सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

अष्टमः सर्गः २७३

अष्टमः सर्गः २७३

समझते हैं किन्तु विद्वान् उसी को खुला हुआ मोक्ष का द्वार मानते हैं। उनकी समझ में मृत्यु वैसा ही सुख देती है जैसे हृदय में गड़ी हुई कील के निकल जाने पर होता है ॥ ८८ ॥

स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा ।
विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ॥ ८९ ॥

अन्वयः— स्वशरीरशरीरिणौ अपि यदा श्रुतसंयोगविपर्ययौ स्तः तदा बाह्यैः विषयैः विरहः विपश्चितं किम् इव अनुतापयेत् त्वम् वद ।

स्वेति । स्वस्य शरीरशरीरिणौ देहात्मानावपि यदा यतः श्रुतौ श्रुत्यवगतौ संयोगविपर्ययौ संयोगवियोगौ ययोस्तौ तथोक्तौ तदा बाह्यैर्विषयैः पुत्रमित्रकलत्रादिभिर्विरहो विपश्चितं विद्वांसं किमिवानुतापयेत्त्वं वद । न किंचिदित्यर्थः । अथवा स्वशब्दस्य शरीरेणैव संबन्धः ।

भाषार्थ— आप ही बताइए जब शरीर और आत्मा भी आपस में बिछुड़ने वाले हैं तब क्या पुत्र स्त्री आदि बाहरी सम्बन्धियों के विछोह से विद्वानों को कदापि शोक नहीं करना चाहिए ? ॥ ८९ ॥

न पृथग्जनवच्छुचो वशं वशिनामुत्तम ! गन्तुमर्हसि ।
द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥ ९० ॥

अन्वयः— हे वशिनाम् उत्तम ! त्वम् पृथग्जनवत् शुचः वशं गन्तुं न अर्हसि द्रुमसानुमतां किम् अन्तरं यदि वायौ सति द्वितये अपि ते चलाः स्युः ।

नेति । हे वशिनामुत्तम जितेन्द्रियवर्य ! पृथग्जनवत्पामरजनवच्छुचः शोकस्य वशं गन्तुं नार्हसि । तथाहि द्रुमसानुमतां तुरुशिखरिणां किमन्तरं को विशेषः । वायौ सति द्वितयेऽपि द्विप्रकारा अपि । “प्रथमचरम०” इत्यादिना जसि विभाषया सर्वनामसंज्ञा । ते द्रुमसानुमन्तश्चलाश्चञ्चला यदि सानुमतामपि चलने द्रुमवत्तेषामप्यचलसंज्ञा न स्यादित्यर्थः ।

भाषार्थ— हे जितेन्द्रियों में श्रेष्ठ अज ! साधारण मनुष्यों के समान आपको इन्दुमती के लिए शोक के वश में होना उचित नहीं क्योंकि वायु के बहने पर यदि वृक्ष और पर्वत दोनों चञ्चल हो उठें तो उन दोनों में अन्तर ही क्या रह जायेगा ? अतः शोक के कारण उपस्थित होने पर भी वायु के बहने पर पर्वत के समान आपको स्थिर रहना चाहिए ॥ ९० ॥

१८ र० सम्प्र०

२७४ | रघुवंशमहाकाव्ये

स तथेति विनेतुरदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् ।
तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥ ९१ ॥

अन्वयः—सः उदारमतेः विनेतुः गुरोः वचः तथा इति प्रतिगृह्य मुनिं विससर्ज 'किन्तु तत् शोकघने अस्य हृदि अलब्धपदं सद् गुरो अन्तिकं प्रतियातम् इव बभूव ।

संस्कृत टीका—स इति । सोऽज उदारमतेर्विनेतुर्गुरोर्वसिष्ठस्य वचस्तच्छिष्यमुखेरितं तथेति प्रतिगृह्याङ्गीकृत्य मुनिं वसिष्ठं शिष्यं विससर्ज प्रेषयामास । किंतु तद्वचः शोकघने दुःखसान्द्रेऽस्याजस्य हृद्यलब्धपदमप्राप्तावकाशं सद्गुरोर्वसिष्ठस्यान्तिकं प्रतियातमिव प्रतिनिवृत्तं किमु इत्युत्प्रेक्षा । तोटकवृत्तमेतत्—'इह तोटकमम्बुधिरसैः प्रथितम्' इति तल्लक्षणम् ।

भावार्थ—उस अज ने विद्वान् शिक्षक और उदारहृदय गुरु वसिष्ठजी के भेजे हुए सन्देश को ठीक है ऐसा कहकर उनके शिष्य को इस प्रकार विदा कर दिया मानो अपने शोक भरे हृदय में स्थान न दे सकने से उनका उपदेश ही लौटा दिया हो । अर्थात् अत्यन्त शोकाकुल अज पर वसिष्ठजी के वचनों का कुछ भी प्रभाव नहीं पड़ा ॥ ९१ ॥

तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः ।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च ॥ ९२ ॥

अन्वयः—अवितथसूनृतेन तेन सूनोः बालत्वात् प्रियायाः सादृश्यप्रतिकृतिदर्शनैः स्वप्नेषु क्षणिकसमागमोत्सवैः च कथंचित् अष्टौ समाः परिगमिताः ।

संस्कृत टीका—तेनेति । अवितथं यथार्थं सूनृतं प्रियवचनं यस्य तेनाजेन सूनोः पुत्रस्य बालत्वाद् राज्याक्षमत्वादित्यर्थः। प्रियाया इन्दुमत्याः सादृश्यं वस्त्वंतरगतमाकारसाम्यं प्रतिकृतिश्चित्रं तयोर्दर्शनैः स्वप्नेषु क्षणिकाः क्षणभङ्गुरा ये समागमोत्सवास्तैश्च कथंचित्कृच्छ्रेण अष्टौ समा वत्सराः । 'संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः' इत्यमरः । परिगमिता अतिवाहिताः । उक्तं च—"वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपगतवता स्पर्शनमपि प्रतीकारः कामव्यथितमनसां कोऽपि कथितः ॥" इति । प्रकृते सादृश्यादितितयाभिधानं तदङ्गस्पृष्टपदार्थस्पृष्टेरप्युपलक्षणम् । प्रहर्षिणीवृत्तमेतत् ।

भावार्थ—सत्यभाषी अज ने पुत्र दशरथ के बालक होने के कारण, प्रिया इन्दुमती के समान चित्र आदि देखने और स्वप्नों में प्रिया के क्षणिक समागम के आनन्दों से किसी प्रकार आठ वर्ष बिताये ॥ ९२ ॥