रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
चतुर्थः सर्गः १९३
चतुर्थः सर्गः १९३
सरलेति। सरलेषु देवदारुविशेषेष्वासक्तानि यानि मातङ्गानां गजानाम्
ग्रीवासु भवानि ग्रैवेयाणि कण्ठशृङ्खलानि। ‘ग्रीवाभ्योऽण्ढ’ इति चकाराद्ढन्-
प्रत्ययः। तेषु स्फुरितत्विषः प्रतिफलितभास ओषधयो ज्वलन्तो ज्योतिर्लता-
विशेषा नक्तं रात्रौ नेतुर्नायकस्य रघोरस्नेहदीपिकास्तैलनिरपेक्षाः प्रदीपा आसन्।
भाषार्थ—देवदारु में बँधे हुए हाथियों के गले के हारों में चमकती हुई
ज्योतिर्लता आदि बूटियाँ सेना के लिए बिना तेल के दीपक का काम करती थीं।
तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः।
गजवष्मं किरातेभ्यः शशंसुर्देवदारवः॥ ७६ ॥
अन्वयः—तस्य उत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः देवदारवः किरातेभ्यः
गजवष्मं शशंसुः।
तस्येति। तस्य रघोरुत्सृष्टेषूज्झितेषु निवासेषु सेनानिवेशेषु कण्ठरज्जुभिर्गजग्रीवैः
क्षता निष्पिष्टास्त्वचो येषां ते देवदारवः किरातेभ्यो वनचरेभ्यो गजानां वष्मं
प्रमाणम्। ‘वष्मं देहप्रमाणयोः’ इत्यमरः। शशंसुः कथितवन्तः। देवदारुस्कन्ध-
त्वक्क्षतैर्गजानामोन्नत्यमनुमीयत इत्यर्थः।
भाषार्थ—रघु के छोड़े हुए फौजी पड़ावों पर गले की सिक्कड़ों से छिली हुई
छालवाले देवदारु से भीलों ने हाथियों की ऊँचाई बतलायी॥ ७६ ॥
तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत्।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम्॥ ७७ ॥
अन्वयः—तत्र रघोः पर्वतीयैः गणैः नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलं
घोरं जन्यम् अभूत्।
तत्रेति। तत्र हिमाद्रौ रघोः पर्वते भवैः पर्वतीयैः। ‘पर्वताञ्च’ इति
छप्रत्ययः। गणैरुत्सवसंकेताख्यैः सप्तभिः सह। ‘गणानुत्सवसंकेतानजयत्सप्त
पाण्डवः’ इति महाभारते। नाराचानां बाणविशेषाणां क्षेपणीयानां भिन्दपालानाम्-
इमनां च निष्पेषेण सङ्घर्षेणोत्पतिता अनला यस्मिंस्तत्तथोक्तम्। ‘क्षेपणीयो
भिन्दिपालः खड्गो दीर्घो महाफलः’ इति यादवः। घोरं भीमं जन्यं युद्धमभूत्।
‘युद्धमायोधनं जन्यमि’त्यमरः।
भाषार्थ—उस हिमालय पर रघु का पर्वतीय गणों से नाराच, बाण, भिन्दि-
पाल और पत्थर के टुकड़ों की रगड़ से उठी हुई अग्नि वाला भयङ्कर युद्ध हुआ।
शरैरुत्सवसंकेतान् स कृत्वा विरतोत्सवान्।
जयोदाहरणं बाह्वोर्गापयामास किन्नरान्॥ ७८ ॥
| १३४ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—सः शरैः उत्सवसङ्केतान् विरतोत्सवान् कृत्वा किन्नरान् बाह्वोः जयोदाहरणं गापयामास ।
शरैरिति । स रघुः शरैर्बाणैरुत्सवसङ्केतान्नाम गणान्विरतोत्सवान्कृत्वा । जित्वेत्यर्थः । किन्नरान्बाह्वोः स्वभुजयोर्जयोदाहरणं जयख्यापकं प्रबन्धविशेषं गापयामास । 'गतिबुद्धिप्रत्यवसानार्थ०' इत्यनेन किन्नराणां कर्मत्वम् ।
भाषार्थ—उस रघु ने बाणों से उत्सव संकेत नामक पहाड़ी कबीलों को पराजित कर किन्नरों द्वारा अपनी भुजा की जयकथा का गान कराया ॥ ७८ ॥
परस्परेण विज्ञातस्तेषूपायनपाणिषु ।
राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥ ७९ ॥
अन्वयः—तेषु उपायनपाणिषु ( सत्सु ) परस्परेण राज्ञा हिमवतः सारः हिमाद्रिणा राज्ञः सारः विज्ञातः ।
परस्परेणेति । तेषु गणेषूपायनयुक्ताः पाणयो येषां तेषु सत्सु परस्परेणान्योऽन्यं राज्ञा हिमवतः सारो धनरूपो विज्ञातः, हिमाद्रिणाऽपि राज्ञः सारो बलरूपो विज्ञातः । एतेन तत्रत्यवस्तूनामनर्घ्यत्वं गणानामभूतपूर्वंश्च पराजय इति ध्वन्यते ।
भाषार्थ—भेंट देने के लिए हाथ में लेकर पर्वतीयों के सुवर्णादि आने पर रघु ने हिमालय के धन और हिमालय ने राजा रघु के बल को जाना ॥ ७९ ॥
तत्राक्षोभ्यं यशोराशि निवेश्यावरुरोह सः ।
पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥ ८० ॥
अन्वयः—तत्र अक्षोभ्यं यशोराशि निवेश्य सः पौलस्त्यतुलितस्य अद्वेः ह्रियम् आदधानः इव अवरुरोह ।
तत्रेति । स रघुस्तत्र हिमाद्रावक्षोभ्यमघृष्यं यशोराशि निवेश्य निधाय । पौलस्त्येन रावणेन तुलितस्य चालितस्याद्रेः कैलासस्य ह्रियमादधानो जनयन्निव । अवरुरोहावततार । कैलासमगत्वैव प्रतिनिवृत्तः । नहि शूराः परेण पराजितमभियुज्यन्ते ।
भाषार्थ—उस हिमालय पर अमर कीर्ति स्थापित कर रघु रावण से उठाए गए कैलास पर्वत की ओर न जाकर मानो उसे लज्जित करते हुए लौट गए ।
चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः ।
तद्गजालानातां प्राप्तैः सह कालागुरुद्रुमैः ॥ ८१ ॥
अन्वयः—तस्मिन् तीर्णलोहित्ये ( सति ) प्राग्ज्योतिषेश्वरः तद्गजालानातां प्राप्तैः कालागुरुद्रुमैः सह चकम्पे ।
चतुर्थः सर्गः १३५
चकम्प इति । तस्मिन् रघौ । तीर्णा लोहित्या नाम नदी येन तस्मिंस्तीर्णलोहित्ये सति । प्राग्ज्योतिषाणां जनपदानामीश्वरः, तस्य रघोर्गजानामालनतां प्राप्तैः कालागुरुद्रुमैः कृष्णागुरुवृक्षैः सह चकम्पे कम्पितवान् ।
**भावार्थ—**उस रघु के लौहित्यनद के पार उतर जाने पर प्राग्ज्योतिष (आसाम) के राजा रघु के हाथियों की सीकरों के बांधने के लिए स्तम्भभूत काले अगर के वृक्षों के साथ काँप गये ॥ ८१ ॥
न प्रसेहे स रुद्धार्कमधारावर्षदुर्दिनम् ।
रथवर्त्मरजोऽप्यस्य कुत एव पताकिनीम् ॥ ८२ ॥
**अन्वयः—**स रुद्धार्कम् अधारावर्षदुर्दिनम् अस्य रथवर्त्मरजः अपि न प्रसेहे, कुतः एव पताकिनीम् ।
नेति । स प्राग्ज्योतिषेश्वरो रुद्धार्कम़ावृतसूर्यम् । अधारावर्षं च तद् दुर्दिनं धारावृष्टिं बिना दुर्दिनीभूतम् । अस्य रघो रथवर्त्मरजोऽपि न प्रसेहे । पताकिनीं सेनां तु कुत एव प्रसेहे । न कुतोऽपीत्यर्थः ।
**भावार्थ—**वे आसाम के राजा सूर्य को ढँक देने वाले वर्षा के बिना मेघावृत दिन के समान रघु के रथ की धूलि को भी न सह सके फिर सेना को कैसे सह सकते ॥ ८२ ॥
तमेशः कामरूपाणामत्याखण्डलविक्रमम् ।
भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ॥ ८३ ॥
**अन्वयः—**कामरूपाणाम् ईशः अत्याखण्डलविक्रमं तं भिन्नकटैः नागैः, यैः अन्यान् उपरुरोध, भेजे ।
तमिति । कामरूपाणां नाम देशानामीशोऽत्याखण्डलविक्रममतीन्द्रपराक्रमं तं रघुम् । भिन्नाः स्रवन्मदाः कटा गण्डा येषां तैर्नागैर्गजैः साधनैर्भेजे नागान्दत्वा शरणङ्गत इत्यर्थः । कीदृशैर्नागैः । यैरन्यान्रघुव्यतिरिक्तनृपानुपरुरोध । शूराणामपि शूरो रघुरिति भावः ।
**भावार्थ—**कामरूप देश के राजा ने इन्द्र से भी अधिक पराक्रमी उस रघु की मदस्रावी हाथियों की भेंट से सेवा की, जिनसे अन्य आक्रमणकारियोंको रोका था ।
कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् ।
रत्नपुष्पोपहारेण छायामानर्च पादयोः ॥ ८४ ॥
**अन्वयः—**कामरूपेश्वरः हेमपीठाधिदेवतां तस्य पादयोश्छायां रत्नपुष्पोपहारेणानर्च ।
| १३६ | रघुवंशमहाकाव्ये |
|---|
कामेति । कामरूपेश्वरो हेमपीठस्याधिदेवतां तस्य रघोः पादयोश्छायां कन-
कमयपादपीठव्यापिनीं कान्तिं रत्नान्येव पुष्पाणि तेषामुपहारेण समर्पणेनानर्चर्च-
यामास ।
भाषार्थ—कामरूप के राजा ने सुवर्णनिर्मित राजसिंहासन के देवता उस रघु के पैरों की उपहारभूत रत्नमय पुष्पों को अर्पित करके पूजा की ॥ ८४ ॥
इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् ।
रजो विशामयन्न्राज्ञां छत्रशून्येषु मौलिषु ॥ ८५ ॥
अन्वयः—इति दिशः जित्वा जिष्णुः ( सः ) राज्ञां छत्रशून्येषु मौलिषु रथो-
द्धतं रजः विश्रामयन् न्यवर्तत ।
इतोति । जिष्णुर्जयशीलः ‘ग्लाजिस्थश्च ग्सुः’ इतिग्स्नुप्रत्ययः । स रघुरिती-
त्थं दिशो जित्वा रथैरुद्धतं रजश्छत्रशून्येषु । रघोरेकच्छत्रत्वादिति भावः । राज्ञां
मौलिषु किरीटेषु । ‘मौलिः किरीटे धम्मिल्ले चूडाकङ्केलिमूर्धजे’ इति हैमः ।
विश्रामयन् । सङ्क्रामयन्नित्यर्थः । न्यवर्तत निवृत्तः ।
भाषार्थ—इस प्रकार चारों दिशाओं को जीत, विजयी राजा रघु राजाओं के छत्रहीन मुकुटों पर रथ की धूलि को भरते हुए अपनी राजधानी लौटे । ८५।
स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणम् ।
आदानं हि विसर्गाय सतां वारिमुचामिव ॥ ८६ ॥
अन्वयः—सः सर्वस्वदक्षिणं विश्वजितं यज्ञम् आजह्रे हि, सतां वारिमुचाम्
इव आदानं विसर्गाय ।
स इति । रघुः सर्वस्वं दक्षिणा यस्य तं सर्वस्वदक्षिणम् । ‘विश्वजित्सर्वस्व-
दक्षिणः’ इति श्रुतेः । विश्वजितं नाम यज्ञमाजह्रे कृतवानित्यर्थः । युक्तं चैतदि-
त्याह—सतां साधूनाम् वारिमुचां मेघानामिव । आदानमर्जनं विसर्गाय त्यागाय हि,
पात्रविनियोगायेत्यर्थः ।
भाषार्थ—रघु ने दक्षिणा के रूप में सर्वस्व दे दिया जाने वाला विश्वजित् नामक यज्ञ किया, क्योंकि सज्जनों का मेघों के समान लेना दूसरों को देने के लिए होता है ॥ ८६ ॥
सत्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् ।
काकुत्स्थश्चिरविरहोत्सुकावरोधान् राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥ ८७ ॥
अन्वयः—सत्रान्ते सचिवसखः काकुत्स्थः गुर्वीभिः पुरस्क्रियाभिः शमितपरा-
जयव्यलीकान् चिरविरहोत्सुकावरोधान् राजन्यान् स्वपुरनिवृत्तये अनुमेने ।
चतुर्थः सर्गः १३७
सत्रान्त इति। काकुत्स्थो रघुः सत्रान्ते यज्ञान्ते। 'सत्रमाच्छादने यज्ञे सदा दाने धनेऽपि च' इत्यमरः। सचिवानांममात्यानां सखेति सचिवसखः सन्। 'सचिवो भृतकेऽमात्ये' इति हैमः। तेषामत्यन्तानुसरणद्योतनार्थं राज्ञः सखित्वव्यपदेशः। 'राजाहः सखिभ्यष्टच्'। गुर्वीभिर्महतीभिः। 'गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके' इति हैमः। पुरस्क्रियाभिः पूजाभिः शमितं पराजयेन व्यलीकं दुःखं वैलक्ष्यं वा येषां तान्। 'दुःखे वैलक्ष्ये व्यलीकम्' इति यादवः। चिरविरहेणोत्सुकिता उत्कण्ठिता अवरोधा अन्तःपुराङ्गना येषां तान्। राज्ञोऽपत्यानि राजन्याः क्षत्रियास्तान्। 'राजश्वशुराद्यत्' इत्यपत्यार्थे यत्प्रत्ययः। मूर्द्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्' इत्यमरः। स्वपुरं प्रति निवृत्तये प्रतिगमनायानुमेनेऽनुज्ञातवान्। प्रह-र्षिणीवृत्तमेतत्। तदुक्तम्—'म्नौ जौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इति।
**भावार्थ—**यज्ञ के बाद मन्त्रियों की सम्मतिसे काकुत्स्थ रघु ने अत्यन्त सम्मान से, पराजय को भूल जाने वाले और अधिक दिन के वियोग से अपनी रानियों में उत्सुक राजाओं को अपनी-अपनी राजधानी को लौट जाने की आज्ञा दी ॥८७॥
ते रेखाध्वजकुलिशातपत्रचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यम्।
प्रस्थानप्रणतिभिरङ्गुलीषु चक्रमौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥ ८८ ॥
**अन्वयः—**ते रेखाध्वजकुलिशातपत्रचिह्नं प्रसादलभ्यं सम्राजः चरणयुगं प्रस्थानप्रणतिभिः अङ्गुलीषु मौलिस्रक्च्युतमकरन्दरेणुगौरं चक्रुः।
त इति। ते राजानः रेखा इव ध्वजाश्च कुलिशानि चातपत्राणि च, ध्वजाद्या काररेखा इत्यर्थः। तानि चिह्नानि यस्य तत्तथोक्तम् प्रसादेनैव लभ्यम् प्रसाद-लभ्यम्। सम्राजः सार्वभौमस्य रघोश्चरणयुगं प्रस्थाने प्रयाणसमये याः प्रणतयो नमस्करास्ताभिः करणैः। अङ्गुलीषु मौलिषु केशबन्धनेषु याः स्रजो माल्यानि ताभ्यश्च्युतैर्मकरन्दैः पुष्परसैः। 'मकरन्दः पुष्परसः' इत्यमरः रेणुभिः परागैश्च। 'परागः सुमनोरजः' इत्यमरः। गौरवर्णं चक्रुः।
**भावार्थ—**उन राजाओं ने रेखा, ध्वज, वज्र और छत्र चिह्न वाले, कृपा से प्राप्य रघु के चक्रवर्ती लक्षणों वाले पैरों को प्रस्थानकाल के प्रणाम से अङ्गुलियों में किरीटों की माला के परागों से श्वेत कर दिया ॥ ८८ ॥
त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्रिलिखित चन्द्रकला टीका में चतुर्थ सर्ग समाप्त।
⁂ ⁂ ⁂
पञ्चमः सर्गः
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।
उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥ १ ॥
इन्दीवरदलश्याममिन्दिराऽऽनन्दकन्दलम् ।
वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥
**अन्वयः—**विश्वजिति अध्वरे निःशेषविश्राणितकोशजातम् तं क्षितीशम् उपात्तविद्यः गुरुदक्षिणार्थी वरतन्तुशिष्यः कौत्सः प्रपेदे ।
तमिति । विश्वजिति विश्वजिन्नाम्न्यध्वरे यज्ञे । 'यज्ञ.सवोऽध्वरो यागः' इत्यमरः । निःशेषं विश्राणितं दत्तम् । 'शण दाने' चुरादिः । कोषानामर्थराशीनां जातं समूहो येन तं तथोक्तम् । 'कोषोऽस्त्री कुङ्मले खड्गपिधानेऽर्थौघदिव्ययोः' इत्यमरः । 'जातं जनिसमूहयोः' इति शाश्वतः । एतेन कौत्सस्यानवसरप्राप्ति सूचयति । तं क्षितीशं रघुमुपात्तविद्यो लब्धविद्यो वरतन्तोः शिष्यः कौत्सः । 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' इत्यण् । इनोऽपवादः । गुरुदक्षिणार्थी । 'पुष्करादिभ्यो देशे' इत्यत्रार्थाच्चासन्निहिते तदन्ताच्चेतीनिः । अप्रत्याख्येय इति भावः । प्रपेदे प्राप । अस्मिन्सर्गे वृत्तमुपजातिः ।
**भाषार्थ—**विश्वजित् यज्ञ की दक्षिणा में सर्वस्व समर्पण कर देने के बाद महर्षि वरतन्तु के शिष्य कौत्स ऋषि विद्या पढ़ कर गुरुदक्षिणा के लिए १४ करोड़ धन लेने की इच्छा से महाराज रघु के पास आए ॥ १ ॥
स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशीलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः ॥ २ ॥
**अन्वयः—**अनर्घशीलः यशसा प्रकाशः आतिथेयः सः वीतहिरण्मयत्वात् मृण्मये पात्रे अर्घ्यम् निधाय श्रुतप्रकाशम् अतिथिम् प्रत्युज्जगाम ।
स इति । अनर्घश लोऽमूल्यस्वभावः । असाधारणस्वभाव इत्यर्थः । 'मूल्ये पूजा विधावर्घः' इति । 'शीलं स्वभावे सद्वृत्ते' इति चामरशाश्वतौ । यशसा कीर्त्त्या । प्रकाशत इति प्रकाशः । पचाद्यच् । अतिथिषु साधुरातिथेयः । 'पथ्यतिथिवसति-स्वपतेर्ढञ्' इति ढञ् । स रघुः । हिरण्यस्य विकारो हिरण्मयम् । दाण्डिनायन०' इत्यादिना सूत्रेण निपातः । वीतहिरण्मयत्वादपगतसुवर्णपात्रत्वात् । यज्ञस्य सर्वस्व-दक्षिणाकतवादिति भावः । मृण्मये मृद्विकारे पात्रे । अर्घार्थमिदमर्घ्यम् । 'पादार्घाभ्यां