रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
अष्टमः सर्गः
अष्टमः सर्गः
२६१
स्थापिता इत्यर्थः । तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं न क्षमा
न शक्ताः । ते तु तत्संगम एव सुखकारिणः । नान्यथा प्रत्युत प्राणानपहरन्तीति
भावः ।
**भाषार्थ—**हे प्रिये ! स्वर्ग में जाते समय तुम मुझे आश्वासन देने के लिए
कोकिलाओं में मधुर भाषण, राजहंसियों में अपनी धीमी चाल, हरिणियों में
चञ्चल चितवन, वायु में धीरे-धीरे हिलनेवाली लताओं में विलास आदि गुण
तुम छोड़ गई हो परन्तु वे तुम्हारे विरह में अत्यन्त दुःखी मेरे हृदय को किसी
प्रकार शान्ति देने में समर्थ नहीं हैं ॥ ५९-६० ॥
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ ।
अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसाम्प्रतम् ॥ ६१ ॥
**अन्वयः—**ननु हे प्रिये ! सहकारः फलिनी च इमौ त्वया मिथुनं परिकल्पितम्
अनयोः विवाहसत्क्रियाम् अविधाय गम्यते इति असाम्प्रतम् ( अस्ति ) ।
मिथुनमिति । ननु हे प्रिये ! सहकारश्चूतविशेषः फलिनी प्रियङ्गुलता चेमौ
त्वया मिथुनं परिकल्पितं मिथुनत्वेनाभ्यधायि । अनयोः फलिनीसहकारयोर्विवाह-
सत्क्रियां विवाहमङ्गलमविधाय अकृत्वा गम्यत इत्यसांप्रतमयुक्तम् । मातृहीनानां
न किञ्चित्सुखमस्तीति भावः ।
**भाषार्थ—**हे प्रिये ! तुमने इस आम्रवृक्ष ओर प्रियंगुलता की जोड़ी माना
था इन दोनों का विवाह संस्कार किये बिना जा रही हो, यह अत्यन्त अनुचित
है ॥ ६१ ॥
कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति ।
अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् ॥ ६२ ॥
**अन्वयः—**त्वया कृतदोहदः अयम् अशोकः यत् कुसुमम् उदीरयिष्यति तव
अलकाभरणं तत् ( अहम् ) कथं नु निवापमाल्यतां नेष्यामि ।
कुसुममिति । वृक्षादिपोषकं दोहदम् त्वया कृतं दोहदं पादताडनरूपं यस्य
सोऽयमशोको यत्कुसुममुदीरयिष्यति प्रसाविष्यते तवालकानामाभरणमाभरणभूतं
तत्कुसुमं कथं नु केन प्रकारेण निवापमाल्यतां दाहाञ्जलेरर्घ्यतां नेष्यामि । 'पितृदानं
निवापः स्यात्' इत्यमरः ।
**भाषार्थ—**हे प्रिये ! जिस अशोक वृक्ष को तुमने अपने चरणों से स्पर्श किया
है जब वह आगे चलकर फूलेगा, तब तुम्हारे केशों को सजाने के योग्य उन फूलों
को मैं किस प्रकार दाह संस्कार के बाद दी जाने वाली तिलाञ्जलि में उपयोग
करूँगा ॥ ६२ ॥
२६२ रघुवंशमहाकाव्ये
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्द्यदुर्लभम् ।
अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि ! शोच्यसे ॥ ६३ ॥
**अन्वयः—**हे सुगात्रि ! अन्यदुर्लभं सशब्दनूपुरं चरणानुग्रहं स्मरता इव कुसुमाश्रुवर्षिणा अमुना अशोकेन त्वम् शोच्यसे ।
स्मरतेति । अन्यदुर्लभम् किन्तु स्मर्तव्यमेवेत्यर्थः । सशब्दं ध्वनियुक्तं नूपुरं मञ्जीरं यस्य तं चरणेनानुग्रहं पादेन ताडनरूपं स्मरतेव चिन्तयतेव कुसुमान्येवाश्रूणि तद्वर्षिणाऽमुना पुरोवर्तिनाऽशोकेन हे सुगात्रि ! “अङ्गगात्रकण्ठेभ्यो वक्तव्यम्” इति ङीप् । त्वं शोच्यसे ।
**भावार्थ—**हे शोभनाङ्गी प्रिये ! तुम्हारे झंकार करते हुए नूपुर वाले चरणों की ठोकर किसी को नहीं मिलती किन्तु तुमने बड़ी कृपा करके इस अशोक को ठोकर लगा दी थी । अब उन तुम्हारे चरणों की कृपा का स्मरण करके यह अशोक वृक्ष पुष्प रूपी आंसू बरसाते हुए तुम्हारे लिए रो रहा है ॥ ६३ ॥
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया ।
असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि सुप्यते ॥ ६४ ॥
**अन्वयः—**हे किन्नरकण्ठि ! तव निःश्वासंतानुकारिभिः बकुलैः मया समं अर्धचितां विलासमेखलाम् असमाप्य ( त्वया ) किमिदं सुप्यते ।
तवेति । तव निश्वसितानुकारिभिर्बकुलकुसुमैर्मया समं सार्धमर्धचितामर्धं यया तथा रचितां विलासमेखलामसमाप्यापूरयित्वा किन्नरस्य देवयोनिविशेषस्य कण्ठ इव कण्ठो यस्यास्तत्संबुद्धिर्हे किन्नरकण्ठि ! “अङ्गगात्रकण्ठेभ्यो वक्तव्यम्” इति ङीप् । किमिदं सुप्यते निद्रा क्रियते । “वचिख्वपियजादीनां किति” इत्यनेन सम्प्रसारणम् । अनुचितमिदं स्वपनमित्यर्थः ।
**भावार्थ—**हे किन्नरों के समान मधुर कण्ठवाली प्रिये ! अपने श्वास के समान सुगन्धित मौलेसरी के पुष्पों की जो सुन्दर करधनी तुम मेरे साथ गूँथ रही थीं उसे पूरा किये बिना क्यों सो रही हो ॥ ६४ ॥
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः ।
अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ ६५ ॥
**अन्वयः—**सखीजनः समदुःखसुखः अयम् आत्मजः प्रतिपच्चन्द्रनिभः अहम् एकरसः तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः अस्ति ।
समेति । सखीजनः समदुःखसुखः त्वद्दुःखेन दुःखी । त्वत्सुखेन सुखीत्यर्थः ।