सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

अष्टादशः सर्गः

अष्टादशः सर्गः
६१५

अथ मधु वनितानां नेत्रनिर्वेशनीय-
मनसिजतरुपुष्पं रागबन्धप्रवालम्।
अकृतकविधि सर्वाङ्गीणमाकल्पजातं
विलसितपदमाद्यं यौवनं स प्रपेदे ॥ ५२ ॥

अन्वयः—अथ स वनितानां नेत्रनिर्वेशनीयं मधु रागबन्धप्रवालं मनसिजतरुपुष्पं सर्वाङ्गीणम् आकल्पजातं आद्यं विलसितपदं यौवनं प्रपेदे ।

अथेति । अथ स सुदर्शनो वनितानां नेत्रैर्वेशनीयं भोग्यम् । नेत्रपेयमित्यर्थः । ‘निर्वेशो भृतिभोगयोः’ इत्यमरः । मधु क्षौद्रम् । रागबन्धोऽनुरागसन्तान एव प्रबालः पल्लवो यस्य तत् । मनसिज एव तरुस्तस्य पुष्पं पुष्पभूतम् अकृतकविध्यकृत्रिमसंपादनम् सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम् । “तत्स्र्वादेः पथ्यङ्गकर्मपात्रं व्याप्नोति” इत्यनेन खप्रत्ययः । आकल्पजातमाभरणसमूहभूतम् आद्यं विलसितपदं विलासस्थानं यौवनं प्रपेदे । विशिष्टमधुपुष्पाकल्पजातविलासपदत्वेन यौवनस्य चतुर्धाकरणात्सविशेषणमालारूपकमेतत् ।

भावार्थ—इसके बाद राजा सुदर्शन के शरीर में वह जवानी आ गई जो स्त्रियों की आंखों में मदिरा के समान होती है । काम वृक्ष के पुष्प एवं अनुराग समूह के नवपल्लव के समान समस्त शरीर की स्वाभाविक शोभा होती है और विलास का पहला अड्डा है ॥ ५२ ॥

प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः
समधिकतररूपाः शुद्धसन्तानकामैः ।
अधिविविदुरमात्यैराहृतास्तस्य यूनः
प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥ ५३ ॥

अन्वयः—दूतिसंदर्शिताभ्यः प्रतिकृतिरचनाभ्यः समधिकतररूपाः शुद्धसन्तानकामैः अमात्यैः आहृता राजकन्याः यूनः तस्य प्रथमपरिगृहीते श्रीभुवौ अधिविविदुः ।

प्रतिकृतीति । दूतीभिः कन्यापरीक्षणार्थं प्रेषिताभिः सन्दर्शिताभ्यो दूतिसन्दर्शिताभ्यो दूतिसन्दर्शिताभ्यः प्रतिकृतीनां तूलिकादिलिखितकन्याप्रतिमानां रचनाभ्यः विन्यासेभ्यः । “पञ्चमी विभक्तेः” इति पञ्चमी । समधिकतररूपा चित्रनिर्माणादपि रमणीयनिर्माणा इत्यर्थः । शुद्धसंतानकामैरमात्यैराहृता आनीता राजकन्या यूनस्तस्य सुदर्शनस्य सम्बन्धिन्यो प्रथमपरिगृहीते श्रीभुवौ श्रीश्च भूश्च

३१६ रघुवंशमहाकाव्ये

ते अधिविविदुरधिविन्ने चक्रुः । आत्मना सपत्नीभावं चक्रुरित्यर्थः । 'कृत-
सापत्निकाढ्यूढाधिविन्ना' इत्यमरः ।

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
वंशानुक्रमो नामाष्टादशः सर्गः ॥ १८ ॥

भाषार्थ—दूतियाँ भिन्न-भिन्न राजधानियों में जाकर सुन्दर-सुन्दर राज-
कुमारियों का चित्र ले आईं और राजा को शुद्ध सन्तान होने की इच्छा से
मन्त्रियों ने चित्र से भी बढ़कर सुन्दरी उन राजकुमारियों का राजा सुदर्शन से
विवाह कर दिया । विवाह हो जाने पर वे सब राजकुमारियाँ राजा की पहली
रानियों की पृथ्वी और राजलक्ष्मी की सौत के समान हो गईं ॥ ५३ ॥


एकोनविंशः सर्गः

मनसो मम संसारबन्धनमुच्छेत्तुमिच्छतः ।
रामचन्द्रपदाम्भोजयुगल निविडायताम् ॥

अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् ।
शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥ १ ॥

अन्वयः—श्रुतवतां अपश्चिमः वशी राघवः पश्चिमे वयसि स्वे पदे अग्नितेजसं तनयं अभिषिच्य नैमिषं शिश्रिये ।

अग्निवर्णमिति । श्रुतवतां श्रुतसम्पन्नानामपश्चिमः प्रथमो वशी जितेन्द्रियो राघवः सुदर्शनः पश्चिमे वयसि वार्द्धके स्वे पदे स्थानेऽग्नितेजसं तनयमग्निवर्णमभिषिच्य नैमिषं नैमिषारण्यं शिश्रिये श्रितवान् ।

भाषार्थ—विद्वानों में प्रधान रघुकुलोत्पन्न एवं जितेन्द्रिय राजा सुदर्शन वृद्धावस्था में अग्नि के समान तेजस्वी अपने पुत्र अग्निवर्ण को अपने स्थान पर राजा बनाकर स्वयं नैमिषारण्य में चले गये ॥ १ ॥

तत्र तीर्थसलिलैन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशैः ।
सौधवासमुटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः ॥ २॥