सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

अष्टादशः सर्गः ११३

अष्टादशः सर्गः ११३

अन्वयः—उरसि अपर्याप्तनिवेशभागा ( अतएव ) प्रौढीभवन्तं उदीक्षमाणा लक्ष्मी संजातसज्जया इव त आतपत्रच्छायाच्छलेन उपजुगूह ।

उरसीति । उरस्यपर्याप्तो निवेशभागो निवासावकाशो यस्याः सा अतएव प्रौढीभविष्यन्तं वर्धिष्यमाणमुदीक्षमाणा प्रौढवपुष्मान्भविष्यतीति प्रतीक्षमाणा लक्ष्मीः संजातसज्जेव साक्षादालिङ्गितुं लज्जितेव तं सुदर्शनमातपत्रच्छाया-च्छलेनोपजुगूहालिलिङ्ग । छत्रच्छाया लक्ष्मीरूपेति प्रसिद्धिः । प्रौढाङ्गनायाः प्रौढपुरुषालाभे लज्जा भवतीति ध्वनिः ।

भाषार्थ—बालक राजा के हृदय को अभी छोटा समझकर राजलक्ष्मी उनके युवा होने की आशा लगाये बैठी थी । पर बीच-बीच में छत्र की छाया बनकर उनका आलिंगन कर लेती थी मानो छोटा पति होने के कारण उनसे खुलकर गले लगने में लजा रही ही ॥ ४७ ॥

अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन ।
अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः ॥ ४८ ॥

अन्वयः—युगोपमानं अनश्नुवानेन अबद्धं मौर्वीकिणलाञ्छनेन अस्पृष्टखड्ग-त्सरुणा अपि तस्य भुजेन भूमिः रक्षावती आसीत् ।

अनश्नुवानेनेति । युगोपमानं युगसादृश्यमनश्नुवानेनाप्राप्नुवता अबद्धं मौर्वी-किणं ज्याघातग्रन्थिरेव लाञ्छनं यस्य तेन अस्पृष्टः खड्गत्सरुः खड्गमुष्टिर्येन तेन । 'त्सरुः खड्गादिमुष्टौ स्यात्' इत्यमरः । एवंविधेनापि च तस्य सुदर्शनस्य भुजेन भूमी रक्षावत्यासीत् । शिशोरपि तस्य तेजस्तादृगित्यर्थः ।

भाषार्थ—यद्यपि उसकी भुजायें जुए के समान मोटी और लम्बी नहीं हुई थीं, धनुष की डोरी खींचने से भी कड़ी नहीं हो पायी थीं और तलवार की मूठ भी नहीं छू सकी थी फिर भी उसने पृथ्वी की रक्षा भलीभांति कर ली ॥ ४८॥

न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् ।
वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥ ४९ ॥

अन्वयः—काले गच्छति तस्य केवलं शरीरावयवा एव विवृद्धिं न ययुः, (किन्तु) वंश्या लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानं आपुः खलु ।

नेति । काले गच्छति सति तस्य केवलं शरीरावयवा एव विवृद्धिं प्रसारं न ययुः । किन्तु वंशे भवा वंश्या कोककान्ता जनप्रियाः प्रारम्भे आदौ सूक्ष्मास्तस्य गुणाः शौर्यादार्यादयोऽपि प्रथिमानं पृथुत्वमापुः खलु ।

भाषार्थ—कुछ ही दिनों में केवल उनके शरीर के अङ्ग ही नहीं बढ़े किन्तु

६१४ रघुवंशमहाकाव्ये

उनके वे वंशपरम्परावाले गुण भी बढ़े जो पहले छोटे ही थे और जो प्रजा को बहुत प्यारे लगते थे ॥ ४९ ॥

स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम्।
तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः ॥ ५० ॥

अन्वयः— स पूर्वजन्मान्तरदृष्टपाराः स्मरन् इव गुरूणामक्लेशकरः ( सन् ) त्रिवर्गाधिगमस्य मूलं तिस्रः विद्याः पित्र्याः प्रकृतीः च जग्राह ।

स इति । स सुदर्शनः पूर्वस्मिञ्जन्मान्तरे जन्मविशेषे दृष्टपाराः स्मरन्निव गुरूणामक्लेशकरः सन् त्रयाणां धर्मार्थकामानां वर्गस्त्रिवर्गः तस्याधिगमस्य प्राप्तेर्मूलं तिस्रो विद्यास्त्रयीवार्तादण्डनीतीः पित्र्याः पितृसम्बन्धिनीः प्रकृतीः प्रजाश्च जग्राह स्वायत्तीचकार । अत्र कौटिल्यः—‘धर्माधर्मौ त्रय्यामर्थानर्थौ वार्त्तायां नयानयौ दण्डनीत्यान्’ इति । अत्र दण्डनीतिर्नयद्वारा काममूलमिति द्रष्टव्यम् । आन्वीक्षिक्या अनुपादानं त्रय्यन्तर्भावपक्षमाश्रित्य । यथाह कामन्दकः—‘त्रयीवार्तादण्डनीतिस्तिस्रो विद्या मनोर्मताः । त्रय्या एव विभागोऽयं येन साऽन्वीक्षिकी मता’ ॥ इति ॥

भाषार्थ— उन्होंने धर्म, अर्थ और काम देने वाली त्रयी वार्ता और दण्डनीति तीन विद्याओं को इतनी शीघ्रता से सीख लिया मानो पूर्व जन्म में ही वे उन्हें पढ़ चुके हों, साथ ही अपने पिता की प्रजा को भी उन्होंने अपने वश में कर लिया ॥ ५० ॥

व्यूह्य स्थितः किञ्चिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः ।
आकर्णमाकृष्टसबाणधन्वा व्यरोचतास्त्रेषु विनीयमानः ॥ ५१ ॥

अन्वयः— अस्त्रेषु विनीयमानः ( अतएव ) उत्तरार्द्धं किञ्चिदिव व्यूह्य स्थितः उन्नद्धचूडः अञ्चितसव्यजानुः आकर्णं आकृष्टसबाणधन्वा व्यरोचत ।

व्यूह्येति । अस्त्रेषु धनुर्विद्यायां विनीयमानः शिक्ष्यमाणोऽतएवोत्तरार्धं पूर्वकायं किञ्चिदिव व्यूह्य विस्तीर्य स्थितिः । उन्नद्धचूडमूर्ध्वमुत्कृष्य बद्धकेशः अञ्चितं आकुञ्चितं सव्यं जानु यस्य स आकर्णमाकृष्टं सबाणं धनुर्धन्व वा येन स तथोक्तः, सन्व्यरोचताशोभत ।

भाषार्थ— जब वे धनुर्विद्या सीखते समय अपने शरीर का ऊपरी भाग कुछ आगे बढ़ा देते थे, बाल ऊपर बांध लेते थे, बाईं जांघ कुछ झुका लेते थे और बाण चढ़ा कर धनुष की डोरी कान तक खींचते थे, उस समय वे बड़े सुन्दर लगते थे ॥ ५१ ॥