन्द्र जयन्त से प्रसन्न हुए, उसी प्रकार उनके समान रानी और राजा रघुनामक पुत्र से प्रसन्न हुए ॥ २३ ॥

रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् ।
विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत ॥ २४ ॥

अन्वयः—रथाङ्गनाम्नोः इव तयोः भावबन्धनं परस्पराश्रयं यत् प्रेम बभूव, तत् एकसुतेन विभक्तम् अपि परस्परस्य उपरि पर्यचीयत ।

रथाङ्गेति । रथाङ्गनाम्नो च रथाङ्गनामा च रथाङ्गनामानौ चक्रवाकौ 'पुमान्स्त्रिया' इत्येकशेषः । तयोरिव तयोर्दम्पत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा । 'एके मुख्यान्यकेवलाः' इत्यमरः । सुतेन विभक्तमपि परस्परस्योपरि पर्यचीयत बवृधे । कर्मकर्त्तरि लङ् । अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः । यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते । अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम सम्प्रति द्वितीयविषयलाभेऽपि नाहीयत । प्रत्युतोपचितमेवाभूदिति भावः ।

भाषार्थ—चकवा और चकई के समान सुदक्षिणा और दिलीप का हृदयाकर्षक पारस्परिक प्रेम एक पुत्रमे बँट जाने पर एक दूसरेके ऊपर बढ़ता गया ।