रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
एकोनविंशः सर्गः ६२१
एकोनविंशः सर्गः ६२१
दम् । ‘इच्छा कांक्षा स्पृहेहा तृट्’ इत्यमरः । बकुलद्रुमस्याङ्गनामद्यायित्वात्तुल्या-
भिलाषत्वम् । सोऽपि ताभिरङ्गनाभिरुपहृतं दत्तं मुखासवमपिबत् ।
भाषार्थ—उस एकान्त स्थान में वे स्त्रियाँ अग्निवर्ण का जूठा मदकारी आसव बड़े प्रेम से पीती थीं, जिस प्रकार मौलसिरी का वृक्ष स्त्रियों के मुख को पाने को तरसता है उसी प्रकार उन स्त्रियों के मुख से आसव पीने की इच्छा करनेवाला अग्निवर्ण भो उनके मुख का आसव पिया करता था ॥ १२ ॥
अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे ।
वल्लकी च हृदयङ्गमस्वना वल्गुवागपि च वामलोचना ॥ १३ ॥
अन्वयः—अङ्कपरिवर्तनोचिते उभे तस्य अङ्कं अशून्यतां निन्यतुः हृदयङ्गमस्वना च वल्लकी वल्गुवाग् अपि वामलोचना च ।
अङ्कमिति । अङ्कपरिवर्तनोचिते तत्सङ्गविहारार्हे उभे तस्याग्निवर्णस्याङ्कमपूर्णतां निन्यतुः । के उभे ? हृदयङ्गमस्वना मनोहरध्वनिर्वल्लकी वीणा च वल्गुवाङ्मधुरभाषिणी वामलोचना कामिन्यपि च हृदयं गच्छतीति हृदयङ्गमः । खच्प्रकरणे गमेः सुप्युपसंख्यानात्खच्प्रत्ययः । अङ्काधिरोपितयोर्वीणावामाक्ष्योर्वाद्यगीताभ्यामरंस्तेत्यर्थः ।
भाषार्थ—गोद में बैठाने योग्य दो ही वस्तुयें हैं—एक तो हृदयङ्गम मधुरध्वनि वाली वीणा दूसरी मधुर भाषिणी सुलोचना स्त्री, इन दोनों ने अग्निवर्ण के गोद को सदा भरपूर रखा । अर्थात् उनके दोनों बगल में कामिनी स्त्री और वीणा रहती थी ॥ १३ ॥
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः ।
नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जयत् ॥ १४ ॥
अन्वयः—कृती स्वयं प्रहृतपुष्करः लोलमाल्यवलयः मनः हरन् सः अभिनयातिलङ्घिनीः नर्तकीः गुरुषु पार्श्ववर्तिषु अलज्जयत् ।
स इति । कृती कुशलः स्वयं प्रहृतपुष्करो वादितवाद्यमुखो लोलानि माल्यानि वलयानि अभिनयेषु स्खलन्तीत्यर्थः । नर्तकीर्विलासिनीः । “शिल्पिनि ष्वुन्” इति ष्वुन्प्रत्ययः । “षिद्गौरादिभ्यश्च” इति ङीप् । ‘नर्तकीलासिके समे’ इत्यमरः । गुरुषु नाट्याचार्येषु समीपस्थेषु सत्स्वेवालज्जयल्लज्जामगमयत् ।
भाषार्थ—जब नर्तकियों के नाचते समय वह अग्निवर्ण स्वयं मृदंग, तबला को बजाने लगता था तब उसके गले की माला हिल उठती थी । उस समय ऐसा सुन्दर लगता था कि नर्तकियाँ सुध-बुध खोकर नाचना भी भूल जाती थीं ।
६२२ रघुवंशमहाकाव्ये
इसका फल यह होता था कि उन्हें नाचना सिखाने वाले उनके जो गुरु वहाँ बैठे
रहते थे उनके आगे वे अपनी इस बात पर लजा जाती थीं ॥ १४ ॥
चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् ।
प्रेमदत्तवदनानिलः पिबन्नत्यजीवदमरालकेश्वरौ ॥ १५ ॥
अन्वयः—च चारुनृत्यविगमे परिश्रमात् स्वेदभिन्नतिलकं तन्मुखं प्रेमदत्त-
वदनानिलः पिबन् अमरालकेश्वरौ अत्यजीवयत् ।
'चार्विति । किच चारु सुन्दरं नृत्यविगमे लास्यावसाने परिश्रमान्नर्तनप्रयासात्
स्वेदेन भिन्नतिलकं विशीर्णतिलकं तन्मुखं नर्तकीमुखं प्रेम्णा दत्तवदनानिलः प्रव-
र्तितमुखमारुतः पिबन् अमराणामलकायाश्चेश्वराविन्द्रकुबेरावत्यजीवदतिक्रम्या-
जीवत् । ततोऽप्युत्कृष्टजीवित आसीदित्यर्थः । इन्द्रादेरपि दुर्लभमीदृशं सौभाग्यमिति
भावः ।
भाषार्थ—जब नृत्य समाप्त हो जाता था और नाचने के परिश्रम से
नर्तकियों के मुख पर पसीने की बूंदे छा जाती थीं तब राजा अग्निवर्ण प्रेमपूर्वक
मुख से फूंक लगाकर उनके मुख को चूमने लगता था, उस समय वह अपने को
इन्द्र एवं कुबेर से भी बढ़कर सुखी तथा भाग्यवान् समझता था ॥ १५ ॥
तस्य सावरणदृष्टसन्धयः काम्यवस्तुषु नवेषु सङ्गिनः ।
वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः ॥ १६ ॥
अन्वयः—उपसृत्य नवेषु सङ्गिनः तस्य सावरणदृष्टसन्धयः संगमाः बल्ल-
भाभिसामिभुक्तविषयाः चक्रिरे ।
तस्येति । उपसृत्यान्यत्र गत्वा नवेषु नूतनेषु काम्यवस्तुषु शब्दादिष्विन्द्रिया-
र्थेषु संगिनः आसक्तिमतः सतस्तस्य सावरणाः प्रच्छन्ना दृष्टाः प्रकाशाश्च संधयः
साधनानि येषु ते समागमाः संगमा वल्लभाभिः प्रेयसीभिः सामिभुक्तविषया
अर्धोपभुक्तेन्द्रियार्थाश्चक्रिरे । यथेष्टं भुक्तश्चेत्तह्यंयं निष्पृहः सन्नस्मत्समीपं नाया-
स्यतीति भावः । अत्र गोनर्दीयः—'सन्धिद्विविधः सावरणः प्रकाशश्च । सावरणो
भिक्षुक्यादिना प्रकाशः स्वयमुपेत्य केनापि इति' । 'इतः स्वयमुपसृत्य विशेषार्थं
तत्र स्थितोऽनुपजापं स्वयं सन्धेयः' इति वात्स्यायनः । अन्यत्र गतं कथंचित्सन्धाय
पुनरुपगामायार्धोपभोगेननिवृत्ततृष्णं चक्रुरित्यर्थः ।
भाषार्थ—वह सदा नई-नई भोग की सामग्रियां चाहता था जिसके विषय
से उसका मन भर जाता था, उसे वह छोड़ देता था । इसलिए स्त्रियां सम्भोग के
समय राजा से आधी ही रति करके उठ जाती थीं क्योंकि उन्हें डर था कि यदि
राजा पूर्णरूप से तृप्त हो जायेगा तो हमें छोड़ देगा ॥ १६ ॥