रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
एकादशः सर्गः ३६९
एकादशः सर्गः ३६९
पुष्पचापमिव नातियत्नतो नातियत्नात् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । आततज्यमधिज्यम् । अकरोत् ।
भाषार्थ— सभा में स्थित समस्त सभासदों के द्वारा आश्चर्यपूर्वक निर्निमेष दृष्टि से देखे जाते हुए राम ने पर्वत के समान भारी उस धनुष पर वैसी ही सरलता से डोरी चढ़ा दी जैसे कामदेव अपने पुष्पों के कोमल धनुष पर अनायास डोरी चढ़ा देता है ॥ ४५ ॥
भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः।
भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ॥ ४६ ॥
अन्वयः— तेन अतिमात्रकर्षणात् भज्यमानं ( अत एव ) वज्रपरुषस्वनं धनुः दृढमन्यवे भार्गवाय क्षत्रं पुनः उद्यतं न्यवेदयत् ।
भज्यमानमिति । तेन रामेणातिमात्रकर्षणाद्भूज्यमानमत एव वज्रपरुषस्वनं वज्रमिव परुषः स्वनो यस्य तत् धनुः कर्तृ दृढमन्यवे दृढक्रोधाय । 'मन्युः क्रोधे क्रतौ दैन्ये' इति विश्वः । भार्गवाय क्षत्रं क्षत्रकुलं पुनरुद्यतमिति न्यवेदयदिव ज्ञापयामासेव ।
भाषार्थ— राम ने उस धनुष को इतना तान दिया कि वह वज्र के समान भयंकर शब्द करते हुए कड़कड़ाकर टूट गया, मानों उसने महाक्रोधी परशुराम को सूचना दे दी कि क्षत्रियों ने अब पुनः शिर उठाना आरम्भ कर दिया है ॥ ४६ ॥
दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः।
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ॥ ४७ ॥
अन्वयः— अथ मैथिलः रुद्रकार्मुके दृष्टसारं वीर्यशुल्कं अभिनन्द्य राघवाय अयोनिजां तनयां रूपिणीं श्रियं इव न्यवेदयत् ।
दृष्टेति । अथ मैथिलो जनको रुद्रकार्मुके शङ्करधनुषि दृष्टः सारः स्थिरांशो यस्य तद्दृष्टसारं विलोकितविक्रमम् । 'सारो बले स्थिरांशे च' इति विश्वः । वीर्यमेव शुल्कं धनुर्भङ्गरूपमित्यर्थः । अभिनन्द्य राघवाय रामायायोनिजां देवयजनसम्भवां तनयां सीतां रूपिणीं श्रियमिव साक्षाल्लक्ष्मीमिव न्यवेदयदर्पितवान् । वाचेति शेषः ।
भाषार्थ— इसके बाद जब मिथिला नरेश जनक जी ने देखा कि राम ने शिव-धनुष को तोड़कर अपना पराक्रम दिखला दिया, तब उन्होंने धनुर्भंग रूप पराक्रम मूल्य का अभिनन्दन करके पृथ्वी से उत्पन्न अपनी पुत्री सीताजी को इस प्रकार राम को सौंप दिया मानों साक्षात् अपनी लक्ष्मी उन्हें दे डाली हो ॥ ४७ ॥
२४ र० सम्प्र०
३७० | रघुवंशमहाकाव्ये
उक्तमेवार्थं सोपस्कारमाह—
मैथिलः सपदि सत्यसंगरो राघवाय तनयामयोनिजाम् ।
संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् ॥ ४८ ॥
अन्वयः—सत्यसंगरः मैथिलः राघवाय अयोनिजां तनयां द्युतिमतः तपोनिधेः सन्निधौ अग्निसाक्षिकः सपदि अतिसृष्टवान् ।
मैथिल इति । सत्यसङ्गरः सत्यप्रतिज्ञः । ‘अथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः’ इत्यमरः । राघवायायोनिजां तनयां द्युतिमतस्तेजस्विनस्तपोनिधेः कौशिकस्य संनिधौ । अग्निः साक्षी यस्य सोऽग्निसाक्षिकः । “शेषाद्विभाषा” इति कप्प्रत्ययः । स इव सपद्यतिसृष्टवान्दत्तवान् ।
भाषार्थ—सत्यप्रतिज्ञा करनेवाले राजा जनक ने महातेजस्वी विश्वामित्र जी को ही विवाह का साक्षी अग्नि समझकर तत्काल उनके सम्मुख राम को सीता समर्पित कर दी ॥ ४८ ॥
प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् ।
भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलमिदं निमेरिति ॥ ४९ ॥
अन्वयः—महाद्युतिः महितं पुरोधसम् कोसलाधिपतये प्राहिणोत् इदं निमेः कुलं दुहितुः परिग्रहात् भृत्यभावि दिश्यताम् ।
प्राहिणोदिति । महाद्युतिर्जनको महितं पूजितं पुरोहितं कोसलाधिपतये दशरथाय प्राहिणोत्प्रहितवांश्च । किमिति निमिर्नाम जनकानां पूर्वजः कश्चित् इदं निमेः कुलं दुहितुः सीतायाः परिग्रहात्स्नुषात्वेन स्वीकाराद्धेतोः भृत्यस्य भावो भृत्यत्वं सोऽस्यास्तीति भृत्यभावि दिश्यतामनुमन्यतामिति त्वयेति शेषः ।
भाषार्थ—महातेजस्वी राजा जनक अपने पूज्य पुरोहित शतानंदजी से कोसलाधिपति राजा दशरथ के पास कहला भेजा कि मेरी पुत्री सीता को स्वीकार करके इस निमि कुल पर वैसी ही कृपा कीजिए जैसी आप अपने सेवकों पर करते हैं ॥ ४९ ॥
अन्विषेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः ।
सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्म काङ्क्षितम् ॥ ५० ॥
अन्वयः—सः च सदृशीं स्नुषां अन्विषेष अनुकूलवाक् द्विजः च एनं प्राप, हि कल्पवृक्षफलधर्मिसुकृतां काक्षितं सद्य एव पच्यते ।
अन्विषेषेति । स दशरथश्च सदृशीमनुरूपां स्नुषामन्विषेष । रामविवाहमाचकाङ्क्षेत्यर्थः । अनुकूलवाक्स्नुषासिद्धिरूपानुकूलार्थवादी द्विजो जनकपुरोधाः
एकादशः सर्गः
३७१
शतानन्दश्चैनं दशरथं प्राप । तथाहि कल्पवृक्षफलस्य यो धर्मः सद्यःपाकरूपः सोऽस्यास्तीति कल्पवृक्षफलधर्मा अतः सुकृतां पुण्यकारिणां कांक्षितं मनोरथः सद्य एव पच्यते हि । कर्मकर्तरि लट् । स्वयमेव पक्वं भवतीत्यर्थः । "कर्मवत्कर्मणा तुल्यक्रियः" इति कर्मवद्भावात् "भावकर्मणोः" इत्यात्मनेपदम् ।
भाषार्थ—उधर दशरथ जी यह विचार ही कर रहे थे कि योग्य पुत्रवधू हमारे घर में आवे, इतने में ही राजा जनक के पुरोहित शतानन्दजी इच्छानुकूल सन्देश लेकर उनके पास पहुँच गये । ठीक ही है पुण्यात्माओं की अभिलाषा कल्पवृक्ष के समान तत्काल फल देने वाली होती है ॥ ५० ॥
तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनमग्रजन्मनः ।
उच्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः ॥ ५१ ॥
अन्वयः—बलभित्सखः वशी कल्पितपुरस्क्रियाविधेः तस्य अग्रजन्मनः वचनं शुश्रुवान् सैन्यरेणुमुषितार्कदीधितिः ( सन् ) उच्चचाल ।
तस्येति । बलभित्सख इन्द्रसहचरो वशी स्वाधीनतावान् । 'वश आयत्ततायां च' इति विश्वः । कल्पितपुरस्क्रियाविधेः कृतपूजाविधेस्तस्याग्रजन्मनो द्विजस्य वचनं जनकेन संदिष्टं शुश्रुवान् श्रुतवान् । शृणोतेः क्वसुः । सैन्यरेणुमुषितार्कदीधितिः सन्नुच्चचाल प्रतस्थे ।
भाषार्थ—इन्द्र के मित्र जितेन्द्रिय राजा दशरथ ने राजा जनक के पुरोहित शतानन्दजी का बड़ा सत्कार किया और उस ब्राह्मण की बात सुन कर इतनी बड़ी सेना लेकर चल पड़े कि उसकी धूलि से सूर्य भी ढंक गये ॥ ५१ ॥
आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलैः ।
प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥ ५२ ॥
अन्वयः—सः बलैः पीडितोपवनपादपां मिथिलां वेष्टयन् आससाद सा पुरी स्त्री आयतं कान्तपरिभोगं इव प्रीतिरोधं असहिए ।
आससादेति । स दशरथो बलैः सैन्यैः पीडितोपवनपादपां मिथिलां वेष्टयन्परिधीकुर्वन् आससाद । सा पुरी स्त्री युवतिरायतमतिप्रसक्तं कान्तपरिभोगं प्रियसंभोगमिव प्रीत्या रोधं प्रीतिरोधमसहिष्ट सोढवती । द्वेषरोधं तु न सहति इति भावः ।
भाषार्थ—वे राजा दशरथ इस प्रकार मिथिला में पहुंच गये । मिथिला के उपवनों के वृक्षों को रौंदती हुई उनकी सेना ने चारो ओर से घेर लिया किन्तु इस प्रेम के घेरे को उस नगरी ने उसी प्रकार सहन किया जिस प्रकार कोई स्त्री अपने प्रियतम के कठोर सम्भोगको प्रेम पूर्वक सहन करती है ॥५२॥
३७२ रघुवंशमहाकाव्ये
तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ ५३ ॥
अन्वयः—समये स्थितौ वरुणवासवोपमौ तौ उभौ भूपती समेत्य स्वप्रभाव-
सदृशीं कन्यकातनयकौतुकक्रियां वितेनतुः ।
ताविति । समये शिष्टाचारे स्थितावाचारनिष्ठौ । 'समयाः शपथाचारकाल-
सिद्धान्तसम्विदः' इत्यमरः । वरुणवासवावुपमोपमानं ययोस्तौ तथोक्तौ तावुभौ
भूपती जनकदशरथौ समेत्य स्वप्रभावसदृशीमात्ममहिमानुरूपां कन्यकानां
सीतादीनां तनयानां रामादीनां च कौतुकक्रियां विवाहोत्सवं वितेनतुर्विस्तृतवन्तौ ।
तनोतेर्लिट् ।
भाषार्थ—इन्द्र और वरुण के समान प्रतापी मर्यादापालक उन दोनों
राजाओं ने परस्पर मिल कर शास्त्र की विधि से अपने ऐश्वर्य के अनुकूल अपने
पुत्र और पुत्रियों का विवाह-संस्कार सम्पन्न किया ॥ ५३ ॥
पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् ।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥ ५४ ॥
अन्वयः—रघूद्वहः पार्थिवीं उदवहत् अथ लक्ष्मणः तदनुजां ऊर्मिलां (उद्वहत्)
यौ वरौजसौ तयोः अवरजौ तौ कुशध्वजसुते (उदवहताम्) ।
पार्थिवीमिति । उद्वहतीत्युद्वहः । पचाद्यच् । रघूणामुद्वहो रघूद्वहो रामः
पृथिव्या अपत्यं स्त्री पार्थिवी । “तस्यापत्यम्” इत्यणि “टिड्ढाणञ्०” इति
ङीप् । तां सीतामुदवहत्परिणीतवान् । अथ लक्ष्मणस्तस्याः सीताया अनुजां
जनकस्यौरसीमूर्गिलामुदवहत् । यौ वरौजसौ तयो रामलक्ष्मणयोरवरजावनुजातौ
भरतशत्रुघ्नौ तौ सुमध्यमे कुशध्वजस्य जनकानुजस्य सुते कन्यके माण्डवीं श्रुत-
कीर्ति चोदवहताम् । नात्र व्युत्क्रमविवाहदोषो भिन्नोदरत्वात् । तदुक्तम्—
'पितृव्यपुत्रे सापत्न्ये परनारीसुतेषु च । विवाहधानयज्ञादौ परिवेत्ताद्यदूषणम्'
इति ।
भाषार्थ—रघुकुलतिलक श्रीराम का सीता के साथ और लक्ष्मण का सीता
की छोटी बहन उर्मिला के साथ विवाह हुआ । उनके छोटे भाई भरत और
शत्रुघ्न का विवाह क्रमशः जनकजी के छोटे भाई कुशध्वज की पुत्री माण्डवी
और श्रुतकीर्ति के साथ हुआ ॥ ५४ ॥
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः ।
सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥ ५५ ॥
अन्वयः—ते चतुर्थसहिताः त्रयः सूनवः नववधूपरिग्रहः सिद्धिमन्तः तस्य
भूपते. सामदानविधिभेदनिग्रहाः इव बभुः ।
एकादशः सर्गः ३७३
त इति । ते चतुर्थसहितास्त्रयः चत्वार इत्यर्थः । वृत्तानुसारादेवमुक्तम् । सूनवो नववधूपरिग्रहाः सिद्धिमन्तः फलसिद्धियुक्तास्तस्य भूपतेर्दशरथस्य सामदानविधिभेदनिग्रहाश्चत्वार उपाया इव वभुः । विधीयत इति विधिः दानमेव विधिः निग्रहो दण्डः सूनूनामुपायैर्वधूनां सिद्धिभिश्चौपम्यमित्यनुसन्धेयम् ।
भाषार्थ--वे चारो भाई उन नव-वधुओं को पाकर ऐसे सुशोभित हुए मानों उस राजा दशरथ के साम, दाम, दण्ड और भेद इन चारों उपायों को चार सिद्धियां मिल गई हों ॥ ५५ ॥
ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंन्निभः ॥ ५६ ॥
अन्वयः—ताः नराधिपसुताः नृपात्मजैः कृतार्थतां ते च ताभिः कृतार्थतां अगमन् सः वरवधूसमागमः प्रकृतिप्रत्ययोगसन्निभः अभवत् ।
ता इति । ता नराधिपसुता जनककन्यका नृपात्मजैर्दशरथपुत्रैः कृतार्थतां कुलशीलवयोरूपादिसाफल्यमगमन् । ते राघवाद्याश्च ताभिः सीताद्याभिस्तथा । किंच स वराणां वधूनां च समागमः प्रत्ययानां प्रकृतीनां च योग इव सन्निभातीति सन्निभः अभवत् पचाद्यच् । प्रत्ययाः सनादयो येभ्यो विधीयन्ते ताः प्रकृतयः । यथा प्रकृतिप्रत्यययोः सहैकार्थसाधनत्वं तद्वदत्रापीति भावः ।
भाषार्थ--उन चारों राजकुमारों को पाकर वे चारों राजकुमारियां और उन चार राजकुमारियों को पाकर वे चारों राजकुमार कृतकृत्य हो गये । उन वर और वधुओं का वह मिलन ऐसा हुआ जैसे शब्दों के मूल रूप में प्रत्यय अलग-अलग रहने पर किसी वाच्यार्थ को कहने में असमर्थ होने के कारण निरर्थक से जान पड़ते हैं और वे ही दोनों मिल कर पाठक शब्द बन कर पढ़ाने वाला इस अर्थ के वाचक होकर सार्थक हो जाते हैं उसी प्रकार उन वधूवरों का मिलन भी सार्थक हो गया ॥ ५६ ॥
एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः ।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ ५७ ॥
अन्वयः—एवं आत्तरतिः सः दशरथः आत्मसंभवान् तत्र निवेश्य त्रिषु अध्वसु विसृष्ट मैथिलः ( सन् ) स्वां पुरीं न्यवर्तत ।
एवमिति । एवमात्तरतिरनुरागवान्स दशरथस्तांश्चतुरोऽप्यात्मसम्भवान्पुत्रांस्तत्र मिथिलायां निवेश्य विवाह्य । 'निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्तितः'
| ३०४ | रघुवंशमहाकाव्ये |
|---|
इति विश्वः । त्रिष्वह्वसु प्रयाणेषु सत्सु विसृष्टमैथिलः सन् स्वां पुरीं न्यवर्तत । उद्देशक्रियापेक्षया कर्मत्वं पुर्याः ।
**भावार्थ—**इस प्रकार प्रेमपूर्वक राजा दशरथ मिथिला में चारों पुत्रों का विवाह कर मार्ग में तीन दिन पड़ाव पड़ने के बाद राजा जनक को लौटा दिया और स्वयं बड़े प्रसन्न मन से अपनी नगरी अयोध्या की ओर बढ़े ॥५७॥
तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः ।
चिक्लेशुभृंशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥ ५८ ॥
**अन्वयः—**जातु वर्त्मसु ध्वजतरुप्रमाथिनः प्रतीपगा मरुतः उत्तटा नदीरयाः स्थलीं इव तस्य वरूथिनीं भृशतया चिक्लेशुः ।
तस्येति । जातु कदाचिद्वर्त्मसु ध्वजा एव तरवस्तान्प्रमथ्नन्ति ये ते ध्वजतरुप्रमाथिनः । प्रतीपगाः प्रतिकुलगामिनो मरुतः उत्तटा नदीरयाः स्थलीमकृत्रिमभूमिमिव । “जानपदकुण्ड०” इत्यादिना ङीप् । तस्य वरूथिनीं सेनां भृशतया भृशं चिक्लेशुः क्लिश्यन्ति स्म ।
**भावार्थ—**जिस प्रकार तट के ऊपर बहने वाली नदी की धारा आस-पास की भूमि को आप्लावित कर देती है उसी प्रकार मार्ग में सेना के ध्वजारूपी वृक्ष को झकझोरने वाले वायु ने एक दिन दशरथ की सेना को व्याकुल कर दिया ॥ ५८ ॥
लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः ।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ ५६ ॥
**अन्वयः—**तदनन्तरं बद्धभीमपरिवेषमण्डलः रविः वैनतेयशमितस्य भोगिन भोगवेष्टितः च्युतः मणिः इव लक्ष्यते स्म ।
लक्ष्यत इति । तदनन्तरं प्रतीपपवनान्तरं बद्धं भीमं बिभेत्यस्मादिति भीमं भयङ्करं परिवेषस्य परिधेर्मण्डलं यस्य सः । ‘परिवेषस्तु परिधिरुपसूर्यकमण्डले’ इत्यमरः । रविः वैनतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन । ‘भोगः सुखं स्त्र्यादिभृतावहेश्च फणकाययोः’ इत्यमरः । वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव लक्ष्यते स्म ।
**भावार्थ—**इसके बाद सूर्य के चारों ओर एक बड़ा भारी मण्डल बन गया, वह ऐसा मालूम पड़ने लगा कि जैसे गरुड के द्वारा मारा गया कोई सांप अपने मस्तक से गिरे हुए मणि के चारों ओर कुण्डली मार कर पड़ा हुआ हो ॥५९॥
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥ ६० ॥
एकादशः सर्गः ३७५
अन्वयः—श्येनपक्षपरिधूसरालकाः सान्ध्यमेघरुधिरार्द्रवाससः दिशः रजस्वला अङ्गनाः इव भव अवलोकनक्षमा नो।
श्येनेति। श्येनपक्षा एव परिधूसरा अलका यासां तास्तथोक्ताः सांध्यमेघा एव रुधिरार्द्राणि वासांसि यासां तास्तथोक्ताः। रजो धूलिरासामस्तीति रजस्वलाः। “रजःकृष्यासुतिपरिषदो वलच्” इति वलच्प्रत्ययः। दिशः रजस्वला ऋतुमत्योऽङ्गना इव। 'स्याद्रजः पुष्पमार्तवम् इत्यमरः। अवलोकनक्षमा दर्शनार्हा नो बभूवुः। एकत्र दृष्टिदोषात्परत्र शास्त्रदोषादिति विज्ञेयम्। अत्र रजोवृष्टिरुत्पातं उक्तः।
भाषार्थ—बाज पक्षी पंख रूपी धूसरकेशवाली और सन्ध्याकालीन लाल मेघ रूप से भींगे हुये वस्त्रवाली दिशाएँ उस रजस्वला स्त्री के समान देखने में अशक्य हो गई जिसके शस्र बाज के पंख के समान धूसर और सायंकाल के मेघ के समान रक्त से भींगे हुए हों। धर्मशास्त्रों में रजस्वला स्त्री को देखने का निषेध किया गया है॥ ६०॥
भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववांसिरे।
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः॥ ६१॥
अन्वयः—भास्करः यां दिशं अध्युवास तां श्रिताः शिवाः क्षत्रशोणितपितृक्रियोचितं भार्गवं चोदयन्त्य इव प्रतिभयं ववांसिरे।
भास्कर इति। भास्करो यां दिशमध्युवास च यस्यां दिश्युषितः। “उपान्वध्याङ्वसः” इति कर्मत्वम्। तां दिशं श्रिताः शिवा गोमायवः। 'स्त्रियां शिवा भूरिमायुगोमायुमृगधूर्तकाः' इत्यमरः। क्षत्रशोणितेन या पितृक्रिया पितृतर्पणं तत्रोचितं परिचितं भार्गवं चोदयन्त्य इव प्रतिभयं भयङ्करं ववांसिरे रुरुवुः 'वासृ शब्दे' इति धातोर्लिट्। 'तिरश्चां वासितं रुतम्' इत्यमरः।
भाषार्थ—जिस दिशा में सूर्य वर्तमान थे उस दिशा में सियारिन भयानक रूप से रोने लगी मानों क्षत्रियां रुधिर से अपने पिता का तर्पण करने वाले परशुराम को पुकार रही हों॥ ६१॥
तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित्।
अन्वयुङ्क्त गुरुमीश्वरः क्षितेः स्वान्तमित्यलघयत्त तद्व्यथाम्॥ ६२॥
अन्वयः——तत्प्रतीपपवनादि कृतम् प्रेक्ष्य कृत्यवित् क्षितेः ईश्वरः शान्ति अधिकृत्य गुरुं अन्वयुंक्त सः स्वान्तं तद्व्यथां अलघयत्।
तदिति। तत्प्रतीपपवनादि वैकृतं दुनिमित्तं प्रेक्ष्य कृत्यवित्कार्यज्ञः क्षितेरीश्वरः शान्तिममर्थनिवृत्तिमधिकृत्योद्दिश्य गुरुं वसिष्ठमन्वयुङ्क्ताऽपृच्छत्। 'प्रश्नो-
३७६ रघुवंशमहाकाव्ये
ऽनुयोगः पृच्छा च' इत्यमरः। स गुरुः स्वान्तं शुभोदर्कं भावीति तस्य राज्ञो व्यथामलघयल्लघूकृतवान्।
भाषार्थ—उस प्रतिकूल हवा आदि से अपशकुन होते देखकर कार्यज्ञ राजा दशरथजी ने उसकी शान्ति के लिए अपने गुरु वसिष्ठजी से पूछा, उसपर उन्होंने कहा कि चिन्ता की कोई बात नहीं, इसका फल अच्छा होगा, यह सुनकर दशरथजी का कष्ट कुछ हलका हुआ ॥ ६२ ॥
तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ॥ ६३ ॥
अन्वयः—सपदि उत्थितः तेजसः राशिः वाहिनीमुखे प्रादुरास किल यः सैनिकैः नयनानि प्रमृज्य चिरात् लक्षणीयपुरुषाकृतिः।
तेजस इति। सपद्युत्थितस्तेजसो राशिर्वाहिनीमुखे सेनाग्रे प्रादुरास किल खलु। यः सैनिकैर्नयनानि प्रमृज्य चिराल्लक्षणीया भावनीया पुरुषाकृतिर्यस्य स तथोक्तः। अभूदिति शेषः।
भाषार्थ—तत्काल सेना के सामने एक ऐसा प्रकाशमान पुञ्ज दिखाई पड़ा जिससे सैनिकों की आंखे चौंधिया गईं, जब उन्होंने आँखें मलकर देखा तब वह प्रकाशपुञ्ज एक पुरुष के रूप में दिखाई दिया ॥ ६३ ॥
पित्र्यमंशमुपवीतलक्षणं मातृकं धनुरूर्जितं दधत्।
यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ॥ ६४ ॥
अन्वयः—उपवीतलक्षणं पित्र्यं अंशं धनुरूर्जितं मातृकं अंशं च दधत् यः ससोम घर्मदीधितिः इव सद्विजिह्वः चन्दनद्रुमं इव स्थितः।
पित्र्यमिति। उपवीतं लक्षणं चिह्नं यस्य तम्। पितुरयं पित्र्यः। "वाय्वृतु-पितृषसो यत्" 'पितुर्यञ्च' इति यत्प्रत्ययः। तमंशं धनुषोर्जितं धनुरूर्जितं मातुरयं मातृकः। 'ऋतष्ठञ्" इति ठञ्प्रत्ययः। तमंशं च दधद्यो भार्गवः ससोमश्चन्द्रयुक्तो घर्मदीधितिः सूर्य इव सद्विजिह्वः ससर्पश्चन्दनद्रुम इव स्थितः।
भाषार्थ—उस तेजस्वी पुरुष के शरीर पर ब्राह्मण पिता के अंश का सूचक यज्ञोपवीत शोभा दे रहा था और कन्धे पर क्षत्रिय माता का अंश सूचित करने वाला धनुष लटक रहा था। इस वेश में वे ऐसे जान पड़ते थे मानो सूर्य के साथ चन्द्रमा हो अथवा चन्दन के वृक्ष में सांप लिपटे हों ॥ ६४ ॥
येन रोषपरुषात्मनः पितुः शासने स्थितिविदोऽपि तस्थुषा।
वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही ॥ ६५ ॥