सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

एकादशः सर्गः ३८५

एकादशः सर्गः ३८५

"विभाषा सातिकार्त्स्न्ये" इति सातिप्रत्ययः ससागरां वसुधां च पात्रसात्यात्राधीनदेयं कृतवतः "देये त्रा च" इति चकारात्सातिः । कृतकृत्यस्य मे परमेष्ठिना परमे लोके तिष्ठतीति तेन परमपुरुषेण त्वयाऽऽहितः कृतो जयविपर्ययः पराजयोऽपि श्लाघ्य आशास्य एव ।

भाषार्थ—पिताके शत्रुओं का नाश करनेवाले और समुद्र तक फैली हुई पृथ्वी ब्राह्मण को दान दे देनेवाले, मेरे लिए आप परम पुरुष से हारना भी गौरव की बात है ॥ ८६ ॥

तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।
पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ॥ ८७ ॥

अन्वयः—तत् हे मतिमतां वर ! पुण्यतीर्थगमनाय ईप्सितां मे गतिं रक्ष, (किन्तु) खिलीकृता स्वर्गपद्धतिः अभोगलोलुपं मां न पीडयिष्यति ।

तदिति । तत्तस्मात्कारणाद्धे मतिमतां वर ! पुण्यतीर्थगमनायाप्तुमिष्टामीप्सितां मे गतिं रक्ष पालय । किन्तु खिलीकृता दुर्गमीकृताऽपि स्वर्गपद्धतिरभोगलोलुपं भोगनिःस्पृहं मां न पीडयिष्यति । अतस्तामेव जहीत्यर्थः ।

भाषार्थ—हे बुद्धिमानों में श्रेष्ठ ! आप मेरी अभिलषित गति न रोकिये जिससे मैं पुण्य तीर्थों में जा सकूँ; मुझे भोग की तो इच्छा है नहीं । इसलिए यदि मुझे स्वर्ग न भी मिले तो कुछ दुःख नहीं होगा । अतः आप स्वेच्छागति को बचाकर मेरे स्वर्गलोक को ही अपने अमोघ बाण से नष्ट कीजिए ॥ ८७ ॥

प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् ।
भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः ॥ ८८ ॥

अन्वयः—राघवः तथा इति प्रतिपद्यत प्राङ्मुखः सायकं विससर्ज च । स सुकृतोऽपि भार्गवस्य दुरत्ययः स्वर्गमार्गपरिघः अभवत् ।

प्रत्यपद्येति । राघवस्तुतथेति प्रत्यपद्यताङ्गीकृतवान् । प्राङ्मुख इन्द्रदिङ्मुखः सायकं विससर्ज च । स सायकः सुकृतोऽपि साधुकारिणोऽपि । करोतेः क्विप् । भार्गवस्य दुरत्ययो दुःखेन अत्ययो नाशो यस्य स दुरत्ययो दुरतिक्रमः । स्वर्गमार्गस्य परिघः प्रतिबन्धोऽभवत् ।

भाषार्थ—रामने परशुरामजी का कहना मान लिया और पूर्वाभिमुख होकर बाण छोड़ दिया । यद्यपि परशुरामजी ने बहुत पुण्य किया था फिर भी वह बाण सदा के लिए उनके स्वर्ग का प्रतिरोधक बन गया ॥ ८८ ॥

२५ र० सम्पू०

३८६ - रघुवंशमहाकाव्ये

राघवोडपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् ।
निर्जितेषु तरसा तरस्विनां शत्रुधु प्रणतिरेव कीर्तये ॥ ८९ ॥

अन्वयः— राघवः अपि 'क्षम्यताम्' इति वदन् तपोनिधेः चरणौ समस्पृशत् तरस्विनां तरसा निर्जितेषु शत्रुधु प्रणतिः एव कीर्तये ( भवति ) ।

राघव इति । राघवोडपि क्षम्यतामिति वदंस्तपोनिधेर्भार्गवस्य चरणौ समस्पृशतप्रणनाम । तथाहि तरस्विनां बलवतां तरसा बलेन निर्जितेषु शत्रुधु प्रणतिरेव कीर्तये भवतीति शेषः ।

भाषार्थ— तब राम ने महातपस्वी परशुरामजी से क्षमा माँगते हुए उनके दोनों चरणों का स्पर्श कर प्रणाम किया, क्योंकि जब कोई पराक्रमी वीर अपने पराक्रम से अपने शत्रुको जीत लेता है तब यदि वह नम्रता भी दिखाता है तो उसकी कीर्ति ही बढ़ती है ॥ ८९ ॥

राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा ।
नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ॥ ९० ॥

अन्वयः— मातृकं राजसत्वं अवधूय पित्र्यं शमं यदा गमितः ( अस्मि तदा ) त्वया मम अनिन्दितफलः अयं निग्रहः अपि अनुग्रहीकृतः ।

राजसत्वमिति । मातुरागतं मातृकं राजसत्वं रजोगुणप्रधानत्वमवधूय तिरस्कृत्य । पितुरागतं पित्र्यं शमं यदा गमितोऽस्मि । तदा त्वया समापेक्षितत्वादनिन्दितं गर्हितं फलं स्वर्गहानिलक्षणं यस्य सोऽयं निग्रहोऽपकारोऽप्यनुग्रहीकृतो ननूपकारीकृतः खलु ।

भाषार्थ— परशुरामजी बोले—आपने मुझे अनिन्दित फल वाला यह दण्ड देकर मेरा बड़ा भारी उपकार किया है, इससे मेरा बहुत बड़ा लाभ यह हुआ है कि अपने क्षत्रिय माता से पाये हुए मेरे रजोगुण को दूर करके मुझे ब्राह्मणोचित पिता का सतोगुण दे दिया है ॥ ९० ॥

साधयाम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः ।
ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषिस्तिरोदधे ॥ ९१ ॥

अन्वयः— 'अहं साधयामि, देवकार्यं उपपादयिष्यतः ते अविघ्नम् अस्तु' लक्ष्मणाग्रजं रामं इति वचः ऊचिवान् ऋषि तिरोदधे ।

साधयामिति । अहं साधयामि गच्छामि धातूनामनेकार्थत्वात् । इति देवकार्यमुपपादयिष्यतः सम्पादयिष्यतस्तेऽविघ्नमस्तु विघ्नाभावोऽस्तु । "अव्ययं विभक्तिसमीपसमृद्ध्व्यृद्ध्यर्थाभाव०" इत्यादिनार्थाभावेऽव्ययीभावः । सह लक्ष्मणेन